सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 557, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 557

५३८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
कल्पस्येदानीं वक्तव्यम् —
कल्पो बहुविधः स्मृतः ॥ ८९ ॥
अन्तरकल्पः, संवर्त्तकल्पः, विवर्त्तकल्पः, महाकल्पश्चेति । तत्र तावत्—
संवर्त्तकल्पो नरकासम्भवात् भाजनक्षयः ।
नरकेषु हि सत्त्वासम्भवात् प्रभृति यावत् भाजनसंक्षयः ।
द्वे हि संवर्तन्‍यौ—गतिसंवर्तनी, धातुसंवर्तनी च । पुनर्द्वे संवर्तन्‍यौ—
सत्त्वसंवर्तनी, भाजनसंवर्तनी च ।
भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते । स आरम्भः
संवर्तकल्पस्य । यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात् तन्निर्यातं
वक्तव्यम् । यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत् प्रतिपन्नं वक्तव्यम् ।
यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयतायं लोकः संवृत्तो भवति ।
यदुत नरकसंवर्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म ध्रियते स लोक-
धात्वन्तरनरकेषु क्षिप्यते ।
एवं तिर्यक्संवर्तनी, प्रेतसंवर्तनी च वक्तव्या । महासमुद्रगतास्तिर्यञ्चः
पूर्वं संवर्तन्ते ।
गतिसंवर्त्तनीति । नरकाद्याः पञ्चगतयो गत्येकदेशे देवगतौ संवर्त्तन्ते एकस्थी-
भवन्तीत्यर्थः । धातुसंवर्त्तनी चेति । कामधातू रूपधातौ संवर्तत इति । सत्त्व-
संवर्त्तनी । यदा सत्त्वा एव संवर्त्तन्ते, ध्यानेष्वेकस्थीभवन्ति; न तु तद्भाजनानि
संवर्त्तन्ते, विनश्यन्तीत्यर्थः । भाजनसंवर्त्तनीति । यदा भाजनान्येव संवर्त्तन्ते
न तु सत्त्वाः; एकस्यापि सत्त्वस्य तत्राभावात् ।
यदयं लोक इति विस्तरः । यदयं लोको विंशतिमन्तरकल्पान् विवृत्तो जातः ।
यावन्नरकोत्पत्तिप्रवृत्तिं निर्यातं तन्निष्ठितं वक्तव्यमित्यर्थः । तत्प्रतिपन्नं वक्तव्य-
मिति । तत्संवर्तनमारब्धं वक्तव्यमिति ।
एवं तिर्यक्संपर्तनी प्रेतसंवर्त्तनी च वक्तव्येति । यदा तिर्यक्ष्वेकसत्त्वोऽपि
नावशिष्टो भवति, इयतायं लोकः संवृत्तो भवति । तिर्यक्संवर्तन्या यस्य
तदानीं नियतं तिर्यग् वेदनीयं कर्म ध्रियते, स लोकधात्वन्तरतिर्यक्षु क्षिप्यते ।
एवं प्रेतसंवर्तनी योज्या 'यदा प्रेतेषु' इति विस्तरेण ।