सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देश: ] चतुर्थ कोशस्थानम् ६३५
पूगफलकोद्रवादयोऽपि मदयन्तीति सुरामैरेयग्रहणम् । प्रज्ञप्तिसावद्यस्याप्यादरेण
प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम्; सर्वप्रमादास्पदत्वादिति ॥ ३४ ॥
य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः, किमेषां यत एको लभ्यते ततः
शेषौ ? नेत्याह । किं तर्हि ?
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।
वर्तमानेभ्य एव स्कन्धायतनधातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः ।
सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः । उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः, प्रकृति-
प्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते; सत्त्वाधिष्ठान-
प्रवृत्तत्वात् । नातीतानागतेभ्यः; तेषामसत्त्वसंख्यातत्वात् ।
इत्यभिप्रायः । पूगफलकोद्रवादयोऽपीति । आदिशब्देन निष्पावादयो गृह्यन्ते ।
मद्यपानेनामद्यत्वेऽपि दोषः । सुरामैरेये न भवत इति सुरामैरेयस्वभावस्य
मद्यस्य पाने दोष इत्यर्थः । सर्वप्रमादास्पदत्वादिति । सर्वप्रमादानां सर्वस्मृतिप्रमो-
षाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानमास्पदं प्रतिष्ठेति प्रमादस्थानं
मद्यपानम् ॥ ३४ ॥
यत एको लभ्यते इति । यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश्च प्रातिमोक्ष-
संवरो लभ्यते । ततः शेषौ ध्यानानास्रवसंवरौ ।
मौलप्रयोगपृष्ठेभ्य इति । मौलप्रयोगपृष्ठेभ्योऽकुशलेभ्यः कर्मभ्यः मौल-
प्रयोगपृष्ठस्वभावाख्याणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या
विज्ञप्त्यविज्ञप्तयो लभ्यन्ते । सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधि-
ष्ठानलक्षणेभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च कर्मभ्यः प्राणातिपातवनस्पति-
भङ्गादिलक्षणेभ्यः । तदेतदुभयमप्युभयाधिष्ठानम्, भवति—प्रकृतिसावद्यमपि
सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं च, प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं
च । न पुनरेवं ग्रहीतव्यम्—प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्रतिक्षेपणसावद्यम-
सत्त्वाधिष्ठानमिति । तत्र तावत् प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्राणिवधादि,
प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं सहागारशय्यादि
च । प्रकृतिसावद्यमसत्त्वाधिष्ठानं जातरूपाद्यवहरणम्, प्रज्ञप्तिसावद्यम-
सत्त्वाधिष्ठानं वृक्षपत्रादिच्छेदो भिक्षो आहारादिषु च विनयोक्तः उपदेशः ।
सत्त्वाधिष्ठानप्रवृत्तत्वादिति । सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वादित्यभिप्रायः । वर्तमाना
एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीतानागताः, तेषां निरूपाख्यकल्पत्वात् ।
अतएवाह—नातीतानागतेभ्यः; तेषामसत्त्वसंख्यातत्वादिति । ननु चासत्त्वप्रज्ञप्त्य-
अभि० को० २ : १७

६३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ ॥ ३५ ॥
मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते, न प्रयोगपृष्ठेभ्यः;
कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीता-
नागतेभ्योऽपि !
अत एव चतुष्कोटिकं क्रियते—सन्ति तानि स्कन्धधात्वायतनानि येभ्यः
प्रातिमोक्षसंवरः एव लभ्यते, न ध्यानानास्रवसंवराविति विस्तारः । प्रथमा
कोटिः—प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणासवद्याच्च । द्वितीया—
अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । तृतीया—प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्म-
पथेभ्यः । चतुर्थी—अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति ।
धिष्ठानप्रवृत्तोऽपि प्रातिमोक्षसंवरो भवति; सत्त्वासत्त्वाख्येभ्यः प्राप्यत इति
वचनात् ? स चाप्येवं न प्रतिषिध्यते, यथैव हि सत्त्वाख्येभ्यो वर्तमानेभ्य एव
लभ्यते इत्युच्यते, तथा वर्तमानेभ्य एवासत्त्वाख्येभ्योऽपि लभ्यते इति वक्तव्यम् ।
वर्तमानाधिष्ठानतामेव ह्यनेन वचनेनातिदिशति ।
न प्रयोगपृष्ठेभ्यः इति । समाहितावस्थायामेकान्तमौलत्वात्, असमाहिता-
वस्थायां च न संवराभावात् । कुत एव प्रज्ञप्तिसावद्येभ्य इति । अभ्युपगमा-
भावात् । सर्वकालेभ्यश्चेति । अतीतानागतयोरपि संवरयोर्लाभात्तत्सहभूचित्तवत् :
अत एवेति । यस्मादेते संवरा एवं लभ्यन्ते । यथा विस्तरेणोक्तम्, अतश्च-
तुष्कोटिकं क्रियते । विस्तर इति । सन्ति तानि स्कन्धधात्वायतनानि येभ्यो
ध्यानानास्रवसंवरौ लभ्येते, न प्रातिमोक्षसंवरः; सन्ति तानि येभ्यः प्राति-
मोक्षसंवरः, न ध्यानानास्रवसंवरौ;, सन्ति तानि येभ्य उभयं लभ्यते; सन्ति
तानि येभ्यो नोभयं लभ्यते इति विस्तरार्थः । प्रथमा कोटिः—वर्तमानेभ्यः
प्राणातिपातादिकर्मपथप्रयोगपृष्ठेभ्यः प्रतिक्षेपणासवद्याच्च वृक्षभङ्गादिकाद् यः
संवरः स प्रतिमोक्षसंवरः; “सर्वोभयेभ्यः” इति वचनात् । प्रयोगपृष्ठत्वात्तु न
ध्यानानास्रवसंवरौ । द्वितीया—अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः प्राणा-
तिपातादिभ्यः कायिकवाचिकेभ्यः सप्तभ्यः संवरः यः, तौ ध्यानानास्रव-
संवरौ; “मौलेभ्यः सर्वकालेभ्यः” इति वचनात् । न प्रातिमोक्षसंवरः अतीता-
नागतत्वात् । तृतीया—प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्य इति । प्रत्युत्पन्नकर्म-
पथत्वात् प्रातिमोक्षसंवरो भवति । मौलकपंथत्वाच्च ध्यानानास्रवसंवरौ ।
चतुर्थी—अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति । अतीतानागतत्वान्न प्राति-
मोक्षसंवरः, सामन्तकपृष्ठत्वान्न ध्यानानास्रवसंवरौ ।

