अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 677, कुल 1258 में से
संदर्भ में पढ़ें६५८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
मा भूद् यदेवमिष्टकर्म तस्याल्पेच्छो विपाक इति ? तदेवं नेच्छन्ति
वैभाषिकाः । अस्ति हि कर्म सन्निकृष्टफलं न विप्रकृष्टफलम्, अस्ति विपर्ययाद्,
बाह्यबीजवत् । यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति, यवगोधूमादयः
षड्भिर्मासैरिति ॥ ५० ॥
चतुष्कोटिकमित्यन्ये,
दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति—१. अस्ति कर्मावस्थानियतं
न विपाके नियतम् । यत् कर्म दृष्टधर्मादिवेदनीयं विपाकेऽनियतम् । २. अस्ति
विपाके नियतं नावस्थायाम् । यत् कर्मानियतवेदनीयं विपाके नियतम् । ३. अस्त्यु-
भयनियतं यद् दृष्टधर्मादिवेदनीयं विपाके नियतम् । ४. अस्ति नोभयनियतं
यत् कर्मानियतवेदनीयं विपाके अनियतम् ।
तेषां तत् कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च । एवं यावदनियत-
वेदनीयम् । नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति ।
स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् । स्यात् त्रिषु परं प्रयोज्य काम-
मिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत् प[रिसमाप्तौ¹ ।
एषां च पुनश्चतुर्णां कर्मणां
निकायाक्षेपणं त्रिभिः ।
अस्ति हीति विस्तरः । सन्निकृष्टफलस्य कर्मणः सुवर्चला दृष्टान्तः । विप्रकृष्ट-
फलस्य यवगोधूमादयः ॥ ५० ॥
दार्ष्टान्तिकाः सौत्रान्तिकाः । तेषामेवं प्रथमद्वितीये कोट्यौ वर्णयतां कर्माष्ट-
विधम् । दृष्टधर्मवेदनीयं नियतमनियतं च विपाकं प्रति । एवं यावदनियतवेदनीय-
मिति । उपपद्यवेदनीयं नियतमनियतं च विपाकं प्रति, अपरपर्यायवेदनीयमपि-
नियतमनियतञ्च, अनियतवेदनीयमपि यो दृष्टधर्माद्यनियतवेदनीयं तन्नियतम्,
अनियतञ्च—इत्यष्टविधम् ।
चतुर्विधं कर्माक्षिपेदिति । दृष्टधर्मादिवेदनीयं चतुर्विधं कर्माक्षिपेदित्यर्थः ।
कथम् ? इत्याह—स्यात् त्रिषु प्राणातिपातादत्तादानमृषावादेषु परं प्रयोज्य काम-
मिथ्याचारे स्वयमात्मना प्रयुक्तः । तेषां कर्मणां युगपत् परिसमाप्तौ । एकं दृष्टधर्म-
वेदनीयम्, अपरमुपपद्यवेदनीयम्, अपरं चापरपर्यायवेदनीयम्, अन्यच्चानियत-
वेदनीयमिति ।
१. समाप्तौ—का० ।