अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] तृतीयं कोशस्थानम् ४२३
अन्तराभवो यथोक्तः, उपपत्तिभवो प्रतिसन्धिक्षण एव¹, तस्मात् परेण
मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः, चरमक्षणो मरणभवः, यत
ऊर्ध्वमन्तराभवो भवति रूपिषु चेत् सत्त्वेषूपपद्यते ॥ १३ ॥
स चायमन्तराभवः—
सजातिशुद्धदिव्याक्षिदृश्यः
समानजातीयैरेवान्तराभवैर्दृश्यते²। येषां च दिव्यं चक्षुः सुविशुद्धम-
भिज्ञामयं त एनं पश्यन्ति । उपपत्तिचक्षुषा तु न दृश्यते; अत्यर्थमच्छत्वात्³ ।
देवान्तराभविकः सर्वान् पश्यति । मनुष्यप्रेततिर्यङ्नारकान्तराभविकाः पूर्वं
पूर्वमपास्येत्यपरे ।
कर्मर्द्धिवेगवान् ।
उपपत्तिभवः प्रतिसन्धिक्षण एव । तस्मात् परेण प्रतिसन्धिक्षणादन्यो भवः
पूर्वकालभवः । रूपिषु चेत् सत्त्वेषूपपद्यत इति । आरूप्यधातावन्तराभावाद्विदं
विशेषवचनम् ॥ १३ ॥
समानजातीयैरिति । नारकोऽन्तराभवो नारकैरेवान्तराभवैर्दृश्यते । एवं
यावद्देवान्तराभवः देवान्तराभवैरेवेति । सुविशुद्धमिति । एकादशदिव्य-
चक्षुरुपक्षालवर्जितम् । ते पुनरपक्षाला विचिकित्सामनसिकारो कायदौष्ठुल्यं
स्त्यानमिद्धमौद्धत्यमभ्यारभ्य वीर्यमौद्धित्यं छम्भितत्वं नानात्वसंज्ञा अभिजल्पः
अभिध्यायितत्वं ज्ञेयेषु यथासूत्रम् । अभिज्ञामयमिति । अभिज्ञास्वभावभाव-
नामयमित्यर्थः । उपपत्तिप्रतिलम्भिकमपि देवादीनां दिव्यमिष्यते, न तु
सुविशुद्धम् ।
देवान्तराभविकमिति विस्तरः । अपर आहुः । न समानजातीयैवान्तराभवो
दृश्यते, किं तर्हि ? देवान्तराभविकः सर्वान् देवान्तराभविकादीन् पश्यति ।
मनुष्यप्रेततिर्यङ्नारकान्तराभविकाः पूर्वं पूर्वमपास्य । कथम् ? मनुष्यान्तराभविको
देवान्तराभविकं पूर्वमपास्य मनुष्यप्रेततिर्यङ्नारकान्तराभविकान् पश्यति,
प्रेतान्तराभविको देवमनुष्यान्तराभविकौ पूर्वावपास्य प्रेततिर्यङ्नारकान्तरा-
भविकान् पश्यति, एवं यावन्नारकान्तराभविको देवान्तराभविकादीन् पूर्वा-
नपास्य नारकान्तराभविकानेव पश्यति । गतीनामुत्तरोत्तरनिकृष्टत्वादिति ।
१. गतिषु प्रतिसन्धिक्षणः—का० । २ ०भविकै०—का० ।
, ३. जात्यर्थम०—का० ।
४२४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
ऋद्धिः = आकाशगमनम्, कर्मणा ऋद्धिः कर्मर्द्धिः, तस्या वेगः कर्मर्द्धि-
वेगः = शीघ्रता, सोऽस्यास्तीति कर्मर्द्धिवेगवान् । येनासौ न शक्यो बुद्धैरपि
प्रतिबन्धुम्; कर्मणोऽस्य बलीयत्वात् ।
सकलाक्षः,
समग्रपञ्चेन्द्रियः ।
अप्रतिघवान्,
प्रतिघातः = प्रतिघः, सोऽस्यास्तीति प्रतिघवान्, न प्रतिघवानप्रतिघवान् ।
वज्रादिभिरप्यनिवार्यत्वात् । तथा हि--प्रदीप्तायःपिण्डभेदे तन्मध्यसम्भूतः
किमिरुपलब्धः श्रूयते ।
यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा--
अनिवर्त्यः,
न हि कदाचिन्मनुष्यान्तराभवोऽन्तर्धाय देवान्तराभवो भवति, अन्यो वा ।
नियतमनेन--यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोत्पत्तव्यम्, नान्यस्यामिति ।
किं पुनरन्तराभवोऽपि कामावचरः कवलीकारमाहारं भुङ्क्ते ? ओमित्याह ।
न त्वौदारिकम्, किं तर्हि ?