निर्देशः ] चतुर्थं कोशस्थानम् ६३७
न तु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्य इति
वक्तव्यम् ! अनागतानामेव संवरणं युज्यते, नातीतवर्तमानानाम् ॥ ३५ ॥
अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः, सर्वकारणैश्च ?
आहोस्विदस्ति भेदः ? नियतं तावन् लभ्यते
संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः ।
सर्वसत्त्वेभ्यः एव संवरो लभ्यते । केभ्यश्चिद् अङ्गेभ्यस्तु विभाषा ।
कश्चित् सर्वेभ्यो लभ्यते, भिक्षुसंवरः । कश्चिच्चतुर्भ्यः, ततोऽन्यः । कर्मपथा हि
संवरस्याङ्गानि ।
कारणैरपि केनचित् पर्यायेण सर्वैः, केनचिदेकेन ।
केन तावत् सर्वैः ? यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ।
स्वसन्ताने वर्तमानेभ्यः कर्मपथेभ्यः संवरो न युज्यते इति पश्यन्नाह—न तु
संवरलाभकाले वर्तमानाः कर्मपथाः सन्तीति । वर्तमानाधिष्ठानेभ्यस्तेभ्यः कर्म-
पथेभ्य इति वक्तव्यमिति शिक्षयत्याचार्यः । यतो वस्तुनः प्रतिविरमति; तस्य
वर्तमानत्वासम्भवात् । नातीतानामिति । उत्पन्नत्वादेषां संवरणं न
युज्यते । न ह्युत्पन्नानामनुत्पत्तिः शक्यते कर्तुम् । अनागतानां तु शक्यत इति ।
तेषामेव संवरणं युज्यत इत्याचार्याभिप्रायः ।
वैभाषिकाणां तु तथा वचनेऽयमभिप्रायो लक्ष्यते—प्राणातिपातादिप्रयोग-
मौलपृष्ठानां यथाक्रमं संवरणाय प्रातिमोक्षसंवरप्रयोगमौलपृष्ठानि प्रवर्तन्ते ।
नेमानि प्रवर्तिष्यन्त इति । अथैत एवैतानि प्रतिपक्षभूतानि, तानि रुन्धन्तीवो-
त्पद्यन्ते । प्रयोगः-- प्रयोगमेवं ब्रवीतीव त्वामहं संवृणोमि । मा त्वमुत्था इत्येवं
यावत् । पृष्ठः—पृष्ठमेवं ब्रवीतीवेति योज्यम् । तथा स्कन्धधातवायतनानां
कर्मपथप्रयोगमौलपृष्ठस्वभावानां वर्तमानानां रुन्धानो वर्तमानेभ्यस्तेभ्यो
लभ्यते । प्रातिमोक्षसंवर इत्युच्यत इति । तस्मान्नैवं वक्तव्यमिति ॥ ३५ ॥
कश्चित् सर्वेभ्य इति विस्तरः । भिक्षुसंवरः सर्वेभ्यः कर्मपथेभ्यो लभ्यते ।
सर्वकर्मपथा वर्जनीया इत्यर्थः । कश्चिच्चतुर्भ्यस्ततोऽन्यः । ततो भिक्षुसंवरा-
दन्यः । संवरः श्रामणेरादिसंवरः चतुर्भ्य एवाङ्गेभ्यो लभ्यते । कायिकेभ्यः
प्राणातिपातादिभ्यस्त्रिभ्यः, वाचिकाच्च मृषावादात् ।
यद्यलोभाद्वेषामोहाः कारणानीति । संवरकारणानि द्विधा इष्यन्ते—अलो-
भाद्वेषामोहा वा कारणानि, मृदुमध्याधिमात्राणि वा चित्तानीति । यदि पूर्वः

६३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
केनैकेन ! यदि मृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ।
पश्चिमं पर्यायं नियमय्योच्यते —
अस्ति संवरस्थायी सर्वसत्त्वेषु संवृत्तो न सर्वाङ्गैः, न सर्वकारणैः । यो
मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोपवासश्रामणेरसंवरं समादत्ते ।
अस्ति सर्वसत्त्वेषु संवृतः सर्वाङ्गैश्च, न तु सर्वकारणैः । यो मृदुना चित्तेन
मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते ।
अस्ति सर्वसत्त्वेषु सर्वाङ्गैः, सर्वकारणैश्च । यस्त्रिविधेन चित्तेन त्रीन् संवरान्
समादत्ते ।
अस्ति सर्वसत्त्वेषु सर्वकारणैश्च, न तु सर्वाङ्गैः । य उपासकोपवासश्रामणे-
संवरान् मृदुमध्याधिमात्रैः समादत्ते ।
यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति; यस्मात् सर्वसत्त्वानुगते कल्याणा-
शये स्थितः संवरं प्रतिलभते, नान्यथा; पापाशयस्यानुपरतत्वात् ।
पञ्च नियमान् कुर्वन् प्रातिमोक्षसंवरं प्रतिलभते, सत्त्वाङ्गदेशकालसमय-
नियमात् । १. अमुष्मात् सत्त्वाद्विरमामीति सत्त्वनियमः । २. अमुष्मादङ्गादिति
अङ्गनियमः । ३. अमुष्मिन् देश इति देशनियमः । ४. मासाद्यावदिति काल-
नियमः । ५. अन्यत्र युद्धादिति समयनियमः । सुचरितमात्रं तु स्यात् तथा गृह्णतः ।
पर्यायोऽभिप्रीयते, सर्वैः कारणैरलोभादिस्वभावैर्लभ्यते संवरः; कुशले
समुत्थापके चेतसि तेषां युगपद्भावात् । यदि मृद्वादीनीति चित्तानि कारणानि
इष्यन्ते । एकेन कारणेन लभ्यते; तेषामयुगपद्भावात् ।
पश्चिमं पर्य्यायमिति । मृदुतादिकारणपक्षम् ।
अस्ति संवरस्थायीति विस्तरः । सर्वसत्त्वेषु संवृतः सर्वसत्त्वानुगते कल्याणा-
शये सति संवरोत्पत्तेः । न सर्वाङ्गैः; उपासकादिसंवरस्य सर्वाङ्गाप्रतिविरतत्त्वात् ।
न सर्वकारणैः, मृद्वादीनां कारणत्वेन युगपदसम्भवात् । भिक्षुसंवरस्तु सर्वाङ्गैरपि
सर्वाङ्गप्रतिविरतत्त्वात् ।
यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्त इति । तद्यथा—मृदुना चित्तेन
उपासकसंवरं समादत्ते, मध्येन श्रामणेरसंवरम्, अधिमात्रेण भिक्षुसंवरमिति ।
सर्वकारणैश्च न तु सर्वाङ्गैरिति । उपासकादिसंवराणामेकैकस्य मृद्वाद्येकैक-
कारणत्वात् । तथा गृह्णत इति पञ्चनियमक्रियया गृह्णतः ।

निर्देशः ] चतुर्थं कोशस्थानम् ६३९
कथमशक्येभ्यः संवरलाभः ? सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् ।
यदि पुनः शक्येभ्य एव संवरो लभ्यते, चयापचययुक्तः स्यात्, शक्या-
शक्यानामितरेतरसञ्चारात् । एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य
लाभत्यागौ स्यातामिति वैभाषिकाः ।
नैवं भविष्यति । यथा ह्यपूर्ववृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्रासौ न
भवतः, तथा शक्याशक्यसंचारेऽपि न स्याताम् ।
न सत्त्वानां पूर्वं पश्चाच्च भावात्, तृणादीनां चाभावात्¹ ।
को न्वत्र विशेषः-न वा भवेदसत्सु तृणादिषु संवरः, तद्वदशक्यो वा भवेत् ?
यदा² परिनिर्वृता न भवन्त्येव, तदा कथं संवरह्रासो न स्यादिति नैष
युक्तः परिहारः । तस्मात् पूर्वंक एव हेतुः³ साधुः ।
कथमशक्येभ्य इति । ये हन्तुमेव न शक्यास्तेभ्योऽशक्येभ्यः सत्त्वेभ्यः कथं
संवरलाभः ? अत्र आचार्यः समाधिमाह-सर्वसत्त्वजीवितानुपघाताध्याशयेना-
भ्युपगमादिति । सर्वसत्त्वानां जीवितस्यानुपघातेनाध्याशयेन संवराभ्युपगमात् ।
वैभाषिका अप्यस्यैव प्रश्नस्य परिहारान्तरमाहुः- यदि पुनः शक्येभ्य एवेति
विस्तरः । चयापचययुक्तः स्यात् । शक्यतामागतेषु सत्त्वेषु संवरश्चीयेत,
अशक्यतामागतेषु अपचीयेत । शक्याशक्यानां मनुष्यादिदेवादीनामितरेतर-
सञ्चारात् । देवादयो मनुष्यादीन् सञ्चरन्ति, मनुष्यादयश्च देवादीनिति ।
इमं वैभाषिकपरिहारं सावकाशं पश्यन्नाचार्य आह-नैवं भविष्यतीति
विस्तरः । नैवं चयापचययुक्तः संवरो भविष्यति । कथं कृत्वा ? यथा ह्यपूर्ववृणा-
द्युत्पत्तौ । शोषे वा । तृणादीनाम् । यद्यपि तृणादिभ्योऽपि संवरो लभ्यते तथापि
संवरस्य वृद्धिह्रासौ न भवतः । एवं शक्याशक्यसंचारेऽपि न स्यातां वृद्धिह्रासौ ।
चयापचयावित्यर्थः । तस्माच्छक्येभ्य एव संवरो लभ्यते । न चायं दोषः
स्यादिति ।
वैभाषिका आहुः -न सत्त्वानामिवि विस्तरः । न तदेवम्, यथा ह्यपूर्ववृण-
द्युत्पत्ताविति विस्तरेण यदुक्तम् । किं कारणम् ? सत्त्वानां पूर्वं सञ्चारात्
पश्चाच्च भावात् । तृणादीनां स्वभावात् पूर्वं पश्चाच्चाभावात् । अतो न तृणादि-
दृष्टान्तेन चयापचयदोषो निवार्यते । एवं वैधर्म्यमात्रमुक्तम्, न साध्यसाध-
नार्थं इति ।
आचार्यः पुनराह - यदा परिनिर्वृता न सन्त्येवेति विस्तरः । तस्मात् पूर्वंक
१. त्वभावात्-का० । २. यदा च-का० । ३. परिहारः- का० ।

एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रातिमोक्षसंवरस्यालाभात्
कथं शीलन्यूनता न प्रसज्येत ? सर्वेषां सत्त्वेभ्यो लाभात् । यदि हि तेऽप्य-
भविष्यन्, तेभ्योऽपि तेऽलप्स्यन्त ।
उक्तं यतः संवरो लभ्यते ॥
असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ३६ ॥
असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते, सर्वकर्मपथेभ्यश्च । नास्ति हि विकलेना-
संवरेणासंवरिकः । न तु सर्वकारणैः, युगपत् मृद्वादिविचित्त्यासम्भवात् । यो मृदुना
चित्तेनासंवरं प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद् व्यपरोपयन्
मृदुनैवासंवरेण समन्वागतो भवति, अधिमात्रया तु प्राणातिपातविज्ञप्त्या ।
एवं मध्याधिमात्रेण योज्यम् ।
तत्रेमे आसंवरिकाः, तद्यथा—औरभ्रिकाः, कौक्कुटिकाः, सौकरिकाः,
शाकुनिकाः, मात्स्यिकाः, मृगलुब्धकाः, चौराः, वध्यघातकाः, बन्धनपालकाः,
एव हेतुः साधुरिति । सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमादिति । अतः
शक्याशक्येभ्यः संवरो लभ्यत इति सिद्धम् ।
एवं तर्हि यदि सर्वसत्त्वेभ्यो लभ्यते प्रतिमोक्षसंवरः। पूर्वबुद्धपरिनिर्वृतेभ्य-
स्तस्यालाभाच्छीलन्यूनता स्यात् । सत्त्वानां पूर्वेभ्यो न्यूनत्वाद् । आचार्य
आह—सर्वेषां बुद्धानां पूर्वं पश्चाच्चोत्पन्नानामविशेषेण सर्वसत्त्वेभ्यो लाभाद् ।
यदि हि तेऽपि अपरिनिर्वृता अभविष्यन् सम्प्रति तेभ्योऽपि तेऽलप्स्यन्त इति ।
सर्वकर्मपथेभ्य इति । कायिकवाचिकेभ्यः । नास्ति हि विकलेनासंवरेणेति ।
प्राणातिपातेनैव, नादत्तादानेनेत्येवमादि । मृदुनैवासंवरेण समन्वागत इति ।
पूर्वप्रतिलब्धत्वात् । अधिमात्रया तु प्राणातिपातविज्ञप्त्या । किम् ? समन्वागत
इति वर्तते । न विपाकफलविशेष इति । एवं मध्याधिमात्रेण च योज्यमिति । यो
मध्येन चित्तेनासंवरं प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनो जीविताद्
व्यपरोपयन् मध्येनैवासंवरेण समन्वागतो भवति, अधिमात्रया तु प्राणातिपात-
विज्ञप्त्या । एवं योऽधिमात्रेण यावदधिमात्रेणैवासंवरेण समन्वागतो भवति,
अधिमात्रया च प्राणातिपातविज्ञप्त्या । इत्थमपि च योज्यम्—योऽधिमात्र-
चित्तेनासंवरं प्रतिलभते स मृदुनापि चित्तेन प्राणिनो जीविताद् व्यपरोपयन्
अधिमात्रेणैवासंवरेण समन्वागतो भवति, मृद्व्या तु प्राणपतिपातविज्ञप्त्या
इत्येवमादि ।

निर्देशः ] चतुर्थं कोशस्थानम् ६४१
नागबन्धाः १, श्वपाकाः, वागुरिकाश्च ।
राजानो दण्डनेतारो व्यावहारिकाश्च अर्थत आसंवरिकाः । असंवरे भवत्वात्
तत्रस्थतया असंवर एषामस्तीति आसंवरिका वा । उरभ्रान् घ्नन्तीति औरभ्रिकाः ।
एवमन्येऽपि योज्याः ।
युक्तस्तावत् संवरस्य सर्वसत्त्वेभ्यो लाभः, सर्वसत्त्वहिताध्याशयेन ग्रहणात् ;
औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां
कथमसंवरः सर्वसत्त्वेभ्यो युज्यते ? मात्रादीनपि हि त उरभ्रीभूतान् हन्युः ।
न हि तावत्ते एव२ त२ इति विद्वांसो हन्युः । आर्यीभूतानां च पुनः पशू-
भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् !
यदि वानागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्याद्, उरभ्रादीनपि ते
पुत्रीभूतान् सर्वथा न हन्युरिति न स्यात् तेभ्योऽसंवरः ।
कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः ?
एतन्मात्रादिषु समानम् । कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर
इति ? यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च, कथमस्य पूर्वाङ्गेभ्यो
नागबन्धा हस्तिपकाः । वागुरिका इति । पम्पा नाम प्राणिजातिर्वा-
गुराख्या, तां घ्नन्तीति वागुरिकाः ।
अर्थत आसंवरिका इति । राजानश्चाधिकरणस्थाश्च दण्डनेतृत्वादविहापठिता
अपि आसंवरिका एव द्रष्टव्याः । एवमन्येऽपि योज्या इति । कुक्कुटान्
घ्नन्तीति कौक्कुटिका इत्येवमादीनि ।
युक्तस्तावदिति विस्तरेणोक्त्वा यावत् कथमसंवरः सर्वसत्त्वेभ्यो युज्यत इति
प्रश्निते वैभाषिकः परिहारमाह—मात्रादीनपि हीति विस्तरः । आचार्य आह—न
हि तावत् त एव त इति । ते मात्रादय इति जानाना हन्युरित्यघात्येभ्यस्तेभ्योऽ-
संवरः कथं युज्यते । किञ्च—आर्यीभूतानां पुनः पशूभवितुं नास्त्यवकाशः । तेषा-
मुरभ्राद्युपपत्त्यसम्भवाद् । तेभ्यः कथमसंवरः स्यात् । यदि वा अनागतात्मभावा-
पेक्षया उरभ्रादयो भविष्यन्तीति वर्तमानान्मात्रादेरसंवरः स्यात् । उरभ्रानपि ते
औरभ्रिकाः पुत्रीभूताननागते जन्मनि सर्वथा न हन्युरिति न स्यात्तेभ्योऽसंवरः ।
वैभाषिक आह—कथं हि नाम जिघांसतामिति विस्तरः । आचार्य आह—
एतन्मात्रादिषु समानमिति विस्तरः । कथं हि नामाजिघांसतां पुत्रादिभूताना-
मौरभ्रिकादीनां तेभ्यो मात्रादिभ्यः स्यादासंवर इति ।
१. नागबन्धकाः—का० ।
२-२. त एव—का० ।

