सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 518, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 518

।नवशः ] तृतीयं कोशस्थानम् ४९१
सोऽपि हि जिघत्सां पिपासां च^१ प्रतिहन्तुं^२ समर्थं इति । अपि तु
प्रत्येकनरकेषु मनुष्यवत् कवलीकाराहारसद्भावाद् युक्तं पाञ्चगतिकत्वम् ।
उक्तं भगवता—“यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं
भोजयेद्, यश्चैकं जम्बूषण्डगतं पृथग्जनम्; अतो दानादिदं दानं महाफलतरम्”
( ) इति ।
कोऽयं जम्बूषण्डगतो नाम पृथग्जनः ?
१. जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके । तदेतन्न युक्तम्; एकमिति
वचनात् । कश्चात्र विशेषः ? स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः
पुण्यं स्यात्, नाल्पीयसो वीतरागानिति ।
२. सन्निकृष्टो बोधिसत्त्व इत्यपरे । तदेतन्न वर्णयन्ति—‘‘बहुतरं हि
तस्मै दत्त्वा पुण्यं नार्हत्कोटिभ्यः” इति । अतो निर्वेधभागीयलाभी पृथग्जन
एषोऽभिप्रेत इति वैभाषिकाः ।
दिति । कवलीकाराहारलक्षणप्राप्तत्वात् ।
कथम् ? इत्याह—सोऽपि हि जिघत्सां पिपासां च प्रतिहन्तुं समर्थ इति ।
प्रदीप्तायष्पिण्डलक्षण आहारो जिघत्साप्रतिघाते समर्थः, कथितताम्रलक्षणः
पिपासाप्रतिघाते इति योज्यम् ।
कवलीकाराहारप्रसङ्गेनेदमुच्यते—उक्तं भगवता यश्च बाह्यकानामिति
विस्तरः। जम्बूद्वीपः = जम्बूषण्डः। तथा ह्युक्तं भगवता—“याः काश्चित् जम्बू-
षण्डात् स्रवन्त्यः सर्वाः समुद्रनिम्नाः समुद्रप्राग्भाराः” इति । तस्मिन्नवासिनो
जम्बूषण्डगताः कुक्षिमन्तो भोजनशक्त्युपेता अकललावस्था इत्यभिप्रायः।
तदेतदयुक्तमिति वचनादिति । यदि जम्बूद्वीपवासिनः कुक्षिमन्तो जम्बू-
षण्डगता इष्येरन्, यश्च जम्बूषण्डगतान् पृथग्जनानिति वक्तव्यं स्यात् । उक्तं
च—‘यश्चैकं जम्बूषण्डगतम्’ इति । तस्मादयमर्थो न घटते । कश्चात्र विशेष
इति । किमत्राश्चर्यं यद्बहून् भोजयित्वा बहु पुण्यं स्यात्, न त्वल्पीयसः शत-
मात्रान् वीतरागानित्यर्थः ।
सन्निकृष्टो बोधिसत्त्व इति । आसन्नाभिसम्बोधिः । “बोधिसत्त्वः कुतो
यावद्यतो लक्षणकर्मकृत्” ( अभि० को० ४.११० ) इत्यभिप्रायः ।
१. का० पुस्तके नास्ति । २. हन्तुं—का० ।