सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

निर्देशः ] तृतीयं कोशस्थानम् ४८५
पुनः परिपिण्डितालम्बनम्, तेषां तत्रैक एव सम्मिश्रालम्बनो¹ धर्मोपविचारः ।
एक ऊर्ध्वगः ।
एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः ।
एको मौले,
मौले पुनरारूप्ये धर्मोपविचार एवैकोऽस्ति, नान्यः । स चापि—
स्वविषयः,
आरूप्यधात्वालम्बन एव । नहि मौलानामारूप्याणामधरो धातुरालम्बनमिति
पश्चात् प्रतिवेदयिष्यामि² ।
एते च मनोपविचाराः—
सर्वेऽष्टादश सास्रवाः ॥ ३५ ॥
नास्ति कश्चिदनास्रवः ।
कः कतिभिः समन्वगतः ? कामधातूपपन्नो रूपावचरस्य कुशलस्य
चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थ-
ध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टे-
यतनसामन्तकं व्यवच्छिन्नालम्बनम्, पृथक् पृथग्रूपाद्यालम्बनमसमस्तालम्बन-
मित्यर्थः । औदारिकादिभिराकारैस्तच्चतुर्थध्यानमालम्बत इत्येकेषामाचार्याणां
मतम् । येषामाचार्याणां मतेन परिपिण्डितालम्बनमेव तदाकाशानन्त्यायतन-
सामन्तकं चतुर्थध्यानभूमिकस्कन्धपञ्चकालम्बनमिति मतम्, तेषामाचार्याणां
तत्रैक एव सम्मिश्रालम्बनो धर्मोपविचार इति ।
“एक ऊर्ध्वगः” इति । केषां पक्षे ? येषाम् “चत्वारोऽरूपिसामन्ते” इति
पक्षः । न हि मौलानामिति विस्तरः । मौलानामारूप्याणामधरो धातुर्नालम्बनमधर-
भूमिकं सास्रवं वस्तु नालम्बनमित्यर्थः । पश्चात् प्रवेदयिष्यामीति । “न मौलाः
कुशलारूप्याः सास्रवाधरगोचराः” ( अभि० को० ८. २१ ) इति ।
प्रथमेति विस्तरः । प्रथमद्वितीयध्यानभूमिकैरष्टाभिः समन्वगतस्तृतीयचतुर्थ-
ध्यानभूमिकैश्चतुर्भिः । कतमैः ? इत्याह—क्लिष्टैः, गन्धरसालम्बनान् पर्युदस्य । तत्र
गन्धरसाभावात् । कथम् ? प्रथमद्वितीयोर्ध्यानयोर्द्वादशोपविचाराः सन्तीत्युक्तम् ।
सौमनस्योपेक्षोपविचाराणां षड्विषयालम्बनव्यवस्थापनात् । तत्र स्वभूम्या-
१. संमिश्रा०—का० । २. प्रतिवेदयिष्यामः—का० ।

४८६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-

नैवालाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागः सर्वैः कामावचरैः प्रथम-
ध्यानभूमिकैर्दशभिः । चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनावपास्य १
षड्भिरुपेक्षोपविचारैरनागम्यभूमिकैः । द्वितीयतृतीयचतुर्थध्यानानारूप्यजैः २ पूर्ववत् ।
अनया वर्तन्या शेषमनुगन्तव्यम् ।
लम्बना रूपशब्दस्प्रष्टव्यधर्मालम्बनाः सौमनस्योपविचाराश्चत्वारः क्लिष्टाः । ये
चोपेक्षोपविचाराः क्लिष्टा एव चत्वारः । तैः कामधातूपपन्नो रूपावचरकुशला-
लाभी समन्वगतः । अधरभूम्युपपन्नो ह्युर्ध्वभूमिकैः क्लिष्टैः समन्वगतो
भवति । न तु विशिष्ठैश्चतुर्भिर्गन्धरसालम्बनैः; तेषामक्लिष्टत्वात् । रूपावचर-
कुशलालाभित्वाच्च । नास्त्यक्लिष्टरूपावचर धर्मलाभ इति न तैः समन्वगतः ।
तृतीयचतुर्थध्यानभूमिका अपि षडेवोपेक्षोपविचारा उक्ताः । तेषां ये स्वभूम्या-
लम्बनाः क्लिष्टाः, तैः समन्वगतस्तथा, यौ तु गन्धरसालम्बनौ न तौ क्लिष्टौ ।
अतः पूर्वोक्तेनैव न्यायेन न ताभ्यां समन्वगतः । क्लिष्टेनैवेति । नाक्लिष्टेन;
कुशलस्याभावात् । लाभी रूपावचरस्येति विस्तरः । कामधातूपपन्न एव लाभी
रूपावचरस्य कुशलस्य चित्तस्यानागम्यसंगृहीतस्यावीतरागः कामधातोः सर्वैः
कामावचरैरष्टादशभिरपि समन्वगतः । प्रथमध्यानभूमिकैर्दशभिरिति । कथं
दशभिः ? इत्याह—सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनावपास्येति । सौमन-
स्योपविचाराः सामन्तकेषु न भवन्ति; सामन्तकानामुपेक्षेन्द्रियसम्प्रयोगाित्वात् ।
अतो मौलसंगृहीतैरेव सौमनस्योपविचारैः क्लिष्टैः स्वभूम्यालम्बनैश्चतुर्भिः
समन्वगतः, न तु गन्धरसालम्बनाभ्याम्; मौलकुशलालाभेनाविक्लिष्टाभावात् ।
न हि क्लिष्टं ध्यानमधरलम्बनमस्ति । षड्भिरुपेक्षोपविचारैरनागम्यभूमिकैरिति ।
अत्राविशेषाभिधानादुपेक्षोपविचारैः क्लिष्टैरपि चतुर्भिः समन्वगतः सामन्तक-
संगृहीतैः, षड्भिश्चोपेक्षोपविचारैः कुशलैः कामधात्वालम्बनैः स्वभूम्यालम्बनै-
रपि । द्वितीयतृतीयचतुर्थध्यानानारूप्यजैः पूर्ववदिति । कथम् ? स एव धातूपपन्नो
लाभी रूपावचरस्य कुशलस्य चित्तस्यावीतरागो द्वितीयध्यानभूमिकैरष्टा-
भिरेवालाभी गन्धरसालम्बनानपास्य । तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः
क्लिष्टैरेव गन्धरसालम्बनौ पर्युदस्यारूप्यावचरेणैकेन क्लिष्टेनैव ।
अनया वर्तन्या मार्गेण शेषमनुगन्तव्यम् । कथम् ? प्रथमध्यानोपपन्नो द्वितीय-
ध्यानभूमिकस्य कुशलस्य चित्तस्यालाभी प्रथमध्यानभूमिकैः सर्वै समन्वगतः ।
द्वितीयध्यानभूमिकैः क्लिष्टैरष्टाभिस्तृतीयचतुर्थध्यानानारूप्यजैः पूर्ववत् । लाभी


