अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
५२४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
किं पुनः स्वभूताश्रित एष पुष्पगन्धसन्तानो वर्तते, उताहो वायुरधिवासितो
जायते ? नात्र नियमः । उभयथापि ह्याचार्येष्टिः ।
यत्तर्हि भगवतोक्तम्—
“न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरचान्दनो वा ।
सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाति” ॥ ( ) इति ?
मानुष्यकं पुष्पगन्धं सन्धायोक्तम् । तद्धि प्रतीतं लोके । न च तस्य
तादृशी शक्तिः ।
महीशासकास्तु^१ पठन्ति— “योजनशतमनुवातं गन्धो वाति पञ्चाशद्
योजनानि प्रतिवातम्” ( ) इति ।
सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे, यस्यां निषद्य देवाः
कृत्याकृत्यं समर्थयन्ते^२ ॥ ६८ ॥
एष तावत् त्रिदशानां भाजनसन्निवेशः ॥
तत ऊर्ध्वं विमानेषु देवाः,
त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः । ते पुनर्यामाः, तुषिताः,
निर्माणरतयः, परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थाना-
न्तरगताः । इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते ।
कामभुजस्तु षट् ।
तेषां तु षट् कामावचरा देवनिकायाः कामान् परिभुञ्जते, न शेषाः ।
तद्यथा—चातुर्महाराजकायिका यावत् परनिर्मितवशवर्तिनः । ते पुनः—
उताहो वायुरधिवासितो जायत इति । यथा तिलेषु पुष्पगन्धाद् गन्धान्तर-
मुत्पद्यतेऽन्यदेव, न स पौष्पो गन्ध इत्याह—यदि पञ्चाशद् योजनं प्रतिवातं
गन्धो वाति ।
यत्तर्हि भगवतोक्तं न पुष्पगन्धः प्रतिवातमेतीति विस्तरः । मौलिको गन्धो
मुस्तादिः ।
कृत्याकृत्यं समर्थयन्त इति । कार्याकार्यं सम्प्रतीच्छन्ति सम्प्रधारयन्ती-
त्यर्थः ॥ ६८ ॥
समासेन येषां भाजनं प्रज्ञायत इति । भाजनम्=स्थानम् । विस्तरेणान्येऽपि
देवाः क्रीडाप्रमोषकप्रहासकादयः सन्तीति । अतः समासेनोक्तम् ।
१. महीसासकास्त—का० । २. समर्थयन्ति—का० ।
द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः ॥ ६९ ॥
द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम्—चातुर्महाराजकायिकानां त्राय-
स्त्रिशानाम्, यथा मनुष्याणाम्। तेषां तु वायुनिर्मोक्षाद् दाहविगमः; शुक्राभावात् ।
आलिङ्गनेन मैथुनं यामानाम्; आलिङ्गनमात्रेण दाहविगमात् । पाणिसम्प्राप्त्या
तुषितानाम्, हसितेन निर्माणरतीनाम्, प्रेक्षितेन परनिर्मितवशवर्तिनाम् । स्व-
वर्तिनां सर्वेषां द्वन्द्वसमापत्त्या ।
कालपरिमाणं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः । यावद्यावद् विषयाणां
तीव्रतरता, तावत्तावद् रागोऽपि तीव्रतरः ।
यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते, स तयो
पुत्रो भवति सा च दुहिता ॥ ६९ ॥
कियत्प्रमाणो जायते ?
पञ्चवर्षोपमो यावद् दशवर्षोपमः शिशुः ।
सम्भवत्येषु
यथासंख्यं षट्सु देवनिकायेषु । ते तु क्षिप्रमेवाभिवर्धन्ते ।
सम्पूर्णाः सवस्त्राश्चैव रूपिणः ॥ ७० ॥
रूपावचरा देवाः सम्पूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते । सर्वे देवा
आर्यभाषाभाषिणः ॥ ७० ॥
तदत्र कामधातौ वेदितव्याः—
कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः ।
द्वन्द्वेन यावदीक्षितेन मैथुनमेषामिति "द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षित-
मैथुनाः ।”
सर्वेषां समापत्त्येति । षण्णामपि कामभुजां द्वन्द्वसमापत्त्या परिदाहविगमः ।
कालपरिमाणं तु प्रज्ञप्तावुक्तमिति । यावता कालेन द्वन्द्वालिङ्गनपाण्याप्ति-
हसितेक्षितानि भवन्ति, तावता कालेन एषां भूमिसम्बन्धवासिनां याम-तुषित-
निर्माणरति-परनिर्मितवशवर्तिनां यथाक्रमं द्वन्द्वसमापत्तिरिति वैभाषिकाः ।
यावद्यावदिति विस्तरः । यावद्यावत् परेण परतरेण विषयाणां तीव्रतरत्वात्
रागोऽपि तीव्रतरः, तावत्तावन्मैथुनकर इत्यभिप्रायः ॥ ६९-७० ॥
५२६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
कथं कृत्वा ? सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं
वशे वर्तयन्ति । तद्यथा—मनुष्याः, तदेकत्याश्च देवाः । ते पुनश्चत्वारो देव-
निकायाः ।
सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्यं वशे वर्तयन्ति । तद्यथा—
देवा निर्माणरतयः ।
सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्यं वशे वर्त्तयन्ति ।
तद्यथा—देवाः परनिर्मितवशवर्तिनः ।
ता एता यथोत्पन्नपरिभोगित्वात्, यथेच्छात्मनिर्मितपरिभोगित्वाद्, यथे-
च्छात्मपरनिर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते ॥
