अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 676, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ६५७
४. विपाकवेदनीयता कर्मणः; “दृष्टधर्मवेदनीयं कर्म” इति विस्तरः।
५. सम्मुखीभाववेदनीयता। यथोक्तम्—“यस्मिन् समये सुखां वेदनां
वेदयते, द्वे अस्य वेदने तस्मिन् समये निरुद्धे भवतः” इति। नहि यस्मिन् समये
सुखा वेदना वर्तते तस्मिन् पुनरन्या वेदनास्ति, स यां तां वेदयते। सम्मुखी-
कुर्वंस्तु तां वेदयत इत्युच्यते। अतो विपाकस्य वेदनीयत्वात् कर्माण्युच्यते
सुखवेदनीयमित्येवमादि ॥ ४९ ॥
नियतानियतं तच्च,
तच्चैतत् सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम्।
नावश्यवेदनीयमनियतम्।
नियतं त्रिविधं पुनः।
दृष्टधर्मादिवेद्यत्वात्,
दृष्टधर्मवेदनीयम्, उपपद्यवेदनीयम्, अपरपर्यायवेदनीयं च—इत्येतत्
त्रिविधं कर्म नियतमिति। एतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन।
पञ्चधा कर्म केचन ॥ ५० ॥
अपरे पुनः पञ्चविधं कर्मेच्छन्ति—अनियतवेदनीयं द्विधा कृत्वा,
विपाकेन नियतमनियतं चेति।
तत्र दृष्टधर्मवेदनीयम्—यत्र जन्मनि कृतं तत्रैव विपच्यते। उपपद्यवेदनी-
यम्—द्वितीये जन्मनि। अपरपर्यायवेदनीयम्—तस्मात् परेण।
जन्मान्तरेऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात् तन्नाम-
व्यवस्थानमित्यपरे।
दृष्टधर्मवेदनीयमिति। दृष्टे जन्मनि वेदनीयं विपाकलक्षणमस्येति दृष्टधर्म-
वेदनीयं कर्मेति विस्तरः।
यस्मिन् समय इति विस्तरः। यस्मिन् समये सुखां वेदनां वेदयते अनुभवति।
द्वे अस्य वेदने¹ दुःखा, अदुःखासुखा च, तस्मिन् समये निरुद्धे भवत इति ॥४९॥
आरम्भवशादिति। दृष्ट एव जन्मनि विपाकारम्भादित्यर्थः। तन्नामव्यव-
स्थानमिति। ‘दृष्टधर्मवेदनीयम्’ इत्येवं नामव्यवस्थानमित्यर्थः।
१. वेदना—मुद्रितः पाठः।