सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 513, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 513

४९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
स्पर्शसञ्चेतनाविज्ञा आहाराः सास्रवास्त्रिषु ।
स्पर्शस्त्रिकसन्निपातः । चेतना, मनस्कर्म, विज्ञानं च सास्रवाण्येवाहाराः
त्रिष्वपि धातुषु संविद्यन्ते ।
किमर्थं नानास्रवाणि ? यस्माद् भवापोषणार्थ आहारार्थः । तानि च
भवक्षयायोत्थितानीति वैभाषिकाः । अपि तु सूत्र उक्तम्—"चत्वार इमे आहारा
भूतानां सत्त्वानां स्थितये यापनायै सम्भवैषिणां चानुग्रहाय" ( )
इति । न चैवमनास्रवा धर्मा इति नाहाराः ।
भूता हि तावत् सत्त्वा उत्पन्ना इति विज्ञायन्ते ।
अथ सम्भवैषिणः कतमे ?
मनोमयः सम्भवैषी गन्धर्वश्चान्तराभवः ॥ ४० ॥
निर्वृत्तिश्च,
अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता—१. स एव मनोनिर्वर्त-
त्वात् मनोमय उक्तः; शुक्रशोणितादिकं किञ्चिद् बाह्यमनुपादाय भावात् ।
२. सम्भवैषणशीलत्वात् सम्भवैषी । ३. गन्धर्पणाद् गन्धर्वः । ४. उपपत्त्य-
भिमुखत्वादभिनिर्वृत्तिः । "अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके
उपपद्यते" इति सूत्रपदात् ।
तथा "अस्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्"
"स्पर्शसञ्चेतनाविज्ञा" इति । विज्ञेत्यादन्तमेतत्, प्रज्ञेति यथा । विज्ञान-
मित्यर्थः । कवलीकाराहारस्त्र्यायतनात्मकत्वात् सास्रव इति सिद्धः । त्रयस्तु
स्पर्शादयः सास्रवाः अनास्रवाश्च सम्भवन्तीत्यतस्त एव विशेषिताः ।
"सास्रवाः" इति । न चैवमनास्रवा धर्मा इति । न चैवं ते भूतानां स्थितये
यापनायै सम्भवैषिणां चानुग्रहायेति ।
मनोनिर्वर्तितत्वादिति । "निर्वृत्तिः" इति । उपपत्त्यभिमुखावधारणम् । अत
एव ब्रवीति—शुक्रशोणितादिकं किञ्चिद् बाह्यमनुपादायाभावादिति । आदिशब्देन
कर्दमपुष्पादीनां ग्रहणम् । उपपत्त्यभिमुखत्वादभिनिर्वृत्तिरिति । उपपत्त्यभिमुखी
निर्वृत्तिर्जन्मास्येत्यभिनिर्वृत्तिः । सव्याबाधमिति । सदुःखम् । अव्याबाधमभिनिर्व-
र्त्येति । इदमत्र ज्ञापकम्—भवोऽभिनिर्वृत्तिरिति ।
तथास्ति पुद्गल इति