रूपधातौ तु—
सुखोपपत्तयस्तिस्रो नवत्रिध्यानभूमयः ॥ ७१ ॥
त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः । ते हि देवा
विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो
दीर्घमध्वानं तिष्ठन्ति । अत एता निर्दुःखदीर्घसुखत्वात् सुखा उपपत्तयः सुखोप-
पत्तयः । ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात् सुखोपपत्तित्वं विचार्यम् ॥ ७१ ॥
ते पुनश्चत्वारो देवनिकाया इति । चातुर्महाराजकायिका यावत् तुषिताः ।
यथोत्पन्नप्रतिभोगः, स एषामस्तीति यथोत्पन्नपरिभोगिनः, तद्भावस्तस्मात् ।
यथेच्छात्मनिर्मितम्, तस्य परिभोगः पूर्ववत् । यथेच्छात्मपरनिर्मितपरिभोगित्वा-
दिति । आत्मना परेण च निर्मिते यथेच्छात्मपरनिर्मिते, तयोः परिभोगः पूर्व-
वत् । यथेच्छपरनिर्मितपरिभोगित्वादिति केचित् पठन्ति । तत्र तावदेवं विग्रहः—
परनिर्मितं यथेच्छं परनिर्मितं तस्य परिभोग इति पूर्ववत् । निर्माणरतीनां
परनिर्मितान् कामान् परिभोक्तुं न समृद्ध्यति । तदेवं परनिर्मितवशवर्त्तिनां
निर्माणरतिभ्यो निश्शेषः प्रदर्शितो भवति । बाह्यरूपपादिविषयनिर्माणं चात्र
वेदितव्यम् ।
विवेकजेन प्रथमध्यानभूमिकेनाकुशलविविक्तत्वात् । समाधिजेन च द्वितीय-
ध्यानभूमिकेन वितर्कविचारविगमात् । प्रीतिसुखेनेति । प्रीतिलक्षणेन सुखेन ।
निष्प्रीतिकेन च सुखेन सौमनस्यविगमात् । सुखं विहरन्त इति । सुखमिति
क्रियाविशेषणम् । सुखोपपत्तित्वं विचार्यमिति । सुखाभावान्न ध्यानान्तरं सुखोप-
निर्देशः ] तृतीयं कोशस्थानम् ५२७
यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि, तेषामधरादुत्तरं कियद्
विप्रकृष्टम् ? नैतत् सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् । अपि तु—
स्थानात् स्थानादधो यावत् तावदूर्ध्वं ततस्ततः ।
जम्बूद्वीपात् प्रभृति यदुत्तरं स्थानं तस्माद् यावदधो जम्बूद्वीपस्तावत्
पुनस्तस्मादूर्ध्वं स्थानान्तरम् । तद्यथा—चतुर्थी परिषण्डा चतुर्णां महाराजानां
मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि, तस्माद् यावदधो जम्बूद्वीपस्तावदूर्ध्वं
त्रिदशानां स्थानम् । तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् ।
ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति । एवं विस्तरेण
सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वमकनिष्ठानां स्थानम् ।
तस्मादूर्ध्वं न पुनः स्थानमस्ति । अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते ।
अघ-निष्ठा इत्यपरे । अघं किल चित्तस्थं रूपम्, तन्मात्रनिष्ठेति ॥
किं पुनरधरस्थानोपपन्ना ऊर्ध्वानि विमानानि गत्वा पश्यन्ति ?
नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ७२ ॥
ऋद्ध्या वा त्रायस्त्रिंशा यामान् गच्छेयुः । पराश्रयेण वा यदृद्धिमता
नीयेरन्, देवेन वा तत्रत्येन । एवं शेषाः ।
आगतं तूर्ध्वोपपन्नं पश्येत्, न तूर्ध्वधातुकम्, नोर्ध्वभूमिकम् । यथा
स्प्रष्टव्यं न स्पृशेदविषयत्वात् । अत एव ते नास्वेन कायेनागच्छन्ति, किं तर्हि ?
निर्मितेनाधरभूमिकेन ।
तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः ॥
पत्तिरिति शक्यं वक्तुम् । कुशलविपाकत्वेन सुखकल्पत्वात् सुखोपपत्तिरिति
न शक्यं व्यवस्थापयितुम्, चतुर्थेऽपि ध्याने सुखोपपत्तिप्रसङ्ग इति चेत् ? न;
तस्यां भूमौ सुखाभावात् । तस्माद्विचार्यं सम्प्रधार्यमेतदिति भावः ॥ ७१ ॥
एवं शेषा इति । ऋद्ध्या वा यामास्तुषितां गच्छेयुः, यदि ऋद्धिमता
नीयेरन्, देवेन वा तत्रत्येन । समानभूमिकास्तु चातुर्महाराजकायिकास्त्रायस्त्रिंशां
गच्छन्ति । आगतं तूर्ध्वोपपन्नं पश्येदिति । समानभूमिकम्, नोर्ध्वभूमिकमिति ।
प्रथमध्यानोपपन्नो न द्वितीयध्यानोपपन्नमित्यादि ।
तदिच्छयेति । ऊर्ध्वोपपन्नेच्छया । इहत्यमिवेति । इह भवः इहत्यः ।
अधोभूमिक इत्यर्थः । इहत्यमिव पश्येदिति निकायान्तरीयाः । यथा स्प्रष्टव्य-
मिति । उदाहरणमात्रमेतत् । यथाशब्द इत्येतदपि गम्येत ।
५२८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
अथैषां यामादिविमानानां कियत् प्रमाणम् ?
चतुर्णां तावद् यावत्सुमेरुमूर्ध्नः इत्येके। द्विगुणोत्तरमित्यपरे।
प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः, द्वितीयं यावान् साहस्रश्चूडिको
लोकधातुः, तृतीयं यावान् द्विसाहस्रः, चतुर्थं यावांस्त्रिसाहस्र इत्येके।
प्रथमादीनि साहस्रादिपरिमाणानि, चतुर्थं त्वपरिमाणमित्यपरे ॥ ७२ ॥
अथ कोऽयं साहस्रचूडिको लोकधातुः, को द्विसाहस्रः, त्रिसाहस्रो वा ?
चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् ।
ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ७३ ॥
सहस्रं जम्बूद्वीपानां पूर्वविदेहानाम् अपरगोदानीयानामुत्तरकुरुणाम्, सहस्रं
सूर्याणां चन्द्राणां सुमेरूणाम्, सहस्रं चातुर्महाराजकायिकानां देवानां यावत्
परनिर्मितवशवर्तिनाम्, सहस्रं ब्रह्मलोकानाम्—अयमुच्यते साहस्रश्चूडिको
लोकधातुः।
तत् सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः ।
तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः।
तत् सहस्रं त्रिसाहस्रः,
तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः ।
एष हि कृत्स्नः—
समसंवर्तसम्भवः ॥ ७४ ॥
समं संवर्तते, समं विवर्तते। सम्भवो हि विवर्त इत्युत्तरत्र व्याख्यास्यामः
चतुर्णां कामावचराणां यामादिस्थानानाम्। द्विगुणोत्तरमिति। यामस्थानं
द्विगुणं तुषितस्थानमित्यादि । चतुर्थं त्वपरिमाणमिति। तारकावदतलवाटव-
प्रतिबद्धविमानत्वादपरिमाणत्वसम्भव इत्यभिप्रायः ॥ ७२ ॥
सहस्रं ब्रह्मलोकानामिति । ब्रह्मकायिक-ब्रह्मपुरोहित-महाब्रह्मणामित्यर्थः ।
लोके तथा प्रतीतत्वात् ।
“चूडिकः” इति । महतो लोकधातोश्चूडाभूतत्वाच्चूडिक इत्युच्यते ।
सम्भवो हि विवर्त्त इति। विविधवर्त्तनं विवर्त्तः। विविधा वर्तन्तेऽस्मिन्निति
१. व्याख्यास्यते—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ५२९
किं खलु यथा भाजनानां प्रमाणभेदः, एवं तद्वासिनामपि सत्त्वानां
प्रमाणभेदोऽस्ति ? अस्तीत्याह । तत्र तावत्—
जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः ।
जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः । केचित्तु चतुर्हस्तकाः ।
द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः ॥ ७५ ॥
पूर्वविदेहकाः, गोदानीयाः, १ औत्तरकौरवाश्च २ मनुष्या अष्ट-षोडश-द्वात्रिंश-
द्धस्तप्रमाणका ३ यथाक्रमम् ॥ ७५ ॥
पादवृद्ध्या तनुर्यावत् सार्धक्रोशो दिवौकसाम् ।
कामिनाम्,
पादः = कोशस्य चतुर्थो भागः । तन्मात्रं शरीरं चातुर्महाराजकायिकानाम्,
द्वौ पादौ त्रायस्त्रिंशानाम्, त्रयो यामानाम्, चत्वारस्तुषितानाम्, पञ्च निर्माणरती-
नाम्, अध्यर्धः कोशः परिनिर्मितवशवर्तिनाम् ।
रूपिणां त्वादौ योजनार्धम्,
रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् ।
विवर्तः । संवर्तनं „वर्तः । संवर्तन्ते वास्मिन्निति संवर्त्तः । तस्मिन् हि काले
सत्त्वा एकस्मिन् ध्याने द्वितीये तृतीये चतुर्थे वा संवर्तन्ते, सङ्गच्छन्त इति ।
“विवर्तते च संवृत्त आस्ते संवर्तते समम्” ( अभि० को० ३.९३ ) इति
उत्तरत्र व्याख्यास्यामः ॥ ७३-७४ ॥
“जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः” इति । सार्धत्रिहस्तप्रमाण-
शरीराः । केचित्तु चतुर्हस्तप्रमाणशरीराः ।
“पूर्वगोदोत्तराह्वयाः” इति । पूर्वगोदः, उत्तर इति चाह्वय एषां ते पूर्वगोदो-
त्तराह्वयाः, तेषां यथासंख्यमष्टहस्तप्रमाणाः पूर्वविदेहकाः, षोडशहस्तप्रमाणा
गोदानीयाः, द्वात्रिंशद्धस्तप्रमाणका औत्तरकौरवा इति ॥ ७५ ॥
“पादवृद्ध्या” इति विस्तरः । “यावत् सार्धक्रोशः” इति । वक्ष्यमाणत्वात्
पाद इति कोशस्येति गम्यते । कोशचतुर्थभागमात्रं च शरीरं चातुर्महाराजकायिका-
नाम्, द्विपादमात्रं त्रायस्त्रिंशानाम्, यावदध्यर्धं कोशमात्रं परिनिर्मितवशवर्तिनाम् ।
१. गोदानीकाः—का० । २. उत्तर०—का० ।
३. ०द्धस्तकाः—का० ।
५३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
ततः परम् ॥ ७६ ॥
अर्धार्धवृद्धिः,
त्रिषु स्थानेषु ब्रह्मपुरोहितानां योजनम्, महाब्रह्मणोऽध्यर्धम्, परीत्ताभानां
द्वे योजने ।
ऊर्ध्वं तु परीत्ताभेभ्य आश्रयः ।
द्विगुणद्विगुणा हित्वाऽनभ्रकेभ्यस्त्रियोजनम् ॥ ७७ ॥
अप्रमाणाभानां चत्वारि योजनानि । आभास्वराणामष्टौ । एवं द्विगुण-
वृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः । अनभ्रकाणां ततो योजनत्रयेण हीनं
द्विगुणं पञ्चविंशतियोजनशतम् । तस्मात् परेण पुनः पुण्यप्रसवानां द्विगुणं
द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् ॥ ७६-७७ ॥
एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः ? अस्तीत्याह ।
सहस्रमायुः कुरुषु,
वर्षाणाम् ।
द्वयोरर्धार्धवर्जितम् ।
द्वयोर्द्दीपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् । अर्धतृतीये
वर्षशते पूर्वविदेहानाम् ।
इहानियतम्,
जम्बूद्वीपे नास्त्यायुषो नियमः । कदाचित् भूयो भवति, कदाचिदल्पीयः ।
अन्ते तु दशाब्दाः,
अब्दः = संवत्सरः । अन्ते हीयमानं दश वर्षाण्यायुर्भवति ।
आदितोऽमितम् ॥ ७८ ॥
आदितः प्राथमकल्पिकानां मनुष्याणामपरिमागमायुर्भवति । सहस्रादि-
योजनत्रयेण हीनं द्विगुणमिति । द्विगुणं कृत्वा त्रीणि योजनान्यपनेयानि ।
पञ्चविंशयोजनशतमनभ्रकाणां शरीरप्रमाणमिति । पुण्यप्रसवानामिति । पुण्यप्रसवा-
नामर्धतृतीये योजनशते शरीरप्रमाणम्, बृहत्फलाना पञ्चयोजनशतानीति गण-
यितव्यम् ॥ ७६-७७ ॥
निर्देशः ] तृतीयं कोशस्थानम् ५३१
संख्यया परिमातुं न शक्यते ।
उक्तं मनुष्याणाम् ॥
देवानां वक्तव्यम् । तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव
चैषां व्यवस्थाप्यते—
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् ।
कामेऽधराणाम्,
यानि मनुष्याणां पञ्चाशद् वर्षाणि, तानि कामधातावधराणां देवानां
चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् ।
तेनायुः पञ्चवर्षशतानि तु ॥ ७९ ॥
तेन ततस्त्येनाहोरात्रेण १ तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन
संवत्सरेण दिव्यानि पञ्चवर्षशतानि आयुःप्रमाणम् ।
द्विगुणोत्तरमूर्द्धानामुभयम्,
ऊर्ध्वानां देवानामुभयं द्विगुणोत्तरमहोरात्रश्चायुश्च । कथं कृत्वा ?