१. लम्बनौ व्युदस्य—का० ।
२. द्वितीयध्यानभूमिकैरष्टाभिः । तृतीयचतुर्थध्यानानारूप्यभूमिकैः—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४८७
ध्यानोपपन्नस्तु कामावचरैरेकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसम्प्रयुक्तेन
समन्वगतो वेदितव्यः ।
अपर आह—अस्त्येवं मनोपविचाराणां वैभाषिकी योऽर्थः, सूत्रार्थस्त्व-
न्यथा दृश्यते । नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् ।
अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः । किं तर्हि ? सांक्ले-
शिकाः, यैर्मनो विषयानुपविचरतीति । कथमुपविचरति १ तत्र २ ? अनुनीयते वा ३,
प्रतिहन्यते वा ४, अप्रतिसंख्याय ५ वोपेक्षते" । येषां प्रतिपक्षेण षट् सातता विहारा
द्वितीयध्यानभूमिकस्य कुशलचित्तस्य तद्भूम्यवीतरागः सर्वै प्रथमध्यानभूमिकैः,
द्वितीयाध्यानभूमिकैरष्टाभिः । चतुर्भिः सौमनस्योपविचारैः क्लिष्टैः, गन्धरसा-
लम्बनावपास्य । चतुर्भिश्चोपेक्षोपविचारैर्द्वितीयध्यानसामन्तकसंग

४८८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-

भवन्ति—चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मनाः, उपेक्षको भवति¹
स्मृतिमान् सम्प्रजानन् एवं यावन्मनसा धर्मान् विज्ञायेति । न ह्यर्हतो लौकिकं
नास्ति कुशलं धर्मांलम्बनं सौमनस्यम् । यत्तु तत्सांक्लेशिकं मनस उपविचारभूतम्,
तस्यैव प्रतिषेधो लक्ष्यत इति ।
सततं भवाः सातता विहारा योगविशेषा भवन्ति । ते च षट् । कथम् ? इत्याह-
चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति, नानुनीयते । न दुर्मनाः, न प्रतिहन्यते ।
उपेक्षको भवति, नाभ्युजति । कथं नाभ्युजति, किमप्रतिसंख्यायाहोस्चित् प्रति-
संख्यायेति ? विशेषयन्नाह—स्मृतिमान् सम्प्रजानन्निति । स्मृतिसम्प्रयुक्तया
प्रज्ञया प्रतिसमीक्ष्यमाण इत्यर्थः । एवं यावन्मनसा धर्मान् विज्ञायेति । विषय-
षट्कभेदात् षट् सातता इति । न ह्यर्हत इति विस्तरः । अर्हतो लौकिकं
कुशलं सास्रवं धर्मांलम्बनं धर्मायतनालम्बनमधिगमधर्मांलम्बनं वा सौमनस्य-
मस्ति । तस्य हि बुद्धसान्तानिकान् गुणान् सम्मुखीकुर्वतः कुशलं सौमनस्य-
मुत्पद्यते । न तस्येषं प्रतिषेधो युज्यते । कस्य तर्हि ? यत्तु तत् सांक्लेशिकं मनस
उपविचारभूतम् । तस्येष प्रतिषेधो लक्ष्यते । तस्मात् सास्रवा अपि न सर्वे सौम-
नस्यादय उपविचारा इति ।
अत्र भदन्तानन्तवर्माह—अयुक्तमेतत् । कस्मात् ? सूत्रेऽन्यथा निर्देशात् ।
सूत्रे हि भगवता न सांक्लेशिका एवोपविचारा उक्ताः । एवं ह्याह—“तत्र
भिक्षवो य इमे षट् सौमनस्योपविचारास्तानाश्वित्य तान् प्रतिष्ठाय य इमे षट्
सौमनस्योपविचारास्तान् प्रजहीत । तत्र भिक्षवो य इमे षडुपेक्षोपविचारास्ता-
नाश्रिय तान् प्रतिष्ठाय य इमे षडुपेक्षोपविचारास्तान् प्रजहीत । द्वे भिक्षवो
उपेक्षे—नानात्वसन्निश्रिता, एकत्वसन्निश्रिता च । तत्र भिक्षवो येयमेकत्व-
सन्निश्रितोपेक्षा, तामागम्य तामधिष्ठाय येयं नानात्वसन्निश्रितोपेक्षा तां
प्रजहीत” । ( ) इति । एतस्मात् सूत्राज्ज्ञायते—न सांक्लेशिका
एव सौमनस्यादय उपविचारा इति । तदेतज्ज्ञापकम्; प्रहाणवचनेऽपि सांकले-
शिकस्याभ्युपगतेः । न हीतरेणेतरस्य सन्निश्रयप्रहाणवचनेऽपि सत्येषां मनोप-
विचाराणां सांक्लेशिकत्वं विनिवर्त्तते; अन्यथासम्भवात् । एवमाह—“मानं
निश्रित्य मान एव प्रहातव्यः” इति । न तु जातु कचिन्मानो व्यवदानिकः
सम्भवति । तस्मात् क्लेशानां परस्परविरोघेन वृत्तेर्वृत्त्यन्तरस्य चापेक्षया गुण-
वत्वात्, गुरुलाघवमभिसन्धाय सूत्रे वचनाददोषः । नन्दादयोऽत्र निदर्शनम् ।


१. विहरति—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ४८९
पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति गार्हनैष्क्रम्या-
श्रितभेदेन; तद्भेदस्य शास्त्रा गमितत्वात् । तत्र गार्हाश्रिताः क्लिष्टाः, नैष्क्रम्या-
श्रिताः कुशलाः ।
एवमेतद् वेदनारूयं भवाङ्गमनेकप्रकारमेदं वेदितव्यम् ॥ ३५ ॥
शेषाण्यङ्गानि पुनर्नोच्यन्ते । किं कारणम् ? यस्मात्
उक्तं च, वक्ष्यते चान्यत्,
किञ्चिदत्राङ्गमुक्तम्, किञ्चित् पश्चाद् वक्ष्यते । तत्र विज्ञानं तावदुक्तम्—
“विज्ञानं प्रतिविज्ञप्तिर्मनायतनं च तत्” (अभि० को० १.१६) इति ।
षडायतनमप्युक्तम्—
“तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः” (अभि० को० १.९) इति ।
संस्काराः, भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते । तृष्णोपादानानि
क्लेशकोशस्थाने ।
स चैष प्रतीत्यसमुत्पादः समासतः क्लेश-कर्म-वस्तूनीति प्रज्ञापितम्¹ ।
अत्र तु क्लेश इष्यते ।
बीजवन्नागवन्मूलवृक्षवत् तुषवत् तथा ॥ ३६ ॥
अतश्चैतदेवं यदुपेक्षोपविचाराणामुपेक्षोपविचारानैव प्रहाणाय संनिश्रयत्वेन
दिदेश भगवान्—'द्वे भिक्षव उपेक्षे' इत्यादिवचनात् ।
ननु च गार्हाश्रितनैष्क्रम्याश्रितभेदेन षट्त्रिंशच्छास्तृपदानीति वचनात्
सिद्धमेषां सांकलेशिकव्यवदानिकत्वं वैभाषिकमतानुसारान् ? अदोषः; आचार्य-
स्यापि मनोपविचारव्यतिरिक्तास्तत्र सौमनस्यादयः सन्ति ।
पुनस्त एवेति विस्तरः । त एवाष्टादशोपविचाराः केचिद् भवाश्रिता अभि-
ष्वङ्गाश्रिताः, केचिन्निष्क्रम्याश्रिताः । नैष्क्रम्यम् = निष्क्रमभावः संक्लेशात्
संसारदुःखाद् वा । गार्हनैष्क्रम्याश्रितभेदेन द्वावष्टादशकौ षट्त्रिंशच्छास्तृपदानि ।
तद्भेदस्य तेषां मनोपविचाराणां द्विधाभेदस्य । शास्त्रा बुद्धेन । गमितत्वाद्
देशितत्वाद् यथासूत्रम् ॥ ३५ ॥
क्लेशकर्मवस्तूनीति प्रज्ञापितमिति । “क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु”
(अभि० को० ३. २६) इति वचनात् ॥ ३६ ॥
१. प्राक् ज्ञापि०—का० ।

