अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 655, कुल 1258 में से
संदर्भ में पढ़ें६३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ ॥ ३५ ॥
मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते, न प्रयोगपृष्ठेभ्यः;
कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीता-
नागतेभ्योऽपि !
अत एव चतुष्कोटिकं क्रियते—सन्ति तानि स्कन्धधात्वायतनानि येभ्यः
प्रातिमोक्षसंवरः एव लभ्यते, न ध्यानानास्रवसंवराविति विस्तारः । प्रथमा
कोटिः—प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणासवद्याच्च । द्वितीया—
अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः । तृतीया—प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्म-
पथेभ्यः । चतुर्थी—अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति ।
धिष्ठानप्रवृत्तोऽपि प्रातिमोक्षसंवरो भवति; सत्त्वासत्त्वाख्येभ्यः प्राप्यत इति
वचनात् ? स चाप्येवं न प्रतिषिध्यते, यथैव हि सत्त्वाख्येभ्यो वर्तमानेभ्य एव
लभ्यते इत्युच्यते, तथा वर्तमानेभ्य एवासत्त्वाख्येभ्योऽपि लभ्यते इति वक्तव्यम् ।
वर्तमानाधिष्ठानतामेव ह्यनेन वचनेनातिदिशति ।
न प्रयोगपृष्ठेभ्यः इति । समाहितावस्थायामेकान्तमौलत्वात्, असमाहिता-
वस्थायां च न संवराभावात् । कुत एव प्रज्ञप्तिसावद्येभ्य इति । अभ्युपगमा-
भावात् । सर्वकालेभ्यश्चेति । अतीतानागतयोरपि संवरयोर्लाभात्तत्सहभूचित्तवत् :
अत एवेति । यस्मादेते संवरा एवं लभ्यन्ते । यथा विस्तरेणोक्तम्, अतश्च-
तुष्कोटिकं क्रियते । विस्तर इति । सन्ति तानि स्कन्धधात्वायतनानि येभ्यो
ध्यानानास्रवसंवरौ लभ्येते, न प्रातिमोक्षसंवरः; सन्ति तानि येभ्यः प्राति-
मोक्षसंवरः, न ध्यानानास्रवसंवरौ;, सन्ति तानि येभ्य उभयं लभ्यते; सन्ति
तानि येभ्यो नोभयं लभ्यते इति विस्तरार्थः । प्रथमा कोटिः—वर्तमानेभ्यः
प्राणातिपातादिकर्मपथप्रयोगपृष्ठेभ्यः प्रतिक्षेपणासवद्याच्च वृक्षभङ्गादिकाद् यः
संवरः स प्रतिमोक्षसंवरः; “सर्वोभयेभ्यः” इति वचनात् । प्रयोगपृष्ठत्वात्तु न
ध्यानानास्रवसंवरौ । द्वितीया—अतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः प्राणा-
तिपातादिभ्यः कायिकवाचिकेभ्यः सप्तभ्यः संवरः यः, तौ ध्यानानास्रव-
संवरौ; “मौलेभ्यः सर्वकालेभ्यः” इति वचनात् । न प्रातिमोक्षसंवरः अतीता-
नागतत्वात् । तृतीया—प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्य इति । प्रत्युत्पन्नकर्म-
पथत्वात् प्रातिमोक्षसंवरो भवति । मौलकपंथत्वाच्च ध्यानानास्रवसंवरौ ।
चतुर्थी—अतीतानागतेभ्यः सामन्तकपृष्ठेभ्य इति । अतीतानागतत्वान्न प्राति-
मोक्षसंवरः, सामन्तकपृष्ठत्वान्न ध्यानानास्रवसंवरौ ।