यन्मनुष्याणां वर्षशतं तत् त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम्, तेन रात्रिन्दिनेन
दिव्यं वर्षसहस्रमायुः । एवं यामादीनां यथाक्रमम् । मानुष्यकाणि द्वे चत्वार्यष्टौ
षोडश वर्षशतान्येकं रात्रिन्दिवम्, तेन रात्रिन्दिनेन द्वे चत्वार्यष्टौ षोडश
दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् ।
युगन्धरादूर्ध्वं सूर्याचन्द्रमसोर्भावात् कथं देवानामहोरात्रव्यवस्थानम्,
आलोककृत्यं वा ?
पुष्पाणां सङ्कोचविकासात् कुमुदपद्मवत् २, शकुनीनां च ३ कूजनाकूजनात्,
“कुमुदपद्मवदिति” । यथेह कुमुदान्यहनि सङ्कुचन्ति रात्रौ विकसन्ति,
पद्मानि तु विपर्ययेण; तथा तत्र केषाञ्चिदेव पुष्पाणां सङ्कोचादहनि च
विकासादहोरात्रव्यवस्थानम् । शकुनीनाञ्च कूजनाकूजनात् । अकूजनाद् रात्रिः,
१. ततस्तेना०—का० । २. कुमुदबन्धुवत्—का० ।
३. का० पुस्तके नास्ति ।
५३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
मिद्धापगमोपगमाच्च¹ आलोककृत्यम्; स्वयम्प्रभत्वात् ।
उक्तमायुः कामिनाम् ॥
रूपिणां पुनः ।
नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसम्मितैः ॥ ८० ॥
येषां रूपिणामर्धयोजनमाश्रयः, तेषामर्धकल्पमायुः । येषां योजनम्, तेषां
कल्पम् । एवं यस्य यावद्योजनमाश्रयः, तस्य तावत्कल्पमायुः; यावदकनिष्ठानां
षोडशकल्पसहस्राण्यायुःप्रमाणम् ॥ ८० ॥
आरूप्ये विंशतिः कल्पसहस्राण्यधिकाधिकम् ।
आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् । विज्ञाना-
नन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि । आकिञ्चन्यायतने तस्मादधिकं
विंशतिः । भवाग्रे तस्मादधिकं विंशतिः । एवं तेषां यथाक्रमं चत्वारिंशत्²
षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् ॥
कतमोऽत्र कल्पो वेदितव्यः—किमन्तरकल्पः, अथ संवर्तकल्पः, अथ
विवर्तकल्पः, अथ महाकल्पः ?
महाकल्पः परीत्ताभात् प्रभृत्यर्धमधस्ततः ॥ ८१ ॥
परीत्ताभादेव निकायात् प्रभृति महाकल्पेनायुः वेदितव्यम् । तस्मादधो
महाकल्पस्यार्धं कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् ।
कूजनात् प्रभातम् । विपर्ययेण वा यथा शकुनिजात्³ मिद्धापगमोपगमाच्च ।
मिद्धोपगमाद् रात्रिः प्रज्ञायते, मिद्धापगमात् प्रभातमिति ॥ ७८-८० ॥
“अधिकाधिकम्” इति । विंशतिरधिकम् । अधिकं भवतीत्यर्थः । तेनाह—
एवं तेषां यथाक्रमं चत्वारिंशत् षष्टिरशीतिः कल्पसहस्राणि आयुःप्रमाणमिति ।
विज्ञानानन्त्यायतने चत्वारिंशत् । आकिञ्चन्यायतने षष्टिः । भवाग्रेऽशीतिः ।
तस्मादधो महाकल्पस्यार्धमिति विस्तरः । अशीतिरन्तरकल्पा महाकल्पः,
तस्यार्धं चत्वारिंशदन्तरकल्पाः । तस्य महाकल्पार्धस्य कल्पीकृतस्य यदर्धं
विंशतिरन्तरकल्पाः, तद् ब्रह्मकायिकानामायुःप्रमाणम् । यत्तदर्धकल्पीकृतं
चत्वारिंशदन्तरकल्पाः, तद्ब्रह्मपुरोहितानामायुःप्रमाणम्। तदेवमात्मीयार्धं महा-
ब्रह्मण आयुःप्रमाणम् । स ह्यर्धः कल्प इत्युच्यते षष्ट्यन्तरकल्पसंख्यः । महा-
१. मिद्धापगमागमाच्च—का० । २. विंशतिश्चत्वा०—का० ।
३. शकुनिज्योति—मु० पाठः ।
निर्देशः ] तृतीयं कोशस्थानम् ५३३
कथं कृत्वा ?
यच्च लोको विंशतिमन्तरकल्पान् विवर्तते, यच्च लोको विंशतिमन्तरकल्पान्
विवर्त आस्ते, यच्च विंशतिमन्तरकल्पान् संवर्तते—इमे षष्टिरन्तरकल्पा महा-
ब्रह्मणोऽध्यर्धः कल्प उक्तः । एवं च कृत्वा महाफलस्यार्धं चत्वारिंशदन्तर-
कल्पान् कल्पीकृत्य तेषामायुःप्रमाणमुक्तम् ॥ ८१ ॥
उक्तं सुगतावायुःप्रमाणम् ॥
दुर्गताविदानीं वक्तव्यम् । तत्र तावत्—
कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् ।
सञ्जीवादिषु षट्सु,
यावत् षण्णां कामावचराणां देवनिकायानामायुरुक्तम्, तेन तुल्या
अहोरात्राः षट्सु नरकेषु यथाक्रमं वेदितव्याः—सञ्जीवे, कालसूत्रे,
सङ्घाते, रौरवे, महारौरवे, तापने च ।
आयुस्तैस्तेषां कामदेववत् ॥ ८२ ॥
तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुः, तथैव
यथाक्रमं वेदितव्यम् ।
कथं कृत्वा ? यद्धि चातुर्महाराजकायिकानामायुःप्रमाणम्, तत् सञ्जीवने
महानरके एकं रात्रिन्दिवम् । तेन यावद् द्वादशमासकेन संवत्सरेण तत्रत्यानि
पञ्चवर्षशतान्यायुः ।
ब्रह्मादीनामिति । आदिशब्देन ब्रह्मपुरोहितानां ब्रह्मकायिकानां च प्रातिलोम्येन
ग्रहणम् ।
“अर्धमधस्ततः” । परीत्ताभात् देवनिकायादिति निर्देशापेक्षणात् तेषामायुः
प्रमाणमुक्तमिति । तेषां महाब्रह्मपुरोहितानां ब्रह्मकायिकानाम् ॥ ७८-८१ ॥
“कामदेवायुषा तुल्याः” इति विस्तरः । चातुर्महाराजकायिकानां यदायुः-
प्रमाणमुक्तम्, स सञ्जीवे अहोरात्रः । एवं यावद्यत् परनिर्मितवशवर्त्तिनामायुः-
प्रमाणमुक्तम्, स तापने अहोरात्रः ।
“कामदेववत्” इति । कामदेवानामिव कामदेववत् । “तत्र तस्येव”
( पा० सू० ५.१.११६ ) इति वतिः । तेन यावद् द्वादशमासकेनेति । तेन तत-
स्त्येनाहोरात्रेण तेषां त्रिंशद्रात्रेण मासेन द्वादशमासकेन संवत्सरेण तत्रत्यानि
५३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
यत् त्रायस्त्रिंशानामायुःप्रमाणम्, तत् कालसूत्रे महानरके एकं रात्रि-
न्दिवम् । तेन रात्रिन्दिवेन तस्मिन् वर्षसहस्राण्यायुःप्रमाणम् ।
एवमन्येष्वपि यथायोगं योज्यम्, यावत् परनिर्मितवशवर्तिनामायुःप्रमाणं
तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् ॥ ८२ ॥
अर्धं प्रतापने,
प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुःप्रमाणम् ।
अवीचावन्तःकल्पम्,
तिरश्चां तु नियमो नास्ति ।
परं पुनः ।
कल्पं तिरश्चाम्,
परमायुस्तिरश्चामन्तरकल्पम् । तत् पुनर्नगानां नन्दोपनन्दाश्वतली-
प्रभृतीनाम् । उक्तं हि भगवता—"अष्टाविमे भिक्षवो नागा महानागाः
कल्पस्था धरणीन्धराः” ( ) इति विस्तरः ।
प्रेतानां मासाह्ना शतपञ्चकम् ॥ ८३ ॥
यो मनुष्याणां मासः, स प्रेतानामहोरात्रः । तेनाहोरात्रेण पञ्च वर्ष-
शतान्यायुः ॥ ८३ ॥
शीतनरकेष्वायुषः किं प्रमाणम् ?