४२७ भाष्यस्फुटार्थोसहितेऽभिधर्मकोशे [ लोक-
किमस्य बीजादिभिः साधर्म्यम् ?
तद्यथा—बीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवति, एवं क्लेशात् क्लेशकर्म-
वस्तूनाम् ।
यथा—नागाधिष्ठितं सरो न शुष्यति, एवं क्लेशानागाधिष्ठितं जन्मसरः ।
यथा च—अनपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्ति,
एवमनपोद्धृतक्लेशमूला गतयः ।
यथा च—वृक्षाः कालेन कालं पुष्पफलानां प्रसोतारो भवन्ति, एवं क्लेशा
अप्यसकृत् क्लेशकर्मवस्तूनां हेतुर्भवन्ति ।
यथा च—तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवलाः, एवं
क्लेशमाक्षतुषावनद्धं कर्म जन्मान्तरविरोरोपणे समर्थं भवति न केवलमिति । एवं
तावत् क्लेशो बीजादिवद् वेदितव्यः ॥ ३६ ॥
तुषितण्डुलवत् कर्म तथ

निर्देशः ] तृतीयं कोशस्थानम् ४९१
तस्मिन् भवचतुष्टये ॥ ३७ ॥
उपपत्तिभवः क्लिष्टः,
एकान्तेन । कतमेन क्लेशेन ?
सर्वक्लेशैः स्वभूमिकैः ।
यद्भूमिक उपपत्तिभवस्तद्भूमिकैरेव सर्वक्लेशैः । नहि स क्लेशोऽस्ति येन
प्रतिसन्धिबन्धः प्रतिषिद्ध इत्याभिधार्मिकाः । क्लेशैरेव तु, न पर्यवस्थानैः
स्वतन्त्रैः । यद्यपि सावस्था मन्दिका, यस्तु यत्राभीक्ष्णं चरित आसन्नश्च, तस्य
तदानीं स एव क्लेश उपतिष्ठते; पूर्ववेधात् ।
अन्तराभवप्रतिसन्धिरित्येवमवश्यं क्लिष्टो वेदितव्यः ।
त्रिधाऽन्ये,
अन्ये त्रयो व्यतिरिक्ताः अन्तराभवादयः कुशलक्लिष्टाव्याकृताः ।
अथैषां भवानां कतमः किंप्रतिसंयुक्तः ?
त्रय आरूप्ये,
अन्तराभवं वर्जयित्वा । न ह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नः, यस्य
प्राप्त्यर्थमन्तराभवोऽभिनिर्वर्तेत । कामरूपधात्वोरपरिसंख्यानात् सर्व एव चत्वारो
भवाः सन्तीत्यनुज्ञापितं भवति ।
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण ॥
न पर्यवस्थानैः स्वतन्त्रैरिति । ईर्ष्यामात्सर्यक्रोधम्रक्षैः स्वातन्त्र्यमेषाम् ।
अविद्याविप्रमुक्तैरन्यक्लेशैरसम्प्रयोगात्, अविद्या हि सर्वत्रैव विद्यत इति न
तत्संप्रयोगेनास्वातन्त्र्यम् । आहीक्यादिभिस्त्वन्यक्लेशसम्प्रयुक्तैः प्रतिसन्धिबन्धो
न प्रतिषिध्यते । यद्यपि सावस्था मन्दिकेति विस्तरः । यद्यपि सा मरणावस्था
मन्दिका; चित्तचैत्तसमुदाचारस्यापटुत्वात् । 'उपेक्षायां च्युतोद्भवौ' ( अभि०
को० ३.४२ ) इति वेदनामान्द्यात् । यस्तु पुद्गलो यत्र क्लेशेऽभीक्ष्णं सततं
चरितः प्रवृत्तः । आसन्नश्च मरणकालस्य पुद्गलस्य । तदानीं मरणकाले स एव
क्लेशः समुदाचरति, समुत्थाय मिथ्यादृष्ट्यादिरपि, पूर्ववेधात् पूर्वाक्षेपात्,
पूर्वाभ्यासादित्यर्थः । अथ वा—योऽसौ तदानीं क्लेश उपतिष्ठते, तस्य पूर्वं फल-
भावेन परिग्रहावेधात् आक्षेपात् स तदानीमुपतिष्ठत इति ।
कामरूपधात्वोरपरिसंख्यानात्, सर्व एव चत्वारो भवाः सन्तीति । त्रय एवा-
रूप्येषु, आरूप्येष्वेव च त्रय इत्यवधारणात् । अनयोरितरयोर्धात्वोर्भवचतुष्टयं
तु ज्ञातं भवति ।
अभि० को०.२ : ८

४९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
स्पर्शसञ्चेतनाविज्ञा आहाराः सास्रवास्त्रिषु ।
स्पर्शस्त्रिकसन्निपातः । चेतना, मनस्कर्म, विज्ञानं च सास्रवाण्येवाहाराः
त्रिष्वपि धातुषु संविद्यन्ते ।
किमर्थं नानास्रवाणि ? यस्माद् भवापोषणार्थ आहारार्थः । तानि च
भवक्षयायोत्थितानीति वैभाषिकाः । अपि तु सूत्र उक्तम्—"चत्वार इमे आहारा
भूतानां सत्त्वानां स्थितये यापनायै सम्भवैषिणां चानुग्रहाय" ( )
इति । न चैवमनास्रवा धर्मा इति नाहाराः ।
भूता हि तावत् सत्त्वा उत्पन्ना इति विज्ञायन्ते ।
अथ सम्भवैषिणः कतमे ?
मनोमयः सम्भवैषी गन्धर्वश्चान्तराभवः ॥ ४० ॥
निर्वृत्तिश्च,
अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता—१. स एव मनोनिर्वर्त-
त्वात् मनोमय उक्तः; शुक्रशोणितादिकं किञ्चिद् बाह्यमनुपादाय भावात् ।
२. सम्भवैषणशीलत्वात् सम्भवैषी । ३. गन्धर्पणाद् गन्धर्वः । ४. उपपत्त्य-
भिमुखत्वादभिनिर्वृत्तिः । "अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके
उपपद्यते" इति सूत्रपदात् ।
तथा "अस्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्"
"स्पर्शसञ्चेतनाविज्ञा" इति । विज्ञेत्यादन्तमेतत्, प्रज्ञेति यथा । विज्ञान-
मित्यर्थः । कवलीकाराहारस्त्र्यायतनात्मकत्वात् सास्रव इति सिद्धः । त्रयस्तु
स्पर्शादयः सास्रवाः अनास्रवाश्च सम्भवन्तीत्यतस्त एव विशेषिताः ।
"सास्रवाः" इति । न चैवमनास्रवा धर्मा इति । न चैवं ते भूतानां स्थितये
यापनायै सम्भवैषिणां चानुग्रहायेति ।
मनोनिर्वर्तितत्वादिति । "निर्वृत्तिः" इति । उपपत्त्यभिमुखावधारणम् । अत
एव ब्रवीति—शुक्रशोणितादिकं किञ्चिद् बाह्यमनुपादायाभावादिति । आदिशब्देन
कर्दमपुष्पादीनां ग्रहणम् । उपपत्त्यभिमुखत्वादभिनिर्वृत्तिरिति । उपपत्त्यभिमुखी
निर्वृत्तिर्जन्मास्येत्यभिनिर्वृत्तिः । सव्याबाधमिति । सदुःखम् । अव्याबाधमभिनिर्व-
र्त्येति । इदमत्र ज्ञापकम्—भवोऽभिनिर्वृत्तिरिति ।
तथास्ति पुद्गल इति

