सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 560, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 560

निर्देशः ] तृतीयं कोशस्थानम् ५४१
तथा हि¹ संवृत्तो¹ लोक आकाशमात्रावशेषश्चिरं कालं तिष्ठति यावत्
पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा
वायवः स्यन्दन्ते । तदा प्रभृति² यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽ-
स्थात् , तन्निर्यातं वक्तव्यम् । यद् विंशतिमन्तरकल्पान् विवर्तिष्यते, तदुपयातं
वक्तव्यम् ।
ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते । ततः शनैर्यथोक्त-
क्रमविधानं सर्वं जायते—अब्मण्डलम्, काञ्चनमयी पृथिवी³, सुमेर्वादयश्च ।
प्रथमं तु ब्राह्मं विमानमुत्पद्यते । ततो यावद् यामीयम्, ततो वायुमण्डलादीनि ।
इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्त्तन्या ।
अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते ।
एवं वायुसंवर्त्तन्यां सहजो वायुः सम्भवतीति वक्तव्यम् । कथमिति ? पूर्ववदुक्त्वा
यावत् सहजो वायुधातुः सम्भवतीति । यस्तं भाजनलोकं कामावचरं यावत्
तृतीयध्यानभूमिकं क्रमेण पांशुराशिमिव विकरति विध्वंसयति । यावत्तेनैव
सार्धमन्तर्धीयते ।
विवर्त्तकल्पं विस्तरेण वक्तुकाम आह—तथा हि संवृत्तो लोक इति विस्तरः ।
तथेति यथा वर्णितम् । तदेति विस्तरः । यदाकाशे मन्दमन्दा वायवः स्यन्दन्ते
तदा प्रभृति यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्, तन्निर्यातं परिसमाप्तं
वक्तव्यम् । तदुपयातं वक्तव्यमिति । तदारब्धं वक्तव्यमित्यर्थः ।
यथोक्तक्रमविधानमिति । यथोक्तेन क्रमेण विधानेन च सर्वं जायते । यथोक्तः
क्रमः—वायुमण्डलम्, अब्मण्डलम्, ततः काञ्चनमयी पृथिवी, ततः सुमेर्वादयश्चेति ।
यथोक्तं विधानम्—यस्य यद्विधानमुक्तम्, अयामोद्वेधपरिणाहसंस्थानलक्षणम्,
तत्तथा सर्वं जायते । प्रथमं तु ब्राह्ममिति विस्तरः । यत् पश्चात् संवर्त्तते तत्पूर्वं
विवर्त्तत इति स्थितिः । तेनाह—प्रथमं तु ब्राह्मं विमानमुत्पद्यते । ततो यावद्यामी-
मिति । यावच्छब्देन ब्रह्मविमानान्तरं परनिर्मितवशवर्त्तिविमानम्, तदनन्तरं
निर्माणरतिविमानम्, ततोऽनन्तरं यावद्यामीयं विमानमुत्पद्यते । ततो यामीय-
विमानोत्पत्त्यनन्तरं वायुमण्डलादीनीति । यदुत भाजनविवर्त्तन्येति । न सत्त्व-
विवर्त्तन्येति दर्शयति ।
शून्ये ब्राह्मे विमान उत्पद्यत इति । महाब्रह्मा ।
१-१. तथा संवृत्ते हि—वा० । २. का० पुस्तके नास्ति ।
३. महापृथिवी द्वीपाः—का० ।