ऽसंवरः स्यात् ? आशयस्याविपन्नत्वात् । मूकोऽपि च वाक्प्रापणीयमर्थं कायेन
प्रापयितुं शक्त इति ।
यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते । सर्वथा नास्ति विकलः
प्रादेशिकश्चासंवरिक इति वैभाषिकाः ।
यथाभ्युपगमं विकलोऽपि स्यात् प्रादेशिकोऽप्यसंवरः संवरश्च, अन्यत्राष्ट-
विधादिति सौत्रान्तिकाः; तन्मात्रशीलदौःशील्यप्रतिबन्धात् ॥ ३६ ॥
उक्तमिदमसंवरस्य येभ्यो लाभः ॥
कथं तु लाभ इति नोक्तम्, तत इदमुच्यते—
असंवरस्य क्रियया लाभोऽभ्युपगमेन वा ।
द्वाभ्यां कारणाभ्यामसंवरो लभ्यते— १. वधप्रयोगक्रियया तत्कुलीनैः;
२. तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः—वयमप्यनया जीविकया जीविष्याम इति ।
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहणात् ॥ ३७ ॥
क्षेत्रं वा तद्रूपं भवति, यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते ; यथा—
औपधिकेषु पुण्यक्रियावस्तुषु । अथ वा समादानमादत्ते-बुद्धमवन्दित्वा न
भोक्ष्ये, तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि । आदरेण वा तद्रूपेण
क्रियामीहते कुशलामकुशलां वा, यतोऽस्याविज्ञप्तिरुत्पद्यते ॥ ३७ ॥
उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलाभः ॥
विकलः । कर्मपथाङ्गतः । प्रादेशिकोऽपि स्यात् । एकस्यापि अङ्गस्य अवि-
रमात् । सत्त्वदेशकालसमयनियमयोगेन प्रदेशविरतत्वात् ।
संवरश्च तथैव विकलोऽपि प्रादेशिकोऽपि स्यात् । अन्यत्राष्टविधात् पूर्वोक्तात्
प्रातिमोक्षसंवरात् । कस्माद् ? इत्याह--तन्मात्रशीलदौःशील्यप्रतिबन्धादिति ।
असंवरस्तन्मात्रं शीलं प्रतिबध्नाति, संवरश्च तन्मात्रं दौःशील्यं प्रति-
बध्नातीति ॥ ३६ ॥
तत्कुलीनैरिति आसंवरिककुलीनैः ।
“क्षेत्रादानादरेहनात्” इति । आदरेण ईहनं क्रियारम्भः । क्षेत्रं चादानं च
आदरेहनं चेति समासः । तस्मादविज्ञप्तिरुत्पद्यते । तिथेति विस्तरः । तिथि-
भक्तम् । यावदर्धमासभक्तमित्यर्थगतिः । आदिशब्देन मण्डलकरणादि गृह्यते ।
आदरेण वा तद्रूपेणेति । तीव्रक्लेशतया, तीव्रप्रसादतया चेत्यर्थः ॥ ३७ ॥

निर्देशः ] चतुर्थं कोशस्थानम् ६४३
त्याग इदानीं वक्तव्यः । तत्र तावत्—
प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ३८ ॥
दाम्यन्त्यनेनेति दमः संवरोऽभिप्रेतः, तेनेन्द्रियदमनात् । चतुर्भिः कारणैः
प्रातिमोक्षसंवरस्य त्यागः, स्थापयित्वोपवासम्—१. शिक्षापदानां विज्ञपुरुषस्यान्तिके
प्रत्याख्यानाद्, २. आशयतः निकायसभागत्यागात्, ३. युगपदुभयव्यञ्जनप्रादु-
र्भावात्, ४. कुशलमूलसमुच्छेदाच्च ।
उपवाससंवरस्य त्वेभिश्चतुर्भिः, ५. आरात्रिक्षयाच्च । तान्येतान्यभिसमस्य
पञ्च त्यागकारणानि भवन्ति ।
किं पुनः कारणमेभिः कारणैस्त्यागो भवति ? समादानविरुद्धविज्ञप्त्युत्पादात्,
आश्रयत्यागाद्, आश्रयविकोपनात्, निदानच्छेदात्, तावदेवाक्षेपाच्च ॥ ३८ ॥
पतनीयेन चेत्येके,
अन्ये पुनराहुः—चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति ।
सद्धर्मान्तर्धितोऽपरे ।
सद्धर्मस्यान्तर्धानादित्यपरे; यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः
प्रतिप्रस्रभ्यन्त इति ।
समादानविरुद्धविज्ञप्त्युत्पादादिति । यावज्जीवं प्राणातिपातादिभ्यः प्रति-
विरमामीति यत् समादानं तेन विरुद्धाया विज्ञप्तेरुत्पादादिति प्रथमेन कारणेन
प्रातिमोक्षसंवरत्यागः । आश्रयत्यागादिति । येनाश्रयेण संवरो गृहीतस्तस्य
त्यागान्मरणादिति द्वितीयेन कारणेन तत्त्यागः । आश्रयविकोपनादिति ।
यादृशेन आश्रयेण संवर उपात्तस्तादृशो न भवति विकोपनात् इति तृतीयेन
कारणेन तत्त्यागः । निदानच्छेदादिति । निदानं कुशलमूलानि, तस्य छेदात्,
चतुर्थेन कारणेन तत्त्यागः । तावदेवाक्षेपाच्चेति । उपवाससंवरस्याहोरात्र-
माक्षेपः, इति पञ्चमेन कारणेन तस्योपवाससंवरस्य त्यागः पूर्वोक्तैश्चतुर्भिः
कारणैरिति ॥ ३८ ॥
पतनीयेन चेति । एभिश्च यथोक्तैः पञ्चभिः कारणैः । पतनीयेन चेति पत-
न्त्यनेनेति पतनीयम् । तच्चतुर्विधम्—अब्रह्मचर्यं यथोक्तप्रमाणम्, अदत्तादानम्,
मनुष्यवधः, उत्तरिमनुष्यधर्ममृषावादश्चेति ।

धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम् ॥ ३९ ॥
काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति—न मौलीमप्यापत्तिमा-
पन्नस्यास्ति भिक्षुसंवरत्यागः । किं कारणम् ? न ह्येकदेशक्षोभात् कृत्स्नसंवर-
त्यागो युक्त इति । नैव चान्यामप्यापत्तिमापन्नस्यास्ति शीलच्छेदः । किं तर्हि ?
द्वयमस्य भवति—शीलम्, दौःशील्यं च । यथा कस्यचिद्धनं स्याद्, ऋणं
च । आविष्कृतायां तु तस्यामापत्तौ शीलवान् भवति, न दुःशीलः; यथा ऋणं
शोधयित्वा धनवान् भवति, न ऋणवान् इति ।
यत्तर्हि भगवतोक्तम्—“भिक्षुर्भवत्यश्रमणोऽशाक्यपुत्रीयो ध्वस्यते भिक्षु-
भावात्, कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितम्” इति ? परमार्थभिक्षुत्वं
सन्ध्यायैतदुक्तम् ।
इदमभिसाहसं वर्तते ? किमत्राभिसाहसम् ? यद् भगवता नीतार्थं पुन-
रन्यथा नीयते, दौःशील्याय च बहुक्लेशेभ्यो प्रत्यया दीयन्ते ।
कथमेतन्नीताथंम् ? एष हि विनये निर्देशः—“चतुर्विधो भिक्षुः—१. संज्ञा-
भिक्षुः, २. प्रतिज्ञाभिक्षुः, ३. भिक्षत इति भिक्षुः, ४. भिन्नक्लेशत्वात् भिक्षुः ।
“धनर्णवत्तु काश्मीरैरापन्नस्येष्यते” । आगमाद्, युक्तितश्च । तत्रायमागमः ।
विनये उक्तम्—“दुःशीलश्चेत् भिक्षुर्भिंक्षुणीमनुशास्ति संघावशेषमापद्यते”
( ) इति । आपन्नपाराजिको हि भिक्षुर्दुःशीलोऽभिप्रेतः, नाना-
पन्नपाराजिकः; प्रकृतस्थः शीलवानिति विपर्ययेण वचनात् । अतोऽवगम्यते—
अस्त्यस्य दुःशीलस्यापि सतो भिक्षुभावः, यस्मात् सङ्घावशेषमापद्यत इत्युक्त-
मिति । युक्तिरपि—न ह्येकदेशक्षोभात् सकलसंवरत्यागो युक्त इति । न मौली-
मप्यापत्तिम् आपन्नस्येति । पतनीयामप्यापत्तिमापन्नस्येत्यर्थः । नैव चान्यापत्ति-
मिति । सङ्घावशेषादिकम् । आविष्कृतायामिति । देशितायाम् ।
यत्तर्हि भगवतोक्तमिति विस्तरेण यावत् पराजितमिति । तत् कथमिति
वाक्याध्याहारः । परमार्थभिक्षुत्वं सन्ध्यायैतदुक्तमिति । सत्यदर्शनेऽभव्यत्वेन
तस्यापन्नस्य परमार्थभिक्षुत्वाप्राप्तेः ।
बहुक्लेशेभ्यो नन्दप्रभृतिभ्यो मौल्याप्यापत्त्या न भिक्षुत्वं नश्यति इति
विदित्वा तां कुर्युंरिति वाक्यार्थः ।
संज्ञाभिक्षुरिति । यस्यानुपपसम्पन्नस्य भिक्षुरिति नाम । प्रतिज्ञाभिक्षुरिति ।
अब्रह्मचर्यादिप्रवृत्तौ दुःशीलः । भिक्षत इति भिक्षुरिति । याचनकः । भिन्नक्लेश-

,निर्देशः ] चतुर्थं कोशस्थानम् ६४५
अस्मस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसम्पन्नो भिक्षुः" ( ) इति । न चासौ पूर्वं
परमार्थभिक्षुरासीद्यतः पश्चाद्भिक्षुर्भवत् ।
यच्चोक्तम्—एकदेशक्षोभादिति, अत्र शास्त्रैव दत्तोऽनुयोगः--"तद्यथा
तालो मस्तकाच्छिन्नोऽभव्योऽङ्कुरित्वाय, अभव्यो विरूढिं वृद्धिं विपुलतामाप्तुम्”
( ) इत्युपमां कुर्वता ।
कः पुनरुपमार्थः ? एकमेकदेशस्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो
विरोढुमिति । स च गुर्वी भिक्षुभावमर्यादामेदिनीं मौलीमापत्तिमपद्यमानस्तीव्रा-
नपत्रपायोगात् संवरस्य मूलं छिनत्तीति युक्तः कृत्स्नसंवरत्यागः ।
यस्य चैकग्रासपरिभोगोऽपि, एकपादपाष्णिप्रदेशपरिभोगोऽपि च नाभ्यनु-
ज्ञायते साङ्घिकयोराहारविहारयोः, सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा; यं चाधि-
कृत्वोक्तम्—
“नाशयत कारण्डवकं कशंवकमपकर्षत ।
अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्” ॥ ( ) इति ।
तस्य कीदृशो भिक्षुभावः ? यादृशोऽस्तु, अस्ति तु भिक्षुभावः ।
तथा हि—"चत्वारः श्रमणा न पञ्चमोऽस्ति चुन्द" इति ।
त्वाद भिक्षुरिति । अर्हन् ।
अस्मस्त्वर्थ इति । यद् भगवतोक्तम्— 'अभिक्षुर्भवत्यश्रमणः' इति विस्तरेण,
एतस्मिन्नर्थे । यथोक्तेभ्यश्चतुर्भ्यो भिक्षुभ्योऽन्य एवायं पञ्चमो ज्ञप्तिचतुर्थोप-
सम्पन्नो भिक्षुरिति । यदप्युक्तम्—परमार्थभिक्षुत्वं सन्धायेत्युक्तम्, तत् प्रत्याह –
न चासौ पूर्वे परमार्थभिक्षुरासीद्, यतः पश्चाद्भिक्षुर्भवित् । “अभिक्षुर्भवत्यश्रमणः"
इति वचनात् ।
इत्युपमां कुर्वतेति । मस्तकच्छिन्नतालोपमां कुर्वता शास्त्रैव दत्तोऽनुयोग इति
सम्बन्धनीयम् । परिहृतः प्रश्न इत्यर्थः । एकग्रासपरिभोग आहारस्य । एकपाष्णि-
प्रदेशपरिभोगो विहारस्येति सम्बन्धः । सर्वभिक्षुसम्भोगबहिष्कृतश्च शास्त्रेति ।
सर्वस्मात् भिक्षुभिः सहसम्भोगादेकपंक्तिभोजनादिकाद् बहिष्कृतो बुद्धेन ।
नाशयंत कारण्डवकमिति। कारण्डवको यवाकृतित्वाद् यवस्तृणविशेषो यो
यवदूषीत्युच्यते । एवमसावभिक्षुर्भिक्षुराकृतिरिति । कशंवकं नाम पूतिकाष्ठम् ।
एवमसौ पूतिभूतो भिक्षुः । तं शीलवत् सङ्घाद् यूयमपकर्षतेति भगवान् भिक्षून्
आज्ञापयामास । अथोत्प्लाविनं वाहयतेति । उत्प्लावी नाम व्रीहिमध्येऽभ्यन्तर-

६४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
भगवानवोचत्—
'मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी' इति ? अस्त्ये-
तदुक्तम्; स त्वेष आकृतिमात्रावशेषत्वाच्छ्रमण उक्तो दग्धकाष्ठ-शुष्कह्रद-शुक-
नाशा-पूतिबीजालातचक्र-मृतसत्त्ववत् ।
यदि हि दौःशील्यादभिक्षुः स्यात् शिक्षादत्तको न स्यात् ?
न वयं ब्रूमः—सहाध्यापत्त्या सर्वः पाराजिको भवति । यस्तु पाराजिकः
सोऽवश्यमभिक्षुः । कश्चित्तु सन्तानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छा-
दनादिति व्यवस्थापितं धर्मस्वामिना ।
यदि तर्हि पाराजिको न भिक्षुः, किं पुनर्न प्रव्राज्यते ? तीव्रानपत्राप्य-
विपादितत्वात् सन्ततेः संवराभव्यात् , न तु खलु भिक्षुभावापेक्षया । तथा ह्यसौ
तण्डुलहीनो व्रीहिरेव । तथासौ शीलसारहीनो भिक्ष्वाकृतिः, तं प्रवाहयत ।
निष्कामयतेत्यर्थः । इदमत्रोदाहरणम् ।
मार्गजिनः शैक्षाशैक्षः । मार्गदेशिको बुद्धः । मार्गे जीवति शीलवान् भिक्षुः,
मार्गनिमित्तं जीवनात् । मार्गदूषी दुःशीलः । दग्धकाष्ठेति विस्तरः । यथा यद्
दग्धं न तत् काष्ठम्; पूर्वकाष्ठाकृतिमात्रावशेषसाधर्म्यात् तद् दग्धकाष्ठम्
इत्युच्यते । ह्रदश्च शुष्कोऽपि ह्रद इत्युच्यते । शुकनासा गृहादिषु रूण्कारकृता
शुकनासाकृतित्वात् शुकनासेत्युच्यते । एवमसौ भिक्ष्वाकृतिसामान्यमात्रावशेषा
च्छ्रमण उक्तः । पूतिबीजम् । अङ्कुरजनकत्वात् अबीजमपि बीजमित्युच्यते;
तदाकारमात्रावशेषत्वात् । अलातचक्रं चक्रमिति । चक्राकृतित्वात् । मृतसत्त्वश्च ।
असत्त्वोऽपि सत्त्व इत्युच्यते; सत्त्वाकृतिमात्रावशेषत्वात् । तद्वदेष द्रष्टव्यः ।
शिक्षादत्तको नाम भिक्षुरधिमात्ररागतया स्त्रिया अब्रह्मचर्यं कृत्वा तद-
नन्तरमेव जातसंवेगः कष्टं मया कृतमित्येकस्मिन्नपि प्रतिच्छादनचित्तेऽनुत्पन्ने
भिक्षुसङ्घमुपगम्याविष्करोति—इदं मया पापं कृतमिति । स आर्यसङ्घोपदेशात्
सर्वभिक्षुनवकान्तिकत्वादि दण्डकर्म कुर्वाणः शिक्षादत्तक इत्युच्यते । तद् यदि
दौःशील्यादभिक्षुरेव स्यात् , स न स्यात् । न हि तस्य पुनरुपसम्पादनं क्रियते,
भिक्षुश्च स व्यवस्थाप्यते । तस्माद् न दौःशील्याद् अभिक्षुत्वमिति । न ब्रूम
इति विस्तरः । न वयं ब्रूमः—सहाध्यापत्त्याऽब्रह्मचर्यादेव सर्वःपाराजिको भवति ।
किं तर्हि ? प्रतिच्छादनचित्तेन ।
किं न पुनः प्रव्राज्यते । अनिक्षिप्तशिक्ष इत्यध्याहार्यम् । तीव्रानपत्राप्य-
विपादितत्वात् । तीव्रेणानपत्राप्येन विपादितास्य सन्ततिः, तस्याः सन्ततेरेवं