निर्देशः ] तृतीयं कोशस्थानम् ४९५
इति सूत्रे चतुष्कोटिकात्। प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वस्रोतसोऽनागामिनः ।
द्वितीयान्तरापरिनिर्वायिणः । तृतीयाऽर्हतः¹। चतुर्थ्येतानाकारान् स्थापयित्वा ।
भूता वाऽर्हन्तः सम्भवैषिण सतृष्णाः ।
अथ कत्याहाराः सत्त्वानां स्थितये ? कति सम्भवैषिणामनुग्रहाय ?
सर्वेऽप्युभयथेति वैभाषिकाः । कवलीकाराहारोऽपि हि तद्रागिणां
पुनर्भावाय संवर्तते । उक्तं हि भगवता—"चत्वार इमे आहारा रोगस्य मूलं
गण्डस्य शल्यस्य, जरामरणस्य प्रत्ययः" ( ) इति ।
अस्ति यस्योपपत्तिसंयोजनं प्रहीणं नाभिनिर्वृत्तिसंयोजनम्, अस्ति यस्याभि-
निर्वृत्तिसंयोजनं च प्रहीणमुपपत्तिसंयोजनं च, अस्ति यस्य न वाभिनिर्वृत्ति-
संयोजनं प्रहीणं नोपपत्तिसंयोजनम् । द्विधातुवीतरागस्येति । काम-रूपधातु-
वीतरागस्येति । अनागामिन इति विशेषणं पृथग्जनानामन्तराभवसंयोजनस्या-
त्यन्ताप्रहाणात् । "तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणम्" ( )
इति वचनात् । तस्य च पुनर्भावित्वात् । तत्र प्रथमा कोटिर्द्विधातुवीतरागस्या-
नागामिनः, द्वितीयान्तरापरिनिर्वायिणः, तृतीयार्हतः, चतुर्थी तदन्येनागस्मदादेः
पृथग्जनस्यार्यस्य चावीतरागस्य कामधातुवीतरागस्य रूपधातावुपपद्यमानस्य
'ति ।
भूता वार्हन्त इति । पूर्वमेवोक्तः पर्यायः । भूताः उत्पन्नाः सम्भवैषिणोऽ
न्तराभविका इति इदानीमयम्परः पर्यायः । भूता अर्हन्तस्त्रैधातुकेवीतराग
त्वात् । सम्भवैषिणः सतृष्णाः, त्रैधातुके सम्भवैषित्वात् ।
स्थितय इति । अवस्थापनाय । अनुग्रहायेति । पुनर्भावाय, सम्भवायेत्यर्थः
सर्वेऽप्युभयथेति । सर्वेऽपि चत्वार आहारा भूतानां सत्त्वानां स्थितयेऽनु
ग्रहाय च । तथा सम्भवैषिणामिति । युक्तं तावन्मनःसञ्चेतना कर्मस्वभावत्वात्
तत्प्रभावितं च विज्ञानं बीजम्; स्पर्शोऽपि तत्सम्प्रयुक्तो भवत्यनुग्रहायेति; कव
लीकारस्तु कथं सम्भवैषिणामनुग्रहायेति ? अत उच्यते—कवलीकारोऽपि हि
विस्तरः । तद्रागिणामिति । कवलीकाररागिणाम् । पुनर्भावाय संवर्त्तत इति
अस्य ज्ञापनार्थमिदं सूत्रपदमुपन्यस्यते—उक्तं हि भगवतेति विस्तरः ।
रोगादिभिः पञ्च उपादानस्कन्धा उक्ताः । तस्य रोगस्य चत्वार आहारा मूलम्
मूलं च हेतुरित्यनेन कवलीकारोऽपि तद्रागिणां पुनर्भावाय संवर्तत इति सिद्धम्
अन्ये पुनः जरामरणस्य प्रत्यय इत्येतदेवोदाहरणं ब्रुवते । अस्माज्जन्मनः परे
१. अर्हताम्—का० ।

मनःसञ्चेतनापि चेह स्थितये दृश्यते । एवं हि वर्णयन्ति—दुर्भिक्षा-
भ्याहतेन किल पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके
आसज्याश्वासितौ । तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घा-
टितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति । पुनश्च महासमुद्रे भग्नयानपात्राः
पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः, आमृश्य चैनं निराशा उपरेमुरिति ।
सङ्गीतिपर्याये चोक्तम्—महासमुद्रादौदारिकाः प्राणिनो जलात् स्थलमभिरुह्य
सिकतास्थलेऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रेऽवतरन्ति ।
तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति, यासां
तु मुष्यते तानि पूतीभवन्ति ।
तदेतन्न वर्णयन्ति सौत्रान्तिकाः—मा भूत् परकीयेणाहारेणाहार इति ।
एवं तु वर्णयन्ति—येषामण्डानां मातरमार्थ्य स्मृतिर्न मुष्यते तानि न पूती-
भवन्ति, येषां तु मुष्यते तानि पूतीभवन्ति । तस्याः स्पर्शावस्थायाः
स्मरन्तीति ।
अथ कस्माच्चत्वार एवाहाराः, ननु च सर्व एव सास्रवा धर्मा भवानां
पोषकाः ? यद्यप्येतदेवम्, तथापि प्राधान्येनोक्तम्—
इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् ।
द्वयमन्यभवाक्षेपनिर्वृत्त्यर्थं यथाक्रमम् ॥ ४१ ॥
आश्रयो हि सेन्द्रियः कायः, तस्य पुष्टये कवलीकाराहारः । आश्रिता-
श्चित्तचैत्ताः, तेषां पुष्टये स्पर्शः । अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधा-
न्यम् । मनःसञ्चेतनया पुनर्भवस्याक्षेपः । आक्षिप्तस्य पुनः कर्मपरिभाविताद्
जरामरणं व्यवस्थापितमित्यभिप्रायः । कवलीकारोऽपि भूतानां सत्त्वानामिह
स्थितय इति युक्तम्; प्रत्यक्षत्वात् । तथा सुखवेदनीयः स्पर्शो विज्ञानं चानु-
ग्राहकमित्युक्तम् ।
अथ मनःसञ्चेतना कथमिति ? अत इदमुच्यते—मनःसञ्चेतनापि चेति
विस्तरः । अत एव मनःसञ्चेतनाग्रहणेन स्पर्शविज्ञाने अपि गृहीते भवतः,
तत्सम्प्रयोगित्वात् । प्रद्रुता इति प्रसृताः । सङ्गीतिपर्याय इत्यभिधर्मशास्त्रे ।
तेषां पुष्टये स्पर्श इति । सुखवेदनीयेनानुग्रहात् । “यः कश्चिद् वेदनास्कन्धः संज्ञा-
स्कन्धः, सर्वः स स्पर्शं प्रतीत्य” इति वचनात् । मनःसञ्चेतनायाः पुनर्भवस्य

