अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 659, कुल 1258 में से
संदर्भ में पढ़ेंएवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रातिमोक्षसंवरस्यालाभात्
कथं शीलन्यूनता न प्रसज्येत ? सर्वेषां सत्त्वेभ्यो लाभात् । यदि हि तेऽप्य-
भविष्यन्, तेभ्योऽपि तेऽलप्स्यन्त ।
उक्तं यतः संवरो लभ्यते ॥
असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ३६ ॥
असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते, सर्वकर्मपथेभ्यश्च । नास्ति हि विकलेना-
संवरेणासंवरिकः । न तु सर्वकारणैः, युगपत् मृद्वादिविचित्त्यासम्भवात् । यो मृदुना
चित्तेनासंवरं प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद् व्यपरोपयन्
मृदुनैवासंवरेण समन्वागतो भवति, अधिमात्रया तु प्राणातिपातविज्ञप्त्या ।
एवं मध्याधिमात्रेण योज्यम् ।
तत्रेमे आसंवरिकाः, तद्यथा—औरभ्रिकाः, कौक्कुटिकाः, सौकरिकाः,
शाकुनिकाः, मात्स्यिकाः, मृगलुब्धकाः, चौराः, वध्यघातकाः, बन्धनपालकाः,
एव हेतुः साधुरिति । सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमादिति । अतः
शक्याशक्येभ्यः संवरो लभ्यत इति सिद्धम् ।
एवं तर्हि यदि सर्वसत्त्वेभ्यो लभ्यते प्रतिमोक्षसंवरः। पूर्वबुद्धपरिनिर्वृतेभ्य-
स्तस्यालाभाच्छीलन्यूनता स्यात् । सत्त्वानां पूर्वेभ्यो न्यूनत्वाद् । आचार्य
आह—सर्वेषां बुद्धानां पूर्वं पश्चाच्चोत्पन्नानामविशेषेण सर्वसत्त्वेभ्यो लाभाद् ।
यदि हि तेऽपि अपरिनिर्वृता अभविष्यन् सम्प्रति तेभ्योऽपि तेऽलप्स्यन्त इति ।
सर्वकर्मपथेभ्य इति । कायिकवाचिकेभ्यः । नास्ति हि विकलेनासंवरेणेति ।
प्राणातिपातेनैव, नादत्तादानेनेत्येवमादि । मृदुनैवासंवरेण समन्वागत इति ।
पूर्वप्रतिलब्धत्वात् । अधिमात्रया तु प्राणातिपातविज्ञप्त्या । किम् ? समन्वागत
इति वर्तते । न विपाकफलविशेष इति । एवं मध्याधिमात्रेण च योज्यमिति । यो
मध्येन चित्तेनासंवरं प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनो जीविताद्
व्यपरोपयन् मध्येनैवासंवरेण समन्वागतो भवति, अधिमात्रया तु प्राणातिपात-
विज्ञप्त्या । एवं योऽधिमात्रेण यावदधिमात्रेणैवासंवरेण समन्वागतो भवति,
अधिमात्रया च प्राणातिपातविज्ञप्त्या । इत्थमपि च योज्यम्—योऽधिमात्र-
चित्तेनासंवरं प्रतिलभते स मृदुनापि चित्तेन प्राणिनो जीविताद् व्यपरोपयन्
अधिमात्रेणैवासंवरेण समन्वागतो भवति, मृद्व्या तु प्राणपतिपातविज्ञप्त्या
इत्येवमादि ।