अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 523, कुल 1258 में से
संदर्भ में पढ़ें५०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
हृदये च विज्ञानं संनिरुध्यते । न पुनर्जायन्त इत्यजाः, अर्हन्तः । तेषामपि हृदये
विज्ञानं निरुध्यते । मूर्तीत्यपरे । कायेन्द्रियस्य तेषु निरोधात् । कायेन्द्रियं हि
म्रियमाणस्य तप्त इवोपले जलं निष्प्यूतं सङ्कोचमापद्यमानं पादादिष्वन्तर्धीयत इति ।
एवं च पुनः क्रमेण मरणं प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां
जायते—
मर्मच्छेदस्त्वब्वादिभिः ।
शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति । ते ह्येतेदुच्यन्ते मर्मा-
णीति । तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसम्पातस्य-
र्धिनाडीतीव्राभिर्वेदनाभिः छिद्यन्त इव । न तु¹ पुनस्तानि काष्ठवच्छिद्यन्ते²,
छिन्नवद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते ।
कस्मान्न पृथिवीधातुना ? चतुर्थदोषाभावात् । वातपित्तश्लेष्माणो हि
त्रयो दोषाः । ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति ।
भाजनलोकसंवर्तनीसाधर्म्येणेत्यपरे ।
मनुष्यगामिनाम्, हृदये देवगामिनाम् । अरूपित्वाददेशस्थं विज्ञानं कथं तेषु
निरुध्यत इति ? अत आह— कायेन्द्रियस्य तेषु निरोधादिति । तेषु पादादिषु ।
कायेन्द्रियप्रतिबद्धवृत्ति हि कामधातौ रूपधातौ च विज्ञानमिति । तेषामपि हृदये
विज्ञानं निरुध्यत इति । यथासंख्यनिर्देशादेवायमर्थो लभ्यते । कथम् ? हृदयं
च हृदयं च हृदये, पादश्च नाभिश्च हृदये चेति पादनाभिहृदयानीति
चत्वारोऽर्थाः ॥ ४३ ॥
अधोगश्च, नृगश्च, सुरगश्च, अजगश्च—इत्येतेऽपि चत्वारोऽर्थाः । तेन यथा-
संख्यसिद्धिः ।
प्रायेणेति ग्रहणं देवादीनां सुखमृत्युत्वात् । न तु पुनस्तानि काष्ठवच्छिद्यन्ते ।
किं तर्हीति ? तीव्राभिर्वेदनाभिश्चिद्यन्त इवेति । छिन्नवद्वा न पुनश्चेष्टन्त इति
छिन्नानीत्युच्यन्त इति । च्छिन्नाङ्गप्रत्यङ्गवत्, न पुनश्चेष्टन्त इति छिन्नानीत्यु-
च्यन्ते । सैषा काल्पनिकी; छेदवृत्तिमर्मणा द्विधाभावाकरणात् ।
अप्तेजोवायूनामन्यतमेनेत्युक्ते पृच्छति—कस्मान्न पृथिवीधातुनेति । अप्तेजो-
वायुधातुप्रधाना यथायोगमिति । यथासम्भवम् । अब्धातुप्रधानः श्लेष्मा, तेजो-
धातुप्रधानं पित्तम्, वायुधातुप्रधानो वायुशेष इति । भाजनलोकसंवर्तनीसाधर्म्येणे-
१. च—का० । २. काष्ठादिव०—का० ।