निर्देश ] तृतीयं कोशस्थानम् ४५७
विज्ञानबीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम्। अतश्चत्वार .
उक्ताः । पूर्वकौ हि द्वौ धात्रीस्थानीयौ; जातस्य पोषकत्वात् । उत्तरौ मातृ-
स्थानीयौ; जनकत्वादिति ।
यः¹ कवडीकारः सर्वः स आहारः ? स्यात् कवडीकारो नाहार इति
चतुष्कोटिकम् । प्रथमा कोटिः—य कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति
महाभूतानां च परिभेदः। द्वितीया कोटिः—त्रय आहाराः। तृतीया—यं
कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः । चतुर्थी—
एतानाकारान् स्थापयित्वा ।
एवं स्पर्शादिभिरपि यथायोगं चतुष्कोटिकानि कर्त्तव्यानि ।
आक्षेप इति । तस्याः कर्मस्वभावत्वात् । कथञ्च पुनस्तयोः पुनर्भव आक्षिप्यते ?
तदुत्पत्तिप्रत्ययपरस्परानुकूल्यावस्थानात् । कर्मपरिभाविताद् विज्ञानबीजादभि-
निर्वृत्तिरिति । बीजादिवाङ्कुरस्य पुनर्भवस्योत्पाद इत्यर्थः ।
यः कवडीकारः सर्वः स आहार इति प्रश्ने आह—स्यात् कवडीकारो नाहारः,
स्यादाहारो न कवडीकारः, स्यादुभयम्, स्यान्नोभयम् इति चतुष्कोटिकम् ।
द्वितीया कोटिस्त्रय आहारा इति । मनःसञ्चेतनास्पर्शविज्ञानानि । चतुर्थ्येताना-
कारान् स्थापयित्वेति । शब्दो दुःखवेदनासम्प्रयुक्ताश्च सर्वे चित्तचैत्ताः ।
एवं स्पर्शादिभिरपि यथायोगं चतुष्कोटिकानि कर्त्तव्यानीति । यः कश्चित्
स्पर्शः सर्वः स आहारः । स्यात् स्पर्शो नाहर इति चतुष्कोटिकम् । एवं या
काचिन्मनःसञ्चेतना सर्वा सा आहारः । स्यान्मनःसञ्चेतना नाहार इति
चतुष्कोटिकम् । तथा यत् किञ्चिद् विज्ञानं सर्वं तदाहारः । स्याद्विज्ञानं नाहार
इति चतुष्कोटिकम् । स्पर्शस्य तावत् प्रथमा कोटिः—यं स्पर्शं प्रतीत्येन्द्रियाण-
मुपचयो भवति महाभूतानां च परिभेदः, द्वितीया—त्रय आहाराः, तृतीया—यं
स्पर्शं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानाञ्च वृद्धिः, चतुर्थी—एताना-
कारान् स्थापयित्वेति । एवं यावद्विज्ञानं चतुष्कोटिकम् । प्रथमा कोटिः—
यद्विज्ञानं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां परिभेदः, द्वितीया
कोटिः—त्रय आहारा विज्ञानवर्ज्याः, तृतीया—यद्विज्ञानं प्रतीत्येन्द्रियाणा-
मुपचयो भवति महाभूतानां च वृद्धिः, चतुर्थी—एतानाकारान् स्थापयित्वा ।
१. यः कश्चित्—का० ।

' with an arch over 'व'!
Wait, look at: "चेतनावज्ञान" vs "चेतनाविज्ञान":
Ah, between 'त' and 'व':
There is 'ना' (vertical bar). Then immediately 'व'! There is NO second vertical bar!
Wait, but is the 'ा' of 'ना' also the 'ि' of 'वि'? No, that doesn't happen.
Wait, look at: "चेतनावज्ञानधर्मानित्येवं"
Wait, could it be "चेतनावज्ञान" in the print? Yes, it looks like "चेतनावज्ञान" or "चेतनाविज्ञान" where 'ि' is omitted. Let's transcribe what is there, or "चेतनावज्ञान". Wait, let me zoom in 500% on that exact spot:
Letters:
च (ca) with e-matra -> चे
त (ta)
न (na) with aa-matra -> ना
व (va)
ज्ञा (jñā)
न (na)
Yes, it clearly reads "चेतनावज्ञानधर्मानित्येवं"!

Let's check L20:
"सोऽप्याहारः; अ पाते भोजनवेलायामनुग्रहात् ।"
Wait, look at "अ पाते":
It has: 'अ' then a space, then 'पा' 'ते'.
Wait, or is it 'आ' broken into 'अ' and 'ा'?
In older typesetting, 'आ' is

।नवशः ] तृतीयं कोशस्थानम् ४९१
सोऽपि हि जिघत्सां पिपासां च^१ प्रतिहन्तुं^२ समर्थं इति । अपि तु
प्रत्येकनरकेषु मनुष्यवत् कवलीकाराहारसद्भावाद् युक्तं पाञ्चगतिकत्वम् ।
उक्तं भगवता—“यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं
भोजयेद्, यश्चैकं जम्बूषण्डगतं पृथग्जनम्; अतो दानादिदं दानं महाफलतरम्”
( ) इति ।
कोऽयं जम्बूषण्डगतो नाम पृथग्जनः ?
१. जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके । तदेतन्न युक्तम्; एकमिति
वचनात् । कश्चात्र विशेषः ? स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः
पुण्यं स्यात्, नाल्पीयसो वीतरागानिति ।
२. सन्निकृष्टो बोधिसत्त्व इत्यपरे । तदेतन्न वर्णयन्ति—‘‘बहुतरं हि
तस्मै दत्त्वा पुण्यं नार्हत्कोटिभ्यः” इति । अतो निर्वेधभागीयलाभी पृथग्जन
एषोऽभिप्रेत इति वैभाषिकाः ।
दिति । कवलीकाराहारलक्षणप्राप्तत्वात् ।
कथम् ? इत्याह—सोऽपि हि जिघत्सां पिपासां च प्रतिहन्तुं समर्थ इति ।
प्रदीप्तायष्पिण्डलक्षण आहारो जिघत्साप्रतिघाते समर्थः, कथितताम्रलक्षणः
पिपासाप्रतिघाते इति योज्यम् ।
कवलीकाराहारप्रसङ्गेनेदमुच्यते—उक्तं भगवता यश्च बाह्यकानामिति
विस्तरः। जम्बूद्वीपः = जम्बूषण्डः। तथा ह्युक्तं भगवता—“याः काश्चित् जम्बू-
षण्डात् स्रवन्त्यः सर्वाः समुद्रनिम्नाः समुद्रप्राग्भाराः” इति । तस्मिन्नवासिनो
जम्बूषण्डगताः कुक्षिमन्तो भोजनशक्त्युपेता अकललावस्था इत्यभिप्रायः।
तदेतदयुक्तमिति वचनादिति । यदि जम्बूद्वीपवासिनः कुक्षिमन्तो जम्बू-
षण्डगता इष्येरन्, यश्च जम्बूषण्डगतान् पृथग्जनानिति वक्तव्यं स्यात् । उक्तं
च—‘यश्चैकं जम्बूषण्डगतम्’ इति । तस्मादयमर्थो न घटते । कश्चात्र विशेष
इति । किमत्राश्चर्यं यद्बहून् भोजयित्वा बहु पुण्यं स्यात्, न त्वल्पीयसः शत-
मात्रान् वीतरागानित्यर्थः ।
सन्निकृष्टो बोधिसत्त्व इति । आसन्नाभिसम्बोधिः । “बोधिसत्त्वः कुतो
यावद्यतो लक्षणकर्मकृत्” ( अभि० को० ४.११० ) इत्यभिप्रायः ।
१. का० पुस्तके नास्ति । २. हन्तुं—का० ।