स गन्धभुक् ॥ १४ ॥
अत एव 'गन्धर्वः' इत्युच्यते, धातूनामनेकार्थत्वात् । ह्रस्वत्वं शकन्धु-
कर्कन्धुवत् । अल्पेशाख्यस्तु दुर्गन्धाहारः, महेशाख्यः सुगन्धाहारः ।
अत एव गन्धर्व इति । यतो गन्धगतो गन्धर्वः । गन्धमर्वति भक्षयति
गन्धर्व इत्यर्थः । धातूनामनेकार्थत्वात् । अयमर्वतिर्न केवलं गत्यर्थे वर्तते, किं
तर्हि ? भोजनार्थेऽपीति । गत्यर्थपरिग्रहेऽप्यदोषः । गन्धमर्वति गच्छति भोक्तु-
मिति गन्धर्व इति । ह्रस्वत्वं शकन्धुकर्कन्धुवदिति । कृदन्त इति पररूपनिपात-
नात् शकन्धुकर्कन्धुरिति पररूपसिद्धिर्यथा तथेहापि गन्धर्व इति ।
अल्पेशाख्यः । अनुदारो हीनजातीय इत्यर्थः । ईष्ट इतीशः, अल्प
ईशोऽल्पेशः । अल्पेश इत्याख्या यस्य सोऽल्पेशाख्यः । विपर्ययान्महेशाख्यः ।
निर्देशः ] तृतीयं कोशस्थानम् ४२५
कियन्तं कालमवतिष्ठते ?
१. नास्ति नियम इति भदन्तः । यावदुपपत्तिसामग्रीं न लभते नहि
तस्यायुषः पृथगेवाक्षेपः, एकनिकायसभागत्वात् । इतरथा हि तस्यायुषः क्षया-
न्मरणभवः प्रसज्येत ।
यथासुमेरोः स्थलं मांसस्य स्यात् तत् सर्वं वर्षासु किमीणां पूर्येत, किमिदानीं
तत्प्रतीक्षा एव तेषामन्तराभवा आसन्, कुतो वा तदा तेभ्यो गता इति
वक्तव्यम् ? नैतदागतं सूत्रे शास्त्रे वा ।
एवं तु युज्यते—गन्धरसामिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति ।
ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिनिकायभागोत्पादकं¹
कर्म विबोध्य² तया तृष्णया क्रिमिषूपजायन्त³ इति ।
अथ वा—नूनं तत्प्रत्ययप्रचुर एव काले तत्संवर्त्तनीयानि कर्माणि विपाका-
भिनिर्वृत्तौ वृत्तिं लभन्ते, नान्यत्र । तथा हि चक्रवर्त्तिसंवर्त्तनीये कर्माणि अशीति-
वर्षसहस्रायुषि प्रजायां बहुतरायुषि वा चक्रवर्त्तिनो जायन्ते, नान्यस्याम् ।
एकनिकायसभागादिति । यश्च पूर्वकालभवो यश्चान्तराभवस्तत् प्रापकः,
तयोरेक एव निकायसभागः । अत एकनिकायसभागत्वात् । येनैव कर्मणायुष्येण
पूर्वकालभवस्यायुराक्षिप्यते, तेनैवान्तराभवस्य । इतरथा हि । यदि तस्यान्तरा-
भवायुषः पृथगाक्षेपः स्यात्, तस्याप्यायुषः अन्तराभविकस्य क्षयान्मरणभवः
प्रसज्येत, पूर्वकालभववत् । तस्मान्नास्ति नियम इति भदन्तः ।
ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धा इति विस्तरः । ते क्षुद्रजन्तवस्तं गन्धं
घ्रात्वा तत्सहचरं चानुभूतं रसमनुस्मृत्य गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमि-
निकायभागोत्पादकं कर्म विबोध्य तया गन्धरसतृष्णया विपाकाभिमुखं कृत्वाऽन्त-
राभवसन्तत्या क्रिमिषूपजायन्त इति । तत्प्रत्ययप्रचुर एव काल इति । क्रिमिप्रत्यय-
प्रचुरे काले तत्संवर्त्तनीयानि कर्माणि क्रिमिसंवर्त्तनीयानि विपाकाभिनिर्वृत्तौ वृत्तिं
लभन्ते । विपाकदानायाभिमुखीभवन्तीत्यर्थः । "सामग्रीं प्राप्य कालं च फलन्ति
खलु देहिनाम्" ( ) इति वचनात् । नान्यत्र । न तत्प्रचुरे काले ।
नान्यस्यामिति । नाल्पायुषि "—*-किन्तुःहिना नोन्जीतिनह्यवत्वात्" (
) इति वचनात् । अत एवेति । यस्माद् विद्यमानान्यपि चक्रवर्त्ति-
१. क्रिमिभावसंवर्त्तनीय—का० । २. प्रबोध्य—का० ।
३. ०पूपद्यन्ते—का० ।
अत एव चोक्तं भगवता—“अचिन्त्यः सत्त्वानां कर्मविपाकः” ( ) इति ।
२. सप्ताहं तिष्ठतीति भदन्तवसुमित्रः । यदि तावता सामग्रीं न लभते
तत्रैव पुनश्च्युत्वा जायन्ते ।
३. सप्ताहानीत्यपरे ।
४. अल्पं कालमिति वैभाषिकाः । स हि सम्भवैषित्वात् सन्धावगत्वा
सन्धिं बध्नातीति यथास्वसमग्राः प्रत्यया भवन्ति । नियतं चानेन—तस्मिन् देशे