निर्देशः ] चतुर्थं कोशस्थानम् ६४७
निक्षिप्तशिक्षोऽपि न प्रव्राज्यते ।
कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतोऽपि भिक्षुः, नमोऽस्तु तस्मै
तादृशाय भिक्षुत्वाय !
सद्धर्मान्तर्धाने तु विनयकर्माभावादपूर्वसंवरलाभो नास्ति । लब्धस्य तु
नास्ति त्यागः ॥ ३९ ॥
अथ ध्यानानास्रवसंवरयोः कथं त्यागः ?
भूमिसञ्चारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् ।
सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते—१. उपपत्तितो
वा भूमिसञ्चारादूर्ध्वं चावश्यम्, २. परिहाणितो वा समापत्तेः, निकायसभाग-
त्वाच्च किञ्चित् ।
यथा च रूपाप्तं कुशलं भूमिसञ्चारहानिभ्यां त्यज्यते,
तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४० ॥
अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते—१. फलप्राप्तितः पूर्वको
मार्गः परित्यक्ष्यते, २. इन्द्रियोत्तापनेन मृद्विन्द्रियमार्गः, ३. परिहाणित उत्तरो
मार्गः—फलम्, फलविशिष्टो वा । एवं यावत् संवरास्त्यज्यन्ते ॥ ४० ॥
विपादितत्वात् संवरस्याभव्यत्वम् । तस्मान्न पुनः प्रव्राज्यत इत्यधिकारः । न तु
खलु भिक्षुभावापेक्षया । न तु खलु तस्य भिक्षुभावोऽस्तीत्यपेक्षया न प्रव्राज्यते ।
तथा ह्यसौ पराजयिको निक्षिप्तशिक्षोऽपि न प्रव्राज्यते । तीव्रानपत्राप्यविपादि-
तत्त्वात् सन्ततेः ॥ ३९ ॥
“ध्यानाप्तम्” इति । रूपस्वभावं कुशलमरूपस्वभावं चाभिप्रेतम् । अत एव
च सर्वमेवेति व्याचष्टे । द्वाभ्यामिति । उपपत्तितो वा, परिहाणितो वा । तेनाह—
उपपत्तितो वेति विस्तरः । ऊर्ध्वमुपपद्यमानोऽधरं परित्यजति, अधश्चोपपद्यमान
उपरिभूमिकमिति । परिहाणितो वा समापत्तेः । तत्समापत्तिसंगृहीतं कुशलं
त्यज्यते । निकायसभागत्यागाच्च किञ्चिदिति । निर्वेधभागीयं यत् पृथग्जनावस्था-
यामुत्पादितं यावत् क्षान्तिरिति । तदसत्यपि भूमिसञ्चारे निकायसभागत्यागेन
त्यज्यते । यदा कामधातौ मृत्वा तत्रैवोपपद्यते । वक्ष्यति हि—‘भूमित्यागात्
त्यजत्यार्यस्तान्यानार्यस्तु मृत्युतः’ ( अभि० को० ६.२२ ) इति । पूर्वको मार्ग
इति । प्रयोगानन्तर्यविमुक्तिमार्गस्वभावः प्रतिपन्नकमार्गः । फलं फलविशिष्टो

६४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
असंवरः संवरप्राप्तिमृत्युद्विव्यञ्जनोदयैः ।
त्रिभिः कारणैरसंवरच्छेदः—१. संवरप्राप्तितः । यदि संवरं समादत्ते
ध्यानसंवरं वा लभते, हेतुप्रत्ययबलेन समाधिलाभात्; तेनासंवरश्छिद्यते,
प्रतिद्वन्द्वबलीयस्त्वात् । २. मरणेनाश्रयत्यागात् । ३. द्विव्यञ्जनोत्पादेनाश्रयवि-
कोपनादिति ।
शस्त्रजालत्यागेऽप्यकरणाशयतः । संवरमन्तरेणासंवरच्छेदो नास्ति, निदान-
परिवर्जनेऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् ।
य आसंवरिक उपवासं गृह्णाति, किमसौ तस्मात् संवरात् पुनरसंवरं
गच्छति ? आहोस्विन्नैवसंवरं नासंवरम् !
असंवरमित्येके; त्यागाशयस्यानात्यन्तिकत्वात् ।
प्रदीप्त इवायःपिण्डः पुनः श्यामतां चाप्रयुज्यमानो गच्छतीत्यपरे; तल्लाभस्य
विज्ञप्त्यधीनत्वात् ।
अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते !
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४१ ॥
वेति । उत्तरो मार्गोऽधिकृतः । तद् यथानागामो यद्यनागामिफलात् परिहीयते
तेनानागामिफलमुत्तरो मार्गस्त्यज्यते । यदि त्वनागामी द्वितीयं ध्यानं लभते
तस्माच्च परिहीयते, स तस्य फलविशिष्टो मार्गो द्वितीयभूमिकस्त्यज्यते ॥ ४० ॥
हेतुप्रत्ययबलेनेति । सभागहेतुबलेन, परतो घोषबलेन चेत्यर्थः । ध्यानसंवरं
वा लभत इति । अनास्रवसंवरं वा लभत इति नोच्यते; ध्यानास्रवपूर्वोत्पा-
देनैव तत्यागात् । अकरणाशयतः इति । एतत् कर्म न करिष्यामीत्याशयतोऽपि
शस्त्रजालत्यागे विना संवरग्रहणेनासंवरच्छेदो न भवति । तद्यथा—रोगनिदानपरि-
हारेऽपि तस्य प्रवृद्धस्य रोगस्यौषधेन विना विनिवृत्तिर्न भवति, तद्वत् । तदुक्तं
भवति—असंवरत्यागेच्छायां संवरो ग्रहीतव्यः, नान्यथेति ।
तल्लाभस्येति । असंवरलाभस्य ।
कथमविज्ञप्तिरिति । विज्ञप्तिरपीति वक्तव्यम् । स्वसमुत्थापिताया अतीताया
विज्ञप्तेस्तत्काल एव प्राप्तिच्छेदात् ।
“वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यम” इति च पठितव्यम् । नैवसंवर-
नासंवर इत्यर्थः । अथाप्यविज्ञप्तिरपि केवलोच्यते ? तन्न विज्ञप्तेरवचने कारणं
वक्तव्यमित्युच्यते; विज्ञप्तेरनावश्यकत्वात् । तथा हि वक्ष्यति—“अशुभाः षड-