वाहाद् वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्बुदाद् विंशतिगुणप्रतिवृद्ध्यायुषः परे ॥ ८४ ॥
दिव्यानि पञ्च वर्षशतान्यायुरित्यादि ।
एवमन्येष्वपि यथायोगं योज्यमिति । यद् यामानामायुःप्रमाणम्, तत् सङ्घाते
महानरके एकं रात्रिन्दिवम् । तेन तस्मिन् रात्रिन्दिवेन वर्षसहस्रद्वयमायुः-
प्रमाणम् । एवमन्येष्वपि यथायोगं योज्यम् ॥ ८२ ॥
अष्टाविमे भिक्षव इति । 'अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था
धरणीन्धरा अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरमपि संग्राममनुभवन्त्यपि
प्रत्यनुभवन्त्यपि । ते पुनः कतमे ? तद्यथा—नन्दो नागराजः, उपनन्दो
नागराजः, अश्वतरी नागराजः, मुचिलिन्दो नागराजः, मनस्वी नागराजः,
निर्देशः ] तृतीयं कोशस्थानम् ५३५
उपमानमात्रेण तेष्वायुराख्यातं भगवता--“तद्यथा भिक्षव इह स्याद्
विंशतिखारिको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकायद्धः । ततः कश्चिदेव
वर्षशतस्यात्ययादेकं तिलमपनयते, क्षिप्रतरं भिक्षवः स विंशतिखारोको मागधक-
स्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् । न त्वेवाहमर्बुदोपपन्नानामा-
युषः पर्यन्तं वदामि। यथा खलु भिक्षवो विंशतिरर्बुदाः, एवमेको निरर्बुदः;
विस्तरेण यथा खलु भिक्षवो विंशतिः पद्मा एवमेको महापद्मः” इति ॥
एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूणायुषामन्तरा मृत्युः, आहोस्विन्न ?
सर्वत्रास्ति--
कुरुबाह्योऽन्तरामृत्युः,
उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति । अन्येषु
नावश्यम् । पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रिया । तुषितस्थस्यैकजाति-
प्रतिबद्धस्य' बोधिसत्त्वस्य, चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभूतस्य, श्रद्धा-
नुसारिधर्मानुसारिणोः, २ बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादीनाम् ॥
योजनप्रमाणेन स्थानानि शरीराणि चोक्तानि, वर्षप्रमाणेन नायुरुक्तम् ॥
तयोश्च प्रमाणं नोक्तमिति वक्तव्यम्, नाम्ना च सर्वेषां व्यवस्थानम्,
अतस्तस्यापि पर्यन्तो वक्तव्यः । तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते--
परमाण्वक्षरक्षणाः ।
धृतराष्ट्रो नागराजः, महाकारो नागराजः, एलपत्रो नागराजः” ( )
इति । चूडिकाबद्ध इति शिखाबद्धः ॥ ८३-८४ ॥
एकजातिप्रतिबद्धस्येति । एकजन्मप्रतिबद्धबुद्धत्वस्य । चरमभविकस्येति ।
अन्त्यजन्मनः । येन तस्मिन्नेव जन्मन्यर्हत्त्वं साक्षात् कर्त्तव्यम् । तस्य नास्त्य-
न्तरेण कालक्रिया यावदर्हत्त्वं न प्राप्नोति । श्रद्धानुसारिधर्मानुसारिणोः नास्त्य-
न्तरेण कालक्रिया यावच्छ्रद्धाधिमुक्तदृष्टि प्राप्तौ न भवतः । तद्गर्भयोरिति । बोधि-
सत्त्वचक्रवर्त्तिगर्भयोः तन्मात्रोर्नास्त्यन्तरेण कालक्रिया यावन्न तौ जायेते ।
एवमादीनामिति । आदिशब्देन निरोधासंज्ञितमापत्तिसमापन्नानां मैत्र्यादिसमा-
पन्नानां च नास्त्यन्तरेण कालक्रिया, यावत्तास्मात् समाधेर्न व्युत्तिष्ठन्ते ॥ ८६ ॥
१. जातिबद्धस्य--का० । २. श्रद्धाधर्मानुसारिणो--का० ।
रूपनामाध्वपर्यन्ताः,
रूपस्यापचीयमानस्य पर्यन्तः परमाणुः । कालस्य पर्यन्तः क्षणः । नाम्नः
पर्यन्तोऽक्षरम् । तद्यथा—गौरिति ।
क्षणस्य पुनः किं प्रमाणम् ? समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः,
गच्छन् वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति । बलवत्पुरुषाच्छोटमात्रेण
पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः ।
परमाणुरणुस्तथा ॥ ८५ ॥
लोहाब्शशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाऽङ्गुलिपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ८६ ॥
एतत् परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् । सप्त परमाणवोऽणुः,
सप्ताणवो लोहरजः, तानि सप्ताब्जरजः, तानि सप्त शशरजः, तानि सप्तैडकरजः,
तानि सप्त गोरजः, तानि सप्त वातायनच्छिद्ररजः, तानि सप्त लिक्षाः, तदुद्भवा
यूकेत्यर्थः, सप्त यूका यवः, सप्त यवा अङ्गुलिपर्व । त्रीणि पर्वाण्यङ्गुरिति प्रसिद्ध-
मेवेति नोक्तम् ॥ ८५-८६ ॥
पार्धीकृतास्तु—
चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।
धनुः,
व्यासेनेत्यर्थः ।
पञ्चशतान्येषां क्रोशोऽरण्यं च तन्मतम् ॥ ८७ ॥
धनुषां पञ्चशतानि क्रोशः । क्रोशमात्रं च ग्रामादि अरण्यमिष्टम्¹ ॥८७॥
तेऽष्टौ योजनमित्याहुः,
उक्तं योजनस्य प्रमाणम् ॥
वर्षस्येदानीमुच्यते—
विंशं क्षणशतं पुनः ।
“चतुर्विंशतिरङ्गुल्यो हस्तः” इति । अभिधर्मवचनकाले यः पुरुषहस्तः स
