अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 512, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ४९१
तस्मिन् भवचतुष्टये ॥ ३७ ॥
उपपत्तिभवः क्लिष्टः,
एकान्तेन । कतमेन क्लेशेन ?
सर्वक्लेशैः स्वभूमिकैः ।
यद्भूमिक उपपत्तिभवस्तद्भूमिकैरेव सर्वक्लेशैः । नहि स क्लेशोऽस्ति येन
प्रतिसन्धिबन्धः प्रतिषिद्ध इत्याभिधार्मिकाः । क्लेशैरेव तु, न पर्यवस्थानैः
स्वतन्त्रैः । यद्यपि सावस्था मन्दिका, यस्तु यत्राभीक्ष्णं चरित आसन्नश्च, तस्य
तदानीं स एव क्लेश उपतिष्ठते; पूर्ववेधात् ।
अन्तराभवप्रतिसन्धिरित्येवमवश्यं क्लिष्टो वेदितव्यः ।
त्रिधाऽन्ये,
अन्ये त्रयो व्यतिरिक्ताः अन्तराभवादयः कुशलक्लिष्टाव्याकृताः ।
अथैषां भवानां कतमः किंप्रतिसंयुक्तः ?
त्रय आरूप्ये,
अन्तराभवं वर्जयित्वा । न ह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नः, यस्य
प्राप्त्यर्थमन्तराभवोऽभिनिर्वर्तेत । कामरूपधात्वोरपरिसंख्यानात् सर्व एव चत्वारो
भवाः सन्तीत्यनुज्ञापितं भवति ।
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण ॥
न पर्यवस्थानैः स्वतन्त्रैरिति । ईर्ष्यामात्सर्यक्रोधम्रक्षैः स्वातन्त्र्यमेषाम् ।
अविद्याविप्रमुक्तैरन्यक्लेशैरसम्प्रयोगात्, अविद्या हि सर्वत्रैव विद्यत इति न
तत्संप्रयोगेनास्वातन्त्र्यम् । आहीक्यादिभिस्त्वन्यक्लेशसम्प्रयुक्तैः प्रतिसन्धिबन्धो
न प्रतिषिध्यते । यद्यपि सावस्था मन्दिकेति विस्तरः । यद्यपि सा मरणावस्था
मन्दिका; चित्तचैत्तसमुदाचारस्यापटुत्वात् । 'उपेक्षायां च्युतोद्भवौ' ( अभि०
को० ३.४२ ) इति वेदनामान्द्यात् । यस्तु पुद्गलो यत्र क्लेशेऽभीक्ष्णं सततं
चरितः प्रवृत्तः । आसन्नश्च मरणकालस्य पुद्गलस्य । तदानीं मरणकाले स एव
क्लेशः समुदाचरति, समुत्थाय मिथ्यादृष्ट्यादिरपि, पूर्ववेधात् पूर्वाक्षेपात्,
पूर्वाभ्यासादित्यर्थः । अथ वा—योऽसौ तदानीं क्लेश उपतिष्ठते, तस्य पूर्वं फल-
भावेन परिग्रहावेधात् आक्षेपात् स तदानीमुपतिष्ठत इति ।
कामरूपधात्वोरपरिसंख्यानात्, सर्व एव चत्वारो भवाः सन्तीति । त्रय एवा-
रूप्येषु, आरूप्येष्वेव च त्रय इत्यवधारणात् । अनयोरितरयोर्धात्वोर्भवचतुष्टयं
तु ज्ञातं भवति ।
अभि० को०.२ : ८