निर्देशः ] चतुर्थं कोशस्थानम् ६४९
येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति, तस्य च्छेदात् सापि
च्छिद्यते । कुम्भकारचक्रेषुगतिवत् ।
आदानत्यागादपि च्छिद्यते । यदि समादानं त्यजति, अलं समादानेनेति ।
क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः ।
अर्थविच्छेदादपि विच्छिद्यते । कतमस्यार्थस्य ? चैत्यारामविहारशयनासन-
यन्त्रजालादिनो वस्तुनः ।
आयुषोऽपि, कुशलमूलानामपि च्छेदाद् विच्छिद्यते । यदा कुशलमूलानि
समुच्छेत्तुमारभत इति । एभिः षड्भि कारणैरविज्ञप्तिर्मध्यमा त्यज्यते ॥ ४१ ॥
कामाप्तं कुशलारूपं मूलच्छे दोर्ध्वजन्मतः ।
कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते—
१. कुशलमूलसमुच्छेदाद्, २. रूपारूप्यधातूपपत्तितो वा ।
प्रतिपक्षोदयात् क्लिष्टमरूपं तु विहीयते ॥ ४२ ॥
क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद् विहीयते । यस्योपक्लेश-
विज्ञप्तिद्विधैक" (अभि० को० ४.६८) इति । अविज्ञप्तिवचनेन च विज्ञप्ति-
वचनसिद्धेस्तदवचनम् ।
अन्ये त्वाहुः—न निरुद्धाया नैवसंवरनासंवरसंगृहीताया विज्ञप्तेरनुबन्धिनी
प्राप्तिरिति, अत एतदविज्ञप्तेरेव त्यागकारणमुच्यत इति ।
कुम्भकारचक्रेषुगतिवदिति । यथा कुम्भकारचक्रस्य इषोश्च गतिः । येन
कारणेन संस्कारविशेषेण आक्षिप्तो भवति, तस्य छेदात् सापि छिद्यते; तद्वत् ।
अलं समादानेनेति । प्रत्याख्यानवचनेन । यथा समात्तमकुर्वत इति । तद्
यथा बुद्धमवन्दित्वा मण्डलकमकृत्वा वा न भोक्ष्ये इति, तदकृत्वा भुञ्जानस्य
सा मध्यमा अविज्ञप्तिश्छिद्यते ।
यन्त्रजालादीति । आदिशब्देन शस्त्रविषादि गृह्यते ।
कुशलमूलानि समुच्छेत्तुमारभत इति । कुशलमूलसमुच्छेदप्रारम्भावस्थायामेव
छिद्यते, न समुच्छेदावस्थायामिति दर्शयति ॥ ४१ ॥
“कुशलारूपम्” इति । अरूपग्रहणं रूपच्छेदस्योक्तत्वात् । मूलच्छे दोर्ध्वजन्मत
इति । अत्र वैराग्यतश्च किञ्चिदिति वक्तव्यम् । यथा कुशलं दौर्मनस्येन्द्रियमिति ।
सर्वमेवेति । कामरूपारूप्यावचरम् । यः प्रहाणमार्ग इति । दर्शनमार्गः,
भावनामार्गश्च । लौकिको वा लोकोत्तरो वा यथासम्भवम् । असौ सपरिवार

६५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-
प्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते, नान्यथा ॥ ४२ ॥
अथ केषां सत्त्वानामसंवरो भवति ? केषां संवरः ?
नृणामसंवरो हित्वा षण्ढपण्डद्विधाकृतीन्¹।
कुरूंश्च,
मनुष्यगतावेवासंवरः, नान्यत्र। तत्रापि षण्ढपण्डकोभयव्यञ्जनानुत्तर-
कौरवांश्च हित्वा।
संवरोऽप्येवं देवानां च,
संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः।
षण्ढादीनां संवरो नास्तीति कथं गम्यते ? सूत्राद्, विनयाच्च।
सूत्र उक्तम्—"यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण
समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते—'उपासकं मा धारय', इयता
चोपासको भवति” ( ) इति।
विनयेऽपि तद्रूपो नाशयितव्य उक्तः।
किं पुनः कारणमेषां संवरो नास्ति ? उभयाश्रयक्लेशाधिमात्रतया प्रति-
संख्यानाक्षमत्वात्, तीव्रह्रीव्यपत्राप्याभावाच्च।
असंवरस्तर्हि कस्मान्नास्ति ? पापेऽप्यस्थिराशयत्वात्।
यत्रैव च संवरः, तत्रासंवरोऽपि; प्रतिद्वन्द्वभावात्।
इति। असावुपक्लेशप्रकारः स तत्सहभूप्राप्त्यनुचरः। उपक्लेशप्रकारस्येतिग्रहणं
कदेशस्याप्युपक्लेशशब्देन सर्वसंग्रहार्थम्। तथा हि शास्त्रे उक्तम्—"ये यावत्
क्लेशा उपक्लेशा अपि ते स्युः, उपक्लेशा न क्लेशाः” इति ॥ ४२ ॥
उभयाश्रय इति विस्तरः। स्त्रीपुरुषाश्रयस्य क्लेशस्याधिमात्रतया। प्रति-
संख्यानस्य तत्प्रतिपक्षभावनालक्षणस्याक्षमत्वात्। तीव्रस्य च हीव्यपत्राप्यस्या-
भावादेषां संवरो नास्तीति।
प्रतिद्वन्द्वभावादिति। यस्मात् संवरस्यासंवरः प्रतिद्वन्द्वभूतः, तस्मात् यत्रैव
संवरस्तत्रैवासंवर इति। तेषां षण्ढादीनामसंवराभावे द्वितीयं कारणम्।
१ षण्ढ०—का० ।

निर्देश: ] चतुर्थ कोशस्थानम् ६५१
उत्तरकौरवाणां समादानसमाध्यभावात्, पापक्रियाशायाभावाच्च संवरा-
संवराभावः ।
आपायिकानामपि तीव्रं ह्रीव्यत्राप्यं नास्ति; यद्योगाद् यद्विपादनाच्च
संवरासंवरौ स्याताम् ।
अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः षण्ढपण्डकोभयव्यञ्ज-
नोत्तरकौरवापायिकानाम्, यत्राश्रये संवरोऽपि न विरोहति, असंवरोऽपि, ऊषर
इव क्षेत्रे शस्यमप्यतिमात्रं कक्कवमपीति ।
यत्तर्हि सूत्र उक्तम्—"अण्डजो भिक्षवो नागोऽष्टम्यां पक्षस्य भावना-
दभ्युद्गम्याष्टाङ्गससमन्वागतमुपवासमुपवसति" ( ) इति !
सुचरितमात्रं तत् तेषाम्, न संवरः । तस्मादेव मनुष्याणामेव संवरः ।
तत्र पुनः—
नृणां त्रयः ॥ ४३ ॥
मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते ॥ ४३ ॥
कामरूपजदेवानां ध्यानजः,
ध्यानसंवरः कामरूपधातूत्पन्नानां देवानाम्; ऊर्ध्वं नास्ति ।
अनास्रवः पुनः ।
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यहूपिणाम् ॥ ४४ ॥
अनास्रवसंवरस्तु कामरूपधातूत्पन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्त्वोप-
पन्नान् वर्जयित्वा ।
आरूप्योपपन्नानामपि तेषां तु समन्वागतोऽस्ति, न सम्मुखीभावतः ॥४४॥
समादानसमाध्यभावादिति । समादानाभावात् प्रातिमोक्षसंवरो नास्ति,
समाध्यभावाच्च ध्यानानास्रवसंवरी न स्तः । तदभावस्तु मान्द्येन कुशलेष्व-
व्युत्पत्तेः । पापक्रियाशायाभावाच्चासंवरो नास्ति ।
यद्योगाद् यद्विपादनाच्चेति । येन ह्रीव्यपत्राप्येण योगाद्, यस्य ह्रीव्यपत्रा-
प्यस्य विपादनाच्च । यथाक्रमं संवरासंवरौ स्याताम् । तत्तीव्रं ह्रीव्यपत्राप्यमापा-
यिकानां नास्तीति । यद्यापायिकानां संवरासंवरौ न स्तः ।
यत्तर्हि सूत्र उक्तमिति विस्तरः । तत् कथम् ? प्रातिमोक्षसंवरो मनुष्याणा-
मेव न देवानाम्; असंवेगात् । ध्यानानास्रवसंवरौ तु हेतुकर्मधर्मभावनाद् यथा-
सम्भवम् ॥ ४३-४४ ॥
अभि० को० २ : १८

