सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 559, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 559

५४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
समापद्योत्थाय वाचं भाषते—‘सुखं बत समाधिजं प्रीतिसुखम्, शान्तं बत
समाधिजं प्रीतिसुखम्’ इति । तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते ।
कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते । यदा ब्रह्मलोक एकसत्त्वोऽपि
नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्त्तन्या ।
ततः शून्ये भाजने इत एव सामन्तकात् सत्त्वानां तदाक्षेपके कर्मणि
परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत् पृथिवीं सुमेरुं च निःशेषं दहन्ति ।
तस्मादेव च¹ प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत् परैति ।
तच्च तद्भूमिकमेवार्चिर्वेिदितव्यम् । नहि विसभागा अपक्षालाः क्रमन्ते; तत्सम्बद्ध-
सम्भूतत्वात् । तस्मात्तदित्युक्तम् । कामावचरो ह्यग्नी रूपावचरमग्निं सम्बध्नातीति ।
एवमन्यस्यामपि संवर्त्तन्यां यथासम्भवं² वेदितव्यमिति । नरकेषु सत्त्वानां
च्युत्यनुत्पादात् प्रभृति यावत् भाजनानां संक्षय एष कालः ।
विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः ॥ ९० ॥
प्रथमाद् वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः, एष कालो विवर्तकल्प
इत्युच्यते ।
इत एव सामन्तकादिति । चातुर्द्धीपकसामन्तकादित्यर्थः । तदाक्षेपके कर्मणि
परिक्षीण इति । भाजनाक्षेपके भाजनोत्पादके परिक्षीण इत्यर्थः । ब्राह्मं विमानं
निर्दहदर्चिः परैति । गच्छतीत्यर्थः । तच्च तद्भूमिकमेवार्चिरिति । प्रथमध्यान-
भूमिकम् । कस्माद् ? इत्याह—नहि विसभागा विसदृशा अपक्षाला उपद्रवा
अग्न्यादयः क्रमन्ते । तापयन्त इत्यर्थः । आह—यद्येवम्, किमिदमुच्यते—
तस्मादेव चेति विस्तरेणेति ? अत उच्यते—तत्सम्बद्धसम्भूतत्वादिति विस्तरः ।
तेन कामावचरेणार्चिषा सम्बद्धं सम्भूतं रूपावचरमर्चिः, तद्भावस्तस्मादिति ।
एवमन्यस्यामिति । यथा तेजःसंवर्त्तन्यामुक्तम्, एवमन्यस्यामप्यप्संवर्त्तन्याम्,
वायुसंवर्त्तन्यां च यथासम्भवं वेदितव्यम् । कथं कृत्वा नरकादिसंवर्तनी ? यां पूर्व-
वदुक्त्वा यावदियताऽयं लोकः संवृत्तो भवति सत्त्वसंवर्त्तन्या । ततः शून्ये भाजने
सहजोऽब्धातुः सम्भवति । यस्तं भाजनलोकं लवणमिव विलोपयति, स कामा-
वचरोऽब्धातुः सम्बध्नाति, स च द्वितीयध्यानभूमिकं
सम्बध्नाति । स च ध्यानभूमिकोऽब्धातुः स्वेन स्वेन भाजनेन सहान्तर्धीयते ।
१. का० पुस्तके नास्ति । २. यथायोगं—का० ।