सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 654, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 654

निर्देश: ] चतुर्थ कोशस्थानम् ६३५
पूगफलकोद्रवादयोऽपि मदयन्तीति सुरामैरेयग्रहणम् । प्रज्ञप्तिसावद्यस्याप्यादरेण
प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम्; सर्वप्रमादास्पदत्वादिति ॥ ३४ ॥
य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः, किमेषां यत एको लभ्यते ततः
शेषौ ? नेत्याह । किं तर्हि ?
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।
वर्तमानेभ्य एव स्कन्धायतनधातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः ।
सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः । उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः, प्रकृति-
प्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते; सत्त्वाधिष्ठान-
प्रवृत्तत्वात् । नातीतानागतेभ्यः; तेषामसत्त्वसंख्यातत्वात् ।
इत्यभिप्रायः । पूगफलकोद्रवादयोऽपीति । आदिशब्देन निष्पावादयो गृह्यन्ते ।
मद्यपानेनामद्यत्वेऽपि दोषः । सुरामैरेये न भवत इति सुरामैरेयस्वभावस्य
मद्यस्य पाने दोष इत्यर्थः । सर्वप्रमादास्पदत्वादिति । सर्वप्रमादानां सर्वस्मृतिप्रमो-
षाणां प्राणातिपाताद्यकुशलानां हेतुभूतानां स्थानमास्पदं प्रतिष्ठेति प्रमादस्थानं
मद्यपानम् ॥ ३४ ॥
यत एको लभ्यते इति । यतो मौलादिभ्यः सत्त्वासत्त्वाख्येभ्यश्च प्रातिमोक्ष-
संवरो लभ्यते । ततः शेषौ ध्यानानास्रवसंवरौ ।
मौलप्रयोगपृष्ठेभ्य इति । मौलप्रयोगपृष्ठेभ्योऽकुशलेभ्यः कर्मभ्यः मौल-
प्रयोगपृष्ठस्वभावाख्याणां यथाक्रमं प्रतिपक्षभूताः प्रातिमोक्षसंवराख्या
विज्ञप्त्यविज्ञप्तयो लभ्यन्ते । सत्त्वासत्त्वाख्येभ्यो वस्तुभ्यः प्राणिवनस्पत्याद्यधि-
ष्ठानलक्षणेभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च कर्मभ्यः प्राणातिपातवनस्पति-
भङ्गादिलक्षणेभ्यः । तदेतदुभयमप्युभयाधिष्ठानम्, भवति—प्रकृतिसावद्यमपि
सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं च, प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानमसत्त्वाधिष्ठानं
च । न पुनरेवं ग्रहीतव्यम्—प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्रतिक्षेपणसावद्यम-
सत्त्वाधिष्ठानमिति । तत्र तावत् प्रकृतिसावद्यं सत्त्वाधिष्ठानं प्राणिवधादि,
प्रज्ञप्तिसावद्यमपि सत्त्वाधिष्ठानं भिक्षोः स्त्रीहस्तादिग्रहणं सहागारशय्यादि
च । प्रकृतिसावद्यमसत्त्वाधिष्ठानं जातरूपाद्यवहरणम्, प्रज्ञप्तिसावद्यम-
सत्त्वाधिष्ठानं वृक्षपत्रादिच्छेदो भिक्षो आहारादिषु च विनयोक्तः उपदेशः ।
सत्त्वाधिष्ठानप्रवृत्तत्वादिति । सत्त्वप्रज्ञप्त्यधिष्ठानप्रवृत्तत्वादित्यभिप्रायः । वर्तमाना
एव हि धर्माः सत्त्वप्रज्ञप्त्यधिष्ठाना नातीतानागताः, तेषां निरूपाख्यकल्पत्वात् ।
अतएवाह—नातीतानागतेभ्यः; तेषामसत्त्वसंख्यातत्वादिति । ननु चासत्त्वप्रज्ञप्त्य-
अभि० को० २ : १७