ग्रहीतव्यः । येन चतुर्द्दीपिकादिपरिमाणव्यवस्थानम् ॥ ८७ ॥
१. रण्यमिष्टम्—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ५३७
तत्क्षणः,
क्षणानां विंशं शतमकस्तत्क्षणः ।
ते पुनः षष्टिर्लवः,
तत्क्षणाः षष्टिर्लव इत्युच्यते ।
त्रिंशद्गुणोत्तराः ॥ ८८ ॥
त्रयो मुहूर्त्ताहोरात्रमासाः,
त्रिंशल्लवा मुहूर्तंः, त्रिंशन्मुहूर्त्त अहोरात्रः । कदाचित्तु रात्रिरधिका भवति,
कदाचिदूना, कदाचित् समा । त्रिदशाहोरात्रा मासः ।
द्वादशमासकः ।
संवत्सरः सोनरात्रः,
चत्वारो मासा हेमन्तानाम्, चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः
सार्धमूनरात्रैः । संवत्सरेण हि षडनरात्रा निपात्यन्ते । कथं कृत्वा ?
“हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते ।
शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते ॥”
उक्तं वर्षप्रमाणम् ॥
हेमन्तानामिति । यथा वर्षा इत्येकस्मिन्नप्यर्थे बहुवचनं प्रसिद्धम्, तथा
हेमन्ताः, ग्रीष्मा इति द्रष्टव्यम् । प्रवचने त्रय एवर्तवः, न यथा लोके षडिति ।
शिशिरो हि शीतसामान्याद्धेमन्त इत्युक्तः, वसन्तोऽप्युष्मसामान्याद् ग्रीष्म
इत्युक्तः, शरदपि वृष्टिसामान्याद् वर्षा इत्युक्तेति ।
हेमन्तग्रीष्मवर्षाणामिति । सर्वबौद्धानां हेमन्ताः प्रथम ऋतुः, ग्रीष्मा
द्वितीयः, वर्षास्तृतीयः । तत्राधिकमर्धमस्येत्यध्यर्धो मासः, तस्मिन्नध्यर्धे मासि
निर्गते । मार्गशीर्षे सपौषार्धेऽधिक्रान्ते । शेषेऽर्धमासे । पौषस्यार्धेऽवशिष्टे कृष्ण-
चतुर्दश्याम्, ऊनरात्रो विद्वद्भिर्बोद्धैर्निपात्यते । त्यज्यत इत्यर्थः । चातुर्दशिकोऽत्र
भिक्षुभिः पोषधः क्रियते । एवं माघे फाल्गुनार्धेऽतिक्रान्ते शेषेऽर्धमासे फाल्गुना-
वशिष्टे पुनरपर ऊनरात्रो निपात्यते । तथा ग्रीष्मेषु वैशाखकृष्णचतुर्दश्याम्,
आषाढकृष्णचतुर्दश्यां चापरावूनरात्रौ निपात्येते । वर्षाष्वपि भाद्रपदकृष्णचतु-
र्दश्यां कार्त्तिककृष्णचतुर्दश्यां चापरावूनरात्रौ निपात्येते ॥ ८८-८९ ॥
५३८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
कल्पस्येदानीं वक्तव्यम् —
कल्पो बहुविधः स्मृतः ॥ ८९ ॥
अन्तरकल्पः, संवर्त्तकल्पः, विवर्त्तकल्पः, महाकल्पश्चेति । तत्र तावत्—
संवर्त्तकल्पो नरकासम्भवात् भाजनक्षयः ।
नरकेषु हि सत्त्वासम्भवात् प्रभृति यावत् भाजनसंक्षयः ।
द्वे हि संवर्तन्यौ—गतिसंवर्तनी, धातुसंवर्तनी च । पुनर्द्वे संवर्तन्यौ—
सत्त्वसंवर्तनी, भाजनसंवर्तनी च ।
भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते । स आरम्भः
संवर्तकल्पस्य । यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात् तन्निर्यातं
वक्तव्यम् । यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत् प्रतिपन्नं वक्तव्यम् ।
यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयतायं लोकः संवृत्तो भवति ।
यदुत नरकसंवर्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म ध्रियते स लोक-
धात्वन्तरनरकेषु क्षिप्यते ।
एवं तिर्यक्संवर्तनी, प्रेतसंवर्तनी च वक्तव्या । महासमुद्रगतास्तिर्यञ्चः
पूर्वं संवर्तन्ते ।
गतिसंवर्त्तनीति । नरकाद्याः पञ्चगतयो गत्येकदेशे देवगतौ संवर्त्तन्ते एकस्थी-
भवन्तीत्यर्थः । धातुसंवर्त्तनी चेति । कामधातू रूपधातौ संवर्तत इति । सत्त्व-
संवर्त्तनी । यदा सत्त्वा एव संवर्त्तन्ते, ध्यानेष्वेकस्थीभवन्ति; न तु तद्भाजनानि
संवर्त्तन्ते, विनश्यन्तीत्यर्थः । भाजनसंवर्त्तनीति । यदा भाजनान्येव संवर्त्तन्ते
न तु सत्त्वाः; एकस्यापि सत्त्वस्य तत्राभावात् ।
यदयं लोक इति विस्तरः । यदयं लोको विंशतिमन्तरकल्पान् विवृत्तो जातः ।
यावन्नरकोत्पत्तिप्रवृत्तिं निर्यातं तन्निष्ठितं वक्तव्यमित्यर्थः । तत्प्रतिपन्नं वक्तव्य-
मिति । तत्संवर्तनमारब्धं वक्तव्यमिति ।
एवं तिर्यक्संपर्तनी प्रेतसंवर्त्तनी च वक्तव्येति । यदा तिर्यक्ष्वेकसत्त्वोऽपि
नावशिष्टो भवति, इयतायं लोकः संवृत्तो भवति । तिर्यक्संवर्तन्या यस्य
तदानीं नियतं तिर्यग् वेदनीयं कर्म ध्रियते, स लोकधात्वन्तरतिर्यक्षु क्षिप्यते ।
एवं प्रेतसंवर्तनी योज्या 'यदा प्रेतेषु' इति विस्तरेण ।
निर्देशः ] तृतीयं कोशस्थानम् ५२९
मनुष्यसहचरिणावस्तु तैरेव सार्धं भवन्ति। स कालो यन्मनुष्येष्वन्यतमः
सत्त्वः स्वयमनाचार्यकं धर्मताप्रतिलम्भिकं प्रथमं ध्यानं समापद्यते, स तस्मात्
व्युत्थाय वाचं भाषते—'सुखं बत विवेकजं प्रीतिसुखम्, शान्तं बत विवेकजं
प्रीतिसुखम्' इति। तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते। कालं