३. न त्वियमन्वर्था संज्ञा, नापि १ परिभाषिता सूत्रे, शास्त्रे वा। जम्बू-
षण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः । बोधिसत्त्व एव त्वेष २
जम्बूषण्डगतो २ युज्यते । स हि पृथग्जनः कामवैराग्यसम्बन्धेन तदानीं तेभ्यो
विशिष्यमाण उक्त इति । अनन्तेभ्योऽपि हि स तेभ्यो विशिष्यमाणः । शत-
ग्रहणं तु पूर्वाधिकारात् । इत्थं चैतदेवं यदेनमपास्य ३ बाह्यकेभ्य एव स्रोत-
आपत्तिफलप्रतिपन्नकं विशेषयाम्बभूव । अन्यथा हि जम्बूषण्डगतादेव व्यशेष-
यिष्यत् ॥ ४०-४१ ॥
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादः ॥
यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः ॥
न त्वियमन्वर्था संज्ञेति । नार्थानुगता, नार्थवाचकं पदमित्यर्थः । नापि परि-
भाषिता । अर्थमनपेक्ष्य । बोधिसत्त्व एव त्वेष जम्बूषण्डगत इति । कृषिग्रामकं
व्यवलोकनाय निर्गतः सर्वार्थसिद्धो बोधिसत्त्वो जम्बूवृक्षमूले निषण्णः प्रथमं
ध्यानमुत्पादितवान् । अत आह—स हि पृथग्जनः कामवैराग्यसम्बन्धेनेति । स
चापि हि बोधिसत्त्वः पृथग्जनः कामवीतरागश्च, बाह्यकाश्च तथैव कामवीत-
रागाः पृथग्जनाश्च; अनेन सम्बन्धेन तेभ्यो बाह्यकेभ्यो बहुतेरेण दानफलेन
विशिष्यमाण इत्येवमुक्तः । स तेभ्यो बाह्यकेभ्योऽनन्तेभ्यो विशिष्यमाणो
“बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा” इति वचनात् । शतग्रहणं तु
पूर्वाधिकारादिति । तत्रैव सूत्रे शताधिकारोऽधिकृतः । “यश्च तिर्यग्योनिगतानां
शताय दानं दद्यात्, यश्चैकस्मै दुःशीलाय मनुष्यभूताय दानं दद्यात्, ततः
शतगुणो विपाकः प्रतिकांक्षितव्यः । यावद् यश्च बाह्यकानाम्” इति विस्तरः ।
इत्थं चैतदेवमिति । इत्थं चैतदेव बोधिसत्त्व एव त्वेष जम्बूषण्डे निषण्णो युज्यत
इति । यदेनं बोधिसत्त्वमपास्य । बाह्यकेभ्य एव स्रोतआपत्तिफलप्रतिपन्नकं विशे-
षयाम्बभूवेति । बाह्यकेभ्यो वीतरागेभ्यः स्रोतआपत्तिफलप्रतिपन्नकाय दानम-
प्रमेयतरम्, स्रोतआपन्नाय ततोऽप्रमेयतरम्, सकृदागामिफलप्रतिपन्नकायेति
विस्तरः । यदि निर्वेधभागी जम्बूषण्डगतोऽभविष्यद् जम्बूषण्डगतादेव व्यशेष-
यिष्यत् । कथम् ? यश्च जम्बूषण्डगतानां शतं भोजयेद् यश्चैकं स्रोतआपत्ति-
फलसाक्षात्क्रियायै प्रतिपन्नकम्, अतो दानादिदं महाफलतरमिति । न त्वेवम् ।
स्रोतआपत्तिफलप्रतिपन्नकादिभ्यो विशिष्टतरत्वादतो बोधिसत्त्व एव त्वेष जम्बू-
१. नापि क्वचित्—का० । २-२. त्वेषु जम्बुद्वीपषण्डेषु निषिण्णो—का० ।
३. यदेनं पर्युदस्य—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ५०१
इदमीदानीं वक्तव्यम्—कतमस्मिन् विज्ञाने वर्त्तमाने च्युत्युपपत्ती भवतः ?
इत्याह—
छेद-सन्धान-वैराग्य-हानि-च्युत्युपपत्तयः
मनोविज्ञान एवेष्टाः,
कुशलमूलसमुच्छेदः, कुशलमूलप्रतिसन्धानम्, धातुभूमिवैराग्यम्, परि-
हाणिः, च्युतिः, उपपत्तिश्च—एते षड् धर्मा मनोविज्ञान एवेष्यन्ते, नान्यत्र ।
उपपत्तिवचनादन्तराभवप्रतिसन्धिरप्युक्तरूपो वेदितव्यः ।
वेदनायां तु—
उपेक्षायां च्युतोद्भवौ ॥ ४२ ॥
च्युतिरेव च्युतम् । उपपत्तिः = उद्भवः । एतावदुःखासुखायां वेदनायां
भवतः, तस्या अपटुत्वात्। इतरे हि वेदने पट्व्यौ । न च षड्विज्ञाने च्युत्युपपत्ती
युज्येते ॥ ४२ ॥
तत्रापि च मनोविज्ञानेऽपि—
नैकाग्राचित्तयोरेतौ,
‘च्युतोद्भवौ’ इति वर्तते । न हि समाहितचित्तस्यास्ति च्युतिः, उपपत्तिर्वा;
षण्डगतो युज्यते । आयुःक्षयादिभिरिति । अस्यायुःक्षयान्मरणं न पुण्यक्षयाद्,
अस्ति पुण्यक्षयान्नायुःक्षयादित्यादि ॥ ४०-४१ ॥
छेदसन्धानवैराग्य इति विस्तरः । कुशलमूलसमुच्छेदो मिथ्यादृष्ट्या । सा च
मानस्येव; सन्तीरकत्वात् । कुशलमूलप्रतिसन्धानं सम्यग्दृष्ट्या विचिकित्सया वा,
ते च मानस्यौ । धातुभूमिवैराग्यम् । धातुभूमितो वा वैराग्यं मनोविज्ञान एव,
समाहित एव चित्ते लभ्यत्वात् । परिहाणिरयोनिशोमनसिकारप्रवर्तिता ।
मनोविज्ञानेन चायोनिशोमनसिकारो विकल्प इति । च्युतिः संक्षिप्तपञ्चेन्द्रिय-
गोचरस्य प्रवाहच्छेदानुकूले विज्ञाने भवति । उपपत्तिरपि विपर्यस्तमतेर्भवतीति
मनोविज्ञान एव युज्यते । अन्तराभवप्रतिसन्धिरप्युक्तरूप इति । प्रतिसन्धिसाम्या-
दनुक्तोऽप्युक्तकल्प इति नोच्यत इत्यभिप्रायः ।
च्युतिरेव च्युतम् । एकार्थतां दर्शयति; भावे क्तोत्पन्नत्वात् । इतरे हि
वेदने पट्व्याविति । सुखदुःखे ॥ ४२ ॥

