सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 555, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 555

रूपनामाध्वपर्यन्ताः,
रूपस्यापचीयमानस्य पर्यन्तः परमाणुः । कालस्य पर्यन्तः क्षणः । नाम्नः
पर्यन्तोऽक्षरम् । तद्यथा—गौरिति ।
क्षणस्य पुनः किं प्रमाणम् ? समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः,
गच्छन् वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति । बलवत्पुरुषाच्छोटमात्रेण
पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः ।
परमाणुरणुस्तथा ॥ ८५ ॥
लोहाब्शशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाऽङ्गुलिपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ८६ ॥
एतत् परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् । सप्त परमाणवोऽणुः,
सप्ताणवो लोहरजः, तानि सप्ताब्जरजः, तानि सप्त शशरजः, तानि सप्तैडकरजः,
तानि सप्त गोरजः, तानि सप्त वातायनच्छिद्ररजः, तानि सप्त लिक्षाः, तदुद्भवा
यूकेत्यर्थः, सप्त यूका यवः, सप्त यवा अङ्गुलिपर्व । त्रीणि पर्वाण्यङ्गुरिति प्रसिद्ध-
मेवेति नोक्तम् ॥ ८५-८६ ॥
पार्धीकृतास्तु—
चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।
धनुः,
व्यासेनेत्यर्थः ।
पञ्चशतान्येषां क्रोशोऽरण्यं च तन्मतम् ॥ ८७ ॥
धनुषां पञ्चशतानि क्रोशः । क्रोशमात्रं च ग्रामादि अरण्यमिष्टम्¹ ॥८७॥
तेऽष्टौ योजनमित्याहुः,
उक्तं योजनस्य प्रमाणम् ॥
वर्षस्येदानीमुच्यते—
विंशं क्षणशतं पुनः ।
“चतुर्विंशतिरङ्गुल्यो हस्तः” इति । अभिधर्मवचनकाले यः पुरुषहस्तः स
ग्रहीतव्यः । येन चतुर्द्दीपिकादिपरिमाणव्यवस्थानम् ॥ ८७ ॥
१. रण्यमिष्टम्—का० ।