कृत्वा ब्रह्मलोक उपपद्यन्ते। यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति
इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्त्तन्या।
एवं पूर्वविदेह-गोदानीयोत्तरकुरुसंवर्त्तन्यो वक्तव्याः।
यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो
भवति यदुत मनुष्यगतिसंवर्त्तन्या।
औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते। तत्र
वैराग्याभावात्।
एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक
उपपद्यन्ते। यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो
भवति यदुत चातुर्महाराजकायिकसंवर्त्तन्या।
एवं यावत् परिनिर्मितवशवर्तिसंवर्त्तन्यो वक्तव्याः। यदैकसत्त्वोऽपि कामा-
वचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातु-
संवर्त्तन्या।
ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रतिलम्भिकं द्वितीयं ध्यानं
मनुष्यसहचरिणाव इति। मनुष्यसहचरणशीला गोमहिषादयः। धर्मता-
प्रतिलम्भिकमिति। धर्मता नाम कुशलानां धर्माणां तदानीं परिणामविशेषः,
तया प्रतिलम्भोऽस्यास्तीति धर्मताप्रतिलम्भिकम्। यन्मनुष्येष्विति। जम्बूद्वीप-
मनुष्येष्वित्यभिप्रायः।
एवं पूर्वविदेह-गोदानीयसंवर्त्तन्यो योज्यो। उत्तरकुरुसंवर्तनी त्वेवं वक्तव्या
भवति—स कालो यदुत्तरकुरौ मनुष्याश्च्यवन्त एव, नोपपद्यन्ते। यदा तत्रैक-
सत्त्वोऽपि नावशिष्टो भवति, इयतायं लोकः संवृत्तो भवत्युत्तरकुरुसंवर्तन्त्येति।
कस्मादेवं वक्तव्या, न तु जम्बूद्वीपसंवर्त्तन्यादिवद् ? इत्याह-तत्र वैराग्याभावात्।
तत्रोत्तरकुरौ वैराग्याभावात्।
अभि० को० २ : ११
५४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
समापद्योत्थाय वाचं भाषते—‘सुखं बत समाधिजं प्रीतिसुखम्, शान्तं बत
समाधिजं प्रीतिसुखम्’ इति । तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते ।
कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते । यदा ब्रह्मलोक एकसत्त्वोऽपि
नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्त्तन्या ।
ततः शून्ये भाजने इत एव सामन्तकात् सत्त्वानां तदाक्षेपके कर्मणि
परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत् पृथिवीं सुमेरुं च निःशेषं दहन्ति ।
तस्मादेव च¹ प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत् परैति ।
तच्च तद्भूमिकमेवार्चिर्वेिदितव्यम् । नहि विसभागा अपक्षालाः क्रमन्ते; तत्सम्बद्ध-
सम्भूतत्वात् । तस्मात्तदित्युक्तम् । कामावचरो ह्यग्नी रूपावचरमग्निं सम्बध्नातीति ।
एवमन्यस्यामपि संवर्त्तन्यां यथासम्भवं² वेदितव्यमिति । नरकेषु सत्त्वानां
च्युत्यनुत्पादात् प्रभृति यावत् भाजनानां संक्षय एष कालः ।
विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः ॥ ९० ॥
प्रथमाद् वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः, एष कालो विवर्तकल्प
इत्युच्यते ।
इत एव सामन्तकादिति । चातुर्द्धीपकसामन्तकादित्यर्थः । तदाक्षेपके कर्मणि
परिक्षीण इति । भाजनाक्षेपके भाजनोत्पादके परिक्षीण इत्यर्थः । ब्राह्मं विमानं
निर्दहदर्चिः परैति । गच्छतीत्यर्थः । तच्च तद्भूमिकमेवार्चिरिति । प्रथमध्यान-
भूमिकम् । कस्माद् ? इत्याह—नहि विसभागा विसदृशा अपक्षाला उपद्रवा
अग्न्यादयः क्रमन्ते । तापयन्त इत्यर्थः । आह—यद्येवम्, किमिदमुच्यते—
तस्मादेव चेति विस्तरेणेति ? अत उच्यते—तत्सम्बद्धसम्भूतत्वादिति विस्तरः ।
तेन कामावचरेणार्चिषा सम्बद्धं सम्भूतं रूपावचरमर्चिः, तद्भावस्तस्मादिति ।
एवमन्यस्यामिति । यथा तेजःसंवर्त्तन्यामुक्तम्, एवमन्यस्यामप्यप्संवर्त्तन्याम्,
वायुसंवर्त्तन्यां च यथासम्भवं वेदितव्यम् । कथं कृत्वा नरकादिसंवर्तनी ? यां पूर्व-
वदुक्त्वा यावदियताऽयं लोकः संवृत्तो भवति सत्त्वसंवर्त्तन्या । ततः शून्ये भाजने
सहजोऽब्धातुः सम्भवति । यस्तं भाजनलोकं लवणमिव विलोपयति, स कामा-
वचरोऽब्धातुः सम्बध्नाति, स च द्वितीयध्यानभूमिकं
सम्बध्नाति । स च ध्यानभूमिकोऽब्धातुः स्वेन स्वेन भाजनेन सहान्तर्धीयते ।
१. का० पुस्तके नास्ति । २. यथायोगं—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ५४१
तथा हि¹ संवृत्तो¹ लोक आकाशमात्रावशेषश्चिरं कालं तिष्ठति यावत्
पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा
वायवः स्यन्दन्ते । तदा प्रभृति² यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽ-
स्थात् , तन्निर्यातं वक्तव्यम् । यद् विंशतिमन्तरकल्पान् विवर्तिष्यते, तदुपयातं
वक्तव्यम् ।
ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते । ततः शनैर्यथोक्त-
क्रमविधानं सर्वं जायते—अब्मण्डलम्, काञ्चनमयी पृथिवी³, सुमेर्वादयश्च ।
प्रथमं तु ब्राह्मं विमानमुत्पद्यते । ततो यावद् यामीयम्, ततो वायुमण्डलादीनि ।
इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्त्तन्या ।
अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते ।
एवं वायुसंवर्त्तन्यां सहजो वायुः सम्भवतीति वक्तव्यम् । कथमिति ? पूर्ववदुक्त्वा
यावत् सहजो वायुधातुः सम्भवतीति । यस्तं भाजनलोकं कामावचरं यावत्
तृतीयध्यानभूमिकं क्रमेण पांशुराशिमिव विकरति विध्वंसयति । यावत्तेनैव
सार्धमन्तर्धीयते ।
विवर्त्तकल्पं विस्तरेण वक्तुकाम आह—तथा हि संवृत्तो लोक इति विस्तरः ।
तथेति यथा वर्णितम् । तदेति विस्तरः । यदाकाशे मन्दमन्दा वायवः स्यन्दन्ते
तदा प्रभृति यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्, तन्निर्यातं परिसमाप्तं
वक्तव्यम् । तदुपयातं वक्तव्यमिति । तदारब्धं वक्तव्यमित्यर्थः ।
यथोक्तक्रमविधानमिति । यथोक्तेन क्रमेण विधानेन च सर्वं जायते । यथोक्तः
क्रमः—वायुमण्डलम्, अब्मण्डलम्, ततः काञ्चनमयी पृथिवी, ततः सुमेर्वादयश्चेति ।
यथोक्तं विधानम्—यस्य यद्विधानमुक्तम्, अयामोद्वेधपरिणाहसंस्थानलक्षणम्,
तत्तथा सर्वं जायते । प्रथमं तु ब्राह्ममिति विस्तरः । यत् पश्चात् संवर्त्तते तत्पूर्वं
विवर्त्तत इति स्थितिः । तेनाह—प्रथमं तु ब्राह्मं विमानमुत्पद्यते । ततो यावद्यामी-
मिति । यावच्छब्देन ब्रह्मविमानान्तरं परनिर्मितवशवर्त्तिविमानम्, तदनन्तरं
निर्माणरतिविमानम्, ततोऽनन्तरं यावद्यामीयं विमानमुत्पद्यते । ततो यामीय-
विमानोत्पत्त्यनन्तरं वायुमण्डलादीनीति । यदुत भाजनविवर्त्तन्येति । न सत्त्व-
विवर्त्तन्येति दर्शयति ।
शून्ये ब्राह्मे विमान उत्पद्यत इति । महाब्रह्मा ।
१-१. तथा संवृत्ते हि—वा० । २. का० पुस्तके नास्ति ।
३. महापृथिवी द्वीपाः—का० ।
: धर्मता ह्येषा—यत् पश्चात् संवर्तते तत् पूर्वं)
Line 5:
विवर्त्तते ।
Line 6:
यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति, तदा यदयं लोको विंशति-
Line 7:
मन्तरकल्पान् विवर्तते तन्निर्यातं भवति । यद् विंशतिमन्तरकल्पान् विवर्त्तः
Line 8:
स्थास्यति, तदुपयातं भवति ॥ ९० ॥
Line 9:
अन्तःकल्पोऽमितात् यावद् दशवर्षायुषः,
Line 10:
विवर्त्तमाने लोके एकान्नविंशतिरन्तरकल्पा अपरमितायुषां मनुष्याणामति-
Line 11:
क्रामन्ति ।
Line 12:
अपरमितायुषामेव हसतां² यावद्दशवर्षायुषो भवन्ति । सोऽसौ विवृत्तानां
(Footnote 2 marker after हसतां: हसतां²)
Line 13:
तिष्ठतां प्रथमोऽन्तरकल्पः ।
Line 14:
ततः ।
Line 15:
उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे ॥ ९१ ॥
Line 1
निर्देश: ] तृतीयं कोशस्थानम् ५४३
कथं कृत्वा ? तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीति-
वर्षसहस्रायुषो भवन्ति । पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति । एवं
द्वितीयोऽन्तरकल्पः । एवं यावदष्टादश ॥ ९१ ॥
उत्कर्ष एकः,
एकान्तरकल्पो विंशतितम उत्कर्षः । एवमपकर्षः । दशवर्षायुष्केभ्यो
यावदशीतिवर्षायुषां मनुष्याणामिति वर्तते ।
अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति ?
तेऽशीतिसहस्राद् यावदायुषः ।
नातः परेण वर्धन्ते । यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालः,
तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे
भवन्ति ।
इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् ॥ ९२ ॥
इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान् विवृत्तस्तिष्ठति ॥९२॥
यावन्तं कालं विवृत्तस्तिष्ठति, तावन्तमेव कालम्—
विवर्ततेऽथ संवृत्त आस्ते संवर्तते समम् ।
विंशतिमेवान्तरकल्पान् विवर्तते, विंशतिं संवर्तते, विंशतिं संवृत्त आस्ते ।
यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते, कालस्तु समानः परि-
संख्यायते । तत्रैकेनान्तरकल्पेन भाजनान्यभिनिवर्तन्ते, एकान्नविंशत्याऽन्तर-
कल्पेन भाजनानि विध्वंस्यन्ते, एकान्नविंशत्या शूनयीभवन्ति । ता एता
अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति ।
ते ह्यशीतिर्महाकल्पः,
एतन्महाकल्पस्य प्रमाणम् ॥
कल्पः किंस्वभावः ? पञ्चस्कन्धस्वभावः । यदुच्यते—
ततस्तु "उत्कर्ष एकः" इति । विंशत्यन्तरकल्पपरिमाणा विवृत्तावस्था अव-
गन्तव्या ॥ ९२ ॥
पञ्चस्कन्धस्वभावः कल्पः । "त एवाध्वा कथावस्तु" ( अभि० को० १.७ )
इति ।