अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 553, कुल 1258 में से
संदर्भ में पढ़ें५३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
यत् त्रायस्त्रिंशानामायुःप्रमाणम्, तत् कालसूत्रे महानरके एकं रात्रि-
न्दिवम् । तेन रात्रिन्दिवेन तस्मिन् वर्षसहस्राण्यायुःप्रमाणम् ।
एवमन्येष्वपि यथायोगं योज्यम्, यावत् परनिर्मितवशवर्तिनामायुःप्रमाणं
तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् ॥ ८२ ॥
अर्धं प्रतापने,
प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुःप्रमाणम् ।
अवीचावन्तःकल्पम्,
तिरश्चां तु नियमो नास्ति ।
परं पुनः ।
कल्पं तिरश्चाम्,
परमायुस्तिरश्चामन्तरकल्पम् । तत् पुनर्नगानां नन्दोपनन्दाश्वतली-
प्रभृतीनाम् । उक्तं हि भगवता—"अष्टाविमे भिक्षवो नागा महानागाः
कल्पस्था धरणीन्धराः” ( ) इति विस्तरः ।
प्रेतानां मासाह्ना शतपञ्चकम् ॥ ८३ ॥
यो मनुष्याणां मासः, स प्रेतानामहोरात्रः । तेनाहोरात्रेण पञ्च वर्ष-
शतान्यायुः ॥ ८३ ॥
शीतनरकेष्वायुषः किं प्रमाणम् ?
वाहाद् वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्बुदाद् विंशतिगुणप्रतिवृद्ध्यायुषः परे ॥ ८४ ॥
दिव्यानि पञ्च वर्षशतान्यायुरित्यादि ।
एवमन्येष्वपि यथायोगं योज्यमिति । यद् यामानामायुःप्रमाणम्, तत् सङ्घाते
महानरके एकं रात्रिन्दिवम् । तेन तस्मिन् रात्रिन्दिवेन वर्षसहस्रद्वयमायुः-
प्रमाणम् । एवमन्येष्वपि यथायोगं योज्यम् ॥ ८२ ॥
अष्टाविमे भिक्षव इति । 'अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था
धरणीन्धरा अप्रत्युद्धार्याः सुपर्णिनः पक्षिराजस्य देवासुरमपि संग्राममनुभवन्त्यपि
प्रत्यनुभवन्त्यपि । ते पुनः कतमे ? तद्यथा—नन्दो नागराजः, उपनन्दो
नागराजः, अश्वतरी नागराजः, मुचिलिन्दो नागराजः, मनस्वी नागराजः,