सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 516, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 516

निर्देश ] तृतीयं कोशस्थानम् ४५७
विज्ञानबीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम्। अतश्चत्वार .
उक्ताः । पूर्वकौ हि द्वौ धात्रीस्थानीयौ; जातस्य पोषकत्वात् । उत्तरौ मातृ-
स्थानीयौ; जनकत्वादिति ।
यः¹ कवडीकारः सर्वः स आहारः ? स्यात् कवडीकारो नाहार इति
चतुष्कोटिकम् । प्रथमा कोटिः—य कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति
महाभूतानां च परिभेदः। द्वितीया कोटिः—त्रय आहाराः। तृतीया—यं
कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः । चतुर्थी—
एतानाकारान् स्थापयित्वा ।
एवं स्पर्शादिभिरपि यथायोगं चतुष्कोटिकानि कर्त्तव्यानि ।
आक्षेप इति । तस्याः कर्मस्वभावत्वात् । कथञ्च पुनस्तयोः पुनर्भव आक्षिप्यते ?
तदुत्पत्तिप्रत्ययपरस्परानुकूल्यावस्थानात् । कर्मपरिभाविताद् विज्ञानबीजादभि-
निर्वृत्तिरिति । बीजादिवाङ्कुरस्य पुनर्भवस्योत्पाद इत्यर्थः ।
यः कवडीकारः सर्वः स आहार इति प्रश्ने आह—स्यात् कवडीकारो नाहारः,
स्यादाहारो न कवडीकारः, स्यादुभयम्, स्यान्नोभयम् इति चतुष्कोटिकम् ।
द्वितीया कोटिस्त्रय आहारा इति । मनःसञ्चेतनास्पर्शविज्ञानानि । चतुर्थ्येताना-
कारान् स्थापयित्वेति । शब्दो दुःखवेदनासम्प्रयुक्ताश्च सर्वे चित्तचैत्ताः ।
एवं स्पर्शादिभिरपि यथायोगं चतुष्कोटिकानि कर्त्तव्यानीति । यः कश्चित्
स्पर्शः सर्वः स आहारः । स्यात् स्पर्शो नाहर इति चतुष्कोटिकम् । एवं या
काचिन्मनःसञ्चेतना सर्वा सा आहारः । स्यान्मनःसञ्चेतना नाहार इति
चतुष्कोटिकम् । तथा यत् किञ्चिद् विज्ञानं सर्वं तदाहारः । स्याद्विज्ञानं नाहार
इति चतुष्कोटिकम् । स्पर्शस्य तावत् प्रथमा कोटिः—यं स्पर्शं प्रतीत्येन्द्रियाण-
मुपचयो भवति महाभूतानां च परिभेदः, द्वितीया—त्रय आहाराः, तृतीया—यं
स्पर्शं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानाञ्च वृद्धिः, चतुर्थी—एताना-
कारान् स्थापयित्वेति । एवं यावद्विज्ञानं चतुष्कोटिकम् । प्रथमा कोटिः—
यद्विज्ञानं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां परिभेदः, द्वितीया
कोटिः—त्रय आहारा विज्ञानवर्ज्याः, तृतीया—यद्विज्ञानं प्रतीत्येन्द्रियाणा-
मुपचयो भवति महाभूतानां च वृद्धिः, चतुर्थी—एतानाकारान् स्थापयित्वा ।
१. यः कश्चित्—का० ।