विसभागभूमिकत्वाद्, आभिसंस्कारिकत्वाद्, अनुग्राहकत्वाच्च ।
नाप्यचित्तकस्य१ सा, न ह्यचित्तक उपक्रन्तुं२ शक्येत । यदा चास्याश्रयो
विपरिणन्तुमारभेत, तदानीमवश्यमस्य३ तदाश्रयप्रतिबद्धं चित्तं सम्मुखीभूय पश्चात्
प्रच्यवेत, नान्यथा ।
उपपत्तौ च चित्तच्छेदहेत्वभावाद्, विना च क्लेशेनानुपपत्तेरयुक्तम-
चित्तकत्वम् ।
विसभागभूमिकत्वादिति । समाहितं चित्तं समाहितभूमिकत्वाद् विसभागं
कामधातोः । अतः च्युतिचित्तमुपपत्तिचित्तं वा न युज्यते । यदा तर्हि रूपधाता-
वेव म्रियते उपपद्यते वा, तदा समाहितभूमिकं चित्तं तद् भविष्यति ? इत्यत
आह—आभिसंस्कारिकत्वादिति । अभिसंस्कारो यत्नः, अभिसंस्कारेण निर्वृत्त-
माभिसंस्कारिकम्, तद्भावः, तस्मात् । न तदाभिसंस्कारिकं च्युतिचित्तमुपपत्ति-
चित्तं वा युज्यते; मरणावस्थाया अपटुत्वात् । अनुग्राहकत्वाच्च । यस्माच्च समा-
हितं चित्तमनुग्राहकं न छेदस्यानुकूलम्, अतोऽपि समाहितचित्तस्य च्युतिर्नास्ति ।
नाप्यचित्तकस्येति विस्तरः । नाप्यचित्तकस्य । किम् ? च्युतिरूपपत्तिर्वेति
प्रकृतम् । अचित्तको निरोधसमापत्तिसमापन्नोऽसंज्ञिसमापत्तिसमापन्नस्तद्विपाके
वावस्थितः । सोऽचित्तक उपक्रन्तुं मारयितुं न शक्यते शस्त्रादिभिः । अतो
नाचित्तकस्यास्ति च्युतिः । यदा चास्याश्रयो विपरिणन्तुमारभेतेति । शस्त्रेनाग्निना
वोपक्रमान्निरोधसमापत्तिमसंज्ञिसमापत्तिं वा समापन्नस्यासंज्ञिसमापत्तेर्विपाके
स्थितस्य विपाकावेधसमाप्तेरवश्यमस्य तदानीमाश्रयप्रतिबद्धं चित्तमाश्रये बीज-
भावेनास्ति । तत् सम्मुखीभूय पश्चात् प्रच्यवेत । कः प्रच्यवेत ? पुद्गलः । यदि
पुद्गलोऽधिक्रियेत, असमानकर्तृकत्वात् क्त्वाविधिर्न प्राप्नोति ? चित्तं तर्हि
प्रच्यवेत ।
अथवैवमभिसम्बन्धः—यदा चाश्रयो विपरिणन्तुमन्यथात्वमापत्तुमारभेत,
अवश्यमस्य पुद्गलस्य तदाश्रयप्रतिबद्धं बीजभावेनावस्थितं चित्तं सम्मुखीभूय
समुदाचर्य परिणन्तुमारभेत । पश्चात् प्रच्यवेत पुद्गल इति ।
अथ वा—सम्मुखीभूयेति सम्मुखीभाव्येत्यर्थे णिलोपात् । "अस्ति पर्णरुहो
वातः, अस्ति पर्णमुखोऽपरः" इति यथा ।
उपपत्तौ त्वयुक्तम्, अचित्तकत्वात् । कस्मात् ? चित्तच्छेदहेत्वभावात् । अवश्यं
किलैष्टतया प्रतिसन्धिचित्तस्य निरोधसमापत्त्याद्यसम्भवात् । विना च क्लेशेनानुप-
१. नाप्यचित्तस्य—का० । २. उपक्रमितुं—का० ।
३. तदावश्य०—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ५०३
मरणभवस्त्रिप्रकार इत्युक्तम् । अर्हंस्तु—
निर्वृत्यव्याकृतद्वये ।
ऐर्यापथि के, विपाकचित्ते वा । अस्ति चेत्, कामधातौ विपाक उपेक्षा ।
नास्ति चेत्, ऐर्यापथिक एव ।
किमर्थमव्याकृत एव नान्यस्मिन् ? तद्धि चित्तच्छेदानुकूलम् ; दुर्बलत्वात् ।
अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते ? सकृन्मरणे
समनस्कं कायेन्द्रियं सहसाऽन्तर्धीयते । यदि तु क्रमेण च्यवते, ततः—
क्रमच्युतौ पादनाभिहृत्प्रदेशे मनश्च्युतिः ॥ ४३ ॥
अधोनृसुरगतानां, ·
अधो गच्छन्तीत्यधोगाः, अपायगामिनः । नॄन् गच्छन्तीति नृगाः, मनुष्य-
गामिनः । सुरान् गच्छन्तीति सुरगाः, देवगामिनः । तेषां यथासंख्यं पादयोर्नाभ्यां
पत्तेः ।

५०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
हृदये च विज्ञानं संनिरुध्यते । न पुनर्जायन्त इत्यजाः, अर्हन्तः । तेषामपि हृदये
विज्ञानं निरुध्यते । मूर्तीत्यपरे । कायेन्द्रियस्य तेषु निरोधात् । कायेन्द्रियं हि
म्रियमाणस्य तप्त इवोपले जलं निष्प्यूतं सङ्कोचमापद्यमानं पादादिष्वन्तर्धीयत इति ।
एवं च पुनः क्रमेण मरणं प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां
जायते—
मर्मच्छेदस्त्वब्वादिभिः ।
शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति । ते ह्येतेदुच्यन्ते मर्मा-
णीति । तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसम्पातस्य-
र्धिनाडीतीव्राभिर्वेदनाभिः छिद्यन्त इव । न तु¹ पुनस्तानि काष्ठवच्छिद्यन्ते²,
छिन्नवद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते ।
कस्मान्न पृथिवीधातुना ? चतुर्थदोषाभावात् । वातपित्तश्लेष्माणो हि
त्रयो दोषाः । ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति ।
भाजनलोकसंवर्तनीसाधर्म्येणेत्यपरे ।
मनुष्यगामिनाम्, हृदये देवगामिनाम् । अरूपित्वाददेशस्थं विज्ञानं कथं तेषु
निरुध्यत इति ? अत आह— कायेन्द्रियस्य तेषु निरोधादिति । तेषु पादादिषु ।
कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानमिति । तेषामपि हृदये
विज्ञानं निरुध्यत इति । यथासंख्यनिर्देशादेवायमर्थो लभ्यते । कथम् ? हृदयं
च हृदयं च हृदये, पादश्च नाभिश्च हृदये चेति पादनाभिहृदयानीति
चत्वारोऽर्थाः ॥ ४३ ॥
अधोगश्च, नृगश्च, सुरगश्च, अजगश्च—इत्येतेऽपि चत्वारोऽर्थाः । तेन यथा-
संख्यसिद्धिः ।
प्रायेणेति ग्रहणं देवादीनां सुखमृत्युत्वात् । न तु पुनस्तानि काष्ठवच्छिद्यन्ते ।
किं तर्हीति ? तीव्राभिर्वेदनाभिश्चिद्यन्त इवेति । छिन्नवद्वा न पुनश्चेष्टन्त इति
छिन्नानीत्युच्यन्त इति । च्छिन्नाङ्गप्रत्यङ्गवत्, न पुनश्चेष्टन्त इति छिन्नानीत्यु-
च्यन्ते । सैषा काल्पनिकी; छेदवृत्तिमर्मणा द्विधाभावाकरणात् ।
अप्तेजोवायूनामन्यतमेनेत्युक्ते पृच्छति—कस्मान्न पृथिवीधातुनेति । अप्तेजो-
वायुधातुप्रधाना यथायोगमिति । यथासम्भवम् । अब्धातुप्रधानः श्लेष्मा, तेजो-
धातुप्रधानं पित्तम्, वायुधातुप्रधानो वायुशेष इति । भाजनलोकसंवर्तनीसाधर्म्येणे-
१. च—का० । २. काष्ठादिव०—का० ।