अतः परमिदानीं कर्मनिर्देशाधिकारात् सूत्रोद्दिष्टानां कर्मणां निर्देश
आरभ्यते—
त्रीणि कर्माणि—कुशलं कर्म, अकुशलम्, अव्याकृतं कर्मेति। तत्र—
क्षेमाक्षेमेतरत् कर्म कुशलाकुशलेतरत्।
इदं कुशलादीनां लक्षणम्। क्षेमं कर्म कुशलम्, यदिष्टविपाकं निर्वाणप्रापकं
च; दुःखपरित्राणात्।
तत्कालमत्यन्तं च अक्षेममकुशलम्, क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः।
ताभ्यामितरत् कर्म नैव क्षेमं नाक्षेमम्, यत्तत् कुशलाकुशलाभ्यामितरद्
वेदितव्यम्। अव्याकृतमित्यर्थः। पुनः—
पुण्यापुण्यमनिञ्ज्यं च सुखवेद्यादि च त्रयम् ॥ ४५ ॥
त्रीणि कर्माणि—पुण्यम्, अपुण्यम्, आनिञ्ज्यं च। पुनः त्रीणि—सुख-
वेदनीयं कर्म, दुःखवेदनीयम्, अदुःखासुखवेदनीयं च ॥ ४५ ॥
तत्र तावत्—
कामधातौ शुभं कर्म पुण्यमानिञ्ज्यमूर्ध्वजम्¹।
'शुभम्' इति वर्तते। रूपारूप्यावचरं कुशलं कर्म आनिञ्ज्यम्।
ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता—“यदत्र वितर्कितं
विचारितमिदमत्रार्या इञ्जितमित्याहुः” इत्येवमादि? समाधौ सापेक्षालतां तेषामधि-
कृत्यैवमुक्तम्। आनिञ्ज्यान्यपि तु तान्युक्तान्यानिञ्ज्यसूत्रे। आनिञ्ज्यप्रत्यय²-
गामिनीं प्रतिपदमारभ्य।


तत्कालमत्यन्तं चेति। यदिष्टविपाकं तत् तत्कालम्; दुःखपरित्राणात् क्षेमम्।
यन्निर्वाणप्रापकं तदत्यन्तं दुःखपरित्राणात् क्षेमम्। परिनिर्वृतस्य यन्नित्यकालं
दुःखं नास्ति ॥ ४५ ॥
ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता। यदत्र वितर्कितं विचारित-
मिदमत्रार्या इञ्जितमित्याहुरिति। आदिशब्देन द्वितीय उक्तं यदत्र प्रीतिरविगता,
इदमत्रार्या इञ्जितमित्याहुः। तृतीयेऽपि यदत्र सुखं सुखमिति चेतस आभोगः,
इदमत्रार्या इञ्जितमित्याहुरिति। अथ कस्मात् सर्वमेव रूपारूप्यावचरं कुशलं
कर्मानिञ्ज्यमुच्यते ? आनिञ्ज्यप्रत्ययगामिनीमिति। आनिञ्ज्यानुकूलभागिनम्


१. ०मानेअ०—का०। एवमुपर्यपि। २. आनिअसमप्रेय—का०।

निर्देशः ] चतुर्थं कोशस्थानम् ६५३
किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्ज्यमुक्तम् !
तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४६ ॥
कामावचरं हि कर्म विपाकं प्रति कम्पते । कथं कम्पते ? अव्यवस्थानात् ।
अन्यगतिकमपि ह्यन्यस्यां गतौ विपच्यते । अन्यदेवनिकायिकं चान्यदेवनिकाये ।
यदेव हि प्रमाणबलवर्णकर्मन्यभूमिकसुखभोगादि संवर्तनीयं कर्म देवेषु
विपच्यते, तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यक्प्रेतेषु विपच्यते ।
रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते ।
तस्माद् व्यवस्थितविपाकत्वाद् 'आनेञ्ज्यम्' इत्युच्यते । अपुण्यं तु कर्माकुशलमिति
प्रसिद्धं लोके । यश्च लोकतोऽर्थः प्रसिद्धः, किं तत्र यत्नेन ॥ ४६ ॥
कृतः पुण्यादीनां कर्मणां निर्देशः ॥
सुखवेदनीयादीनां कर्तव्यः । स एष क्रियते—
सुखवेद्यं शुभं ध्यानादातृतीयात्,
कुशलं कर्म सुखवेदनीयं यावत् तृतीयाद् ध्यानात् । एषा हि भूमिः
सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि ।
अतः परम् ।
अदुःखासुखवेद्यं तु,
अकम्प्यानुकूलभागिनं मार्गमारभ्येति अर्थः ।
किं पुनः कारणं समाधिसापक्षालतया सेञ्जितमेवान्यत्रानिञ्ज्यमुक्तम् ?
इत्याह—"तद्भूमिषु यतः कर्म विपाकं प्रति नेञ्जति" इति ।
भोगादि संवर्तनीयमिति । भोगः = द्रव्यसम्पत् । आदिशब्देन सौरूप्य-
सौस्वर्यादिर्गृह्यते । तदेवेति विस्तरः । यत्तद् देवेषु विपच्येत । तद्बहुली-
कृतमेवं शीलमयं भावनामयम् । तस्य चैवं भवति—'अहो बताहं देव-
सुभगानं मनुष्यसुभगानां वा सभागतायामुपपद्येय' इति । यावत् स तत्रोप-
पद्यत इति ॥ ४६ ॥
कामधातुस्त्रीणि च ध्यानानीति । कामधातुप्रथमध्यानयोः कायिकं सुखं
चेतसिकं च सौमनस्यं सुखा वेदना। द्वितीये ध्याने सौमनस्यं सुखा वेदना ।
तृतीये ध्याने चेतसिकं सुखमिति ।

६५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
'शुभम्' इति वर्तते । तृतीयध्यानात् परेण कुशलं कर्मादुःखासुखवेदनीयम् ;
सुखदुःखवेदनाभावात् ।
दुःखवेद्यमिहाशुभम् ॥ ४७ ॥
अकुशलं कर्म दुःखवेदनीयम् । इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् ।
न चैषां वेदनैव फलम् । किं तर्हि ? ससम्भारा ॥ ४७ ॥
अधोऽपि मध्यमस्त्येके,
अन्ये पुनराहुः—तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तम्, एतच्चतुर्थ-
ध्यानादधोऽप्यस्ति । किं कारणम् ?
ध्यानान्तरविपाकः ।
इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्, ध्यानान्तरे वा कस्यचित्
कर्मणः; तत्र सुखदुःखयोरभावात् ।
ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रियं विपाक इत्येके ।
नैव तस्य वेदना विपाक इ