सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 510, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 510

निर्देशः ] तृतीयं कोशस्थानम् ४८९
पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति गार्हनैष्क्रम्या-
श्रितभेदेन; तद्भेदस्य शास्त्रा गमितत्वात् । तत्र गार्हाश्रिताः क्लिष्टाः, नैष्क्रम्या-
श्रिताः कुशलाः ।
एवमेतद् वेदनारूयं भवाङ्गमनेकप्रकारमेदं वेदितव्यम् ॥ ३५ ॥
शेषाण्यङ्गानि पुनर्नोच्यन्ते । किं कारणम् ? यस्मात्
उक्तं च, वक्ष्यते चान्यत्,
किञ्चिदत्राङ्गमुक्तम्, किञ्चित् पश्चाद् वक्ष्यते । तत्र विज्ञानं तावदुक्तम्—
“विज्ञानं प्रतिविज्ञप्तिर्मनायतनं च तत्” (अभि० को० १.१६) इति ।
षडायतनमप्युक्तम्—
“तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः” (अभि० को० १.९) इति ।
संस्काराः, भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते । तृष्णोपादानानि
क्लेशकोशस्थाने ।
स चैष प्रतीत्यसमुत्पादः समासतः क्लेश-कर्म-वस्तूनीति प्रज्ञापितम्¹ ।
अत्र तु क्लेश इष्यते ।
बीजवन्नागवन्मूलवृक्षवत् तुषवत् तथा ॥ ३६ ॥
अतश्चैतदेवं यदुपेक्षोपविचाराणामुपेक्षोपविचारानैव प्रहाणाय संनिश्रयत्वेन
दिदेश भगवान्—'द्वे भिक्षव उपेक्षे' इत्यादिवचनात् ।
ननु च गार्हाश्रितनैष्क्रम्याश्रितभेदेन षट्त्रिंशच्छास्तृपदानीति वचनात्
सिद्धमेषां सांकलेशिकव्यवदानिकत्वं वैभाषिकमतानुसारान् ? अदोषः; आचार्य-
स्यापि मनोपविचारव्यतिरिक्तास्तत्र सौमनस्यादयः सन्ति ।
पुनस्त एवेति विस्तरः । त एवाष्टादशोपविचाराः केचिद् भवाश्रिता अभि-
ष्वङ्गाश्रिताः, केचिन्निष्क्रम्याश्रिताः । नैष्क्रम्यम् = निष्क्रमभावः संक्लेशात्
संसारदुःखाद् वा । गार्हनैष्क्रम्याश्रितभेदेन द्वावष्टादशकौ षट्त्रिंशच्छास्तृपदानि ।
तद्भेदस्य तेषां मनोपविचाराणां द्विधाभेदस्य । शास्त्रा बुद्धेन । गमितत्वाद्
देशितत्वाद् यथासूत्रम् ॥ ३५ ॥
क्लेशकर्मवस्तूनीति प्रज्ञापितमिति । “क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु”
(अभि० को० ३. २६) इति वचनात् ॥ ३६ ॥
१. प्राक् ज्ञापि०—का० ।