निर्देशः ] तृतीयं कोशस्थानम् ५०५
देवेषु नास्ति मर्मच्छेदः । किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमि-
त्तानि प्रादुर्भवन्ति—वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति, शरीरप्रभा
मन्दीभवति, स्नातस्योदबिन्दवः काये सन्तिष्ठन्ते, चपलात्मनोऽप्येकत्र विषये
बुद्धिरवतिष्ठते, उन्मेषनिमेषौ चाक्ष्णोः सम्भवतः । एतानि तु व्यभिचारीणि ।
पञ्च पुनर्निमित्तानि मरणं नातिवर्तन्ते—वासांसि क्लिश्यन्ति, माला म्लायन्ति,
कक्षाभ्यां स्वेदो मुच्यते, दौर्गन्ध्यं कायेऽवक्रामति, स्वे चासने देवपुत्रो
नाभिरमते ।
सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमानश्च त्रिषु राशिषु स्थापितो
भगवता । त्रयो राशयः—सम्यक्त्वनियतो राशिः, मिथ्यात्वनियतो राशिः,
अनियतो राशिरिति । तत्र पुनः—
सम्यङ्मिथ्यात्वनियता आर्यान्तर्यकारिणः ॥ ४४ ॥
"सम्यक्त्वं कतमत् ? यत्तत् पर्यादाय रागप्रहाणम्, पर्यादाय द्वेषप्रहाणम्,
पर्यादाय मोहप्रहाणम्, पर्यादाय सर्वक्लेशप्रहाणम्—इदमुच्यते सम्यक्त्वम्"
( ) इति सूत्रम् ।
आर्याः कतमे ? येषामनास्रवो मार्ग उत्पन्नः । आराद् याताः पापकेभ्यो
धर्मेभ्य इत्यार्याः, आत्यन्तिकविसंयोगप्राप्तिलाभात् । एते हि क्लेशक्षये निय-
तत्वात् सम्यक्त्वनियताः मोक्षभागीयलाभिनोऽप्यवश्यं परिनिर्वाणधर्माण इति ।
कस्मान्न सम्यक्त्वे नियताः ? ते हि मिथ्यात्वेऽपि नियता भवेयुः । न च ते
कालनियमेन सम्यक्त्वे नियताः, यथा सप्तकृत्वः परमादयः ।
त्यपरे इति । तिस्रो भाजनसंवर्त्तन्यः—अप्संवर्त्तनी, तेजःसंवर्त्तनी, वायु-
संवर्त्तनी च । तासां च साधर्म्येण अप्तेजोवायुधातूनामन्यतमेनेति विस्तरे-
णोक्तमिति ।
कथमाराद्याताः ? आत्यन्तिकविसंयोगप्राप्तिलाभात् । पृथग्जनानां त्वस्ति
विसंयोगप्राप्तिलाभः, न त्वात्यन्तिक इति ते नाराद् याता एवेति । ते हि
मिथ्यात्वेऽपि नियता भवेयुरिति : यद्यानन्तर्याणि कुर्युुरित्यर्थः । न च त इति
विस्तरः । न च ते मोक्षभागीयलाभिनः कालनियमेन सम्यक्त्वे नियताः । यथा
सप्तकृत्वः परमादयः । आदिशब्देन कूलंकुलैकवीचिकादयो गृह्यन्ते । काल-
नियमश्चैषां पुद्गलनिर्देशे वक्ष्यते ।

५०६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
मिथ्यात्वं कतमत् ? नरकाः, प्रेताः, तिर्यञ्चः—इदमुच्यते मिथ्यात्वम् ।
तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः । नियतेभ्योऽन्येऽनियता
इति सिद्धम् । प्रत्ययापेक्षं हि तेषामुभयभाक्त्वम्, अनुभयभाक्त्वं च ॥ ४४ ॥
उक्तः सत्त्वलोकः ॥
भाजनलोक इदानीं वक्तव्यः—
तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः ।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ४५ ॥
त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति । यदुताकाशप्रतिष्ठ-
मधस्ताद् वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् । कर्माधिपत्येन तस्य योजन-
लक्षाणां षोडशकमुद्वेधः, परिणाहेनासंख्यम्, तथा च दृढं यन्महानग्नोऽपि
वज्रेण भेत्तुमशक्तः ॥ ४५ ॥
तस्योपरिष्टात्—
अपामेकादशोद्वेधं सहस्राणि च विंशतिः ।
‘मण्डलम्’ इति वर्तते । तस्मिन् वायुमण्डले सत्त्वानां कर्मभिर्मेघाः सम्भूयाक्ष-
मात्राभिर्धाराभिरभिवर्षन्ति । तद् भवति अपां मण्डलम् । तस्य योजनानामेका-
दशलक्षान्यूर्ध्वं, अधो विंशतिश्च सहस्राणि ।
कथं ता आपो न तिर्यग्विस्स्रवन्ति ?
सत्त्वानां कर्माधिपत्येन । यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वा-
शयमपततीत्येके ।
नियतेभ्यो द्वयेभ्य । एभ्योऽन्येऽनियताः । प्रत्ययापेक्षं हीति विस्तरः । यदि
सम्यक्त्वे प्रत्ययं लभन्ते, सम्यक्त्वे नियताः । अथ मिथ्यात्वे, मिथ्यात्वे
नियताः । अथोभयस्मिन्न प्रत्ययं लभन्ते अनुभयभाक्त्वेऽपि ॥ ४४ ॥
उक्तः सत्त्वलोकः । विद्यादिक्रमनिर्देशेन ॥
“उशन्ति” इच्छन्तीत्यर्थः । “लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम्”
लक्षषोडशकं वेधनभावेन । परिणाहेनासंख्यमिति । समन्[तादसंख्य]मित्यर्थः ॥ ४५ ॥
कर्माधिपत्येन कर्मसामर्थ्येन । तत्र निदर्शनम्—यथा भुक्तं पीतं चान्नं पानं
च यथासंख्येन नापक्वं पक्वाशयं पतति । पक्वमेव स पक्वस्थानं गच्छतीत्यर्थः ।