तस्यां जातौ जनितव्यं भवति, तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति ।
अथानियतं ततोऽन्यत्र देशे तस्यां जातौ जायते सदृश्यामिति ।
५. अपरे त्वन्यथा—गवामूष्मसु मैथुनस्य प्राचुर्यम्, शरदि शुनाम्,
ऋक्षाणां हेमन्ते, वसन्ते चाश्वानाम् । गवयशृगालखरतरक्षाणां पुनः कालो
नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते, येन श्वसु स शृगालेषु,
येनाश्वेषु स गर्दभेषु, येन ऋक्षेषु स तरक्षूषूपपद्यत इति ।
न त्वस्य निकायभागान्तरभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेक-
कर्माक्षेपादिति १ वक्तव्यमेतत् ॥ १४ ॥
स खल्वेष गतिदेशसम्प्राप्त्यर्थं प्रादुर्भूतोऽन्तराभवः—
विपर्यस्तमतिर्याति गतिदेशं रिरंसया ।
संवर्त्तनीयानि कर्माणि विपाकाभिनिवृत्तौ कदाचिदेव वृत्तिं लभन्ते, बहुप्रत्यया-
पेक्षित्वात्, सम्भवैषित्वादुपपत्त्यभिलाषित्वात् ।
कर्माण्येव प्रत्ययानां सामग्रीमावहन्तीति । कर्माधिपत्येनाश्वादीनां प्रसिद्धं
कालमतिक्रम्य कालान्तरेऽपि मैथुनं भवतीति । एककर्माक्षेपादिति । येनैव
कर्मणा गवादिनिकायसभाग आक्षिप्यते, तेनैव कर्मणा तदन्तराभव आक्षिप्यत
इत्यतो वक्तव्यमेतत् । यदुक्तं येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यत
इति विस्तरेण । न निकायभेदादेकाक्षेपकत्वं हीयते, तत्कर्मण एकजातीयत्वात्,
गत्याकृतिसंस्थानान्तरापरित्यागाच्च । गतिनियतानां हि कर्मणामुपपत्तिवैचित्र्यं
दृष्टम्, कल्माषपादादिवदिति । नास्त्येष दोष इत्याचार्यसङ्घभद्रः ॥ १४ ॥
“विपर्यस्तमतिः” इति । अनुनयसहगतेन वा चित्तेन यथा विपर्यस्तमति-
१. ॰मेककाम०—का० ।
ते" -> in line 7:
जा - त - ह - र्षो - ऽ - भि - नि - वि - श - ते
In line 7 it is clearly 'अभिनिविशते'.
In line 24:
अ - भि - नि - वि - [?] - [?]
Wait, look at line 24:
Between 'वि' and 'प्रतिष्ठतीत्यर्थः':
Wait, look at the word:
"अभिनिविशंतं"? No!
Wait, look at line 24:
"अभिनिविशते" - wait, look at the character:
Could it be "अभिनिविशते"?
Wait, look at the dot above: there is a dot above 'श' and a dot above 'ते'?
Wait, no, look at the word:
अ भि नि वि शं तं -> wait, look at the bottom of 'तं' vs 'ते':
It has no right loop, it's just 'त'.
Above it, there is a dot AND a stroke?
Actually, let's look at:
Does it say "अभिनिविशते"?
Let's look at the letters:
अ भि नि वि श ते
Wait, why does it look like there might be an anusvara? It's just a broken letter or a small ink mark. But wait, could it be 'अभिनिविशते'?
Yes, "अभिनिविशते प्रतिष्ठतीत्यर्थः" is
४२८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
तान्येवेत्येके। अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते, सेन्द्रियं
प्रादुर्भवति। बीजाङ्कुरनिरोधोत्पादन्यायेन यत्तत् कललमित्याख्यायते। एवं च
कृत्वा^१ सूत्रपदं सूत्रे सुनीतं भवति—“मातापितृशुचिकललसम्भूतस्य” ( )
इति। तथा “दीर्घरात्रं युष्माभिर्भिक्षवः कटसिः संवर्द्धिता रुधिरबिन्दुरुपात्तः”
( ) इति।
भूतान्तराण्येवेत्यपरे। तद्यथा पर्णक्रिमेः। अशुचिसन्निश्रयोत्पत्त्यभिसन्धि-
वचनात्^२ तु कललस्य सूत्राविरोध इति। एवं तावदण्डजां च योनिं प्रतिपद्यते।
अन्यत्र तु यथायोगं वक्तव्यमित्याहुः।
स्मिन्नेव क्षणे बीजं निरुध्यतेऽङ्कुरश्चोत्पद्यते; तुलादण्डनामोन्नामवन्नाशोत्पादयोः
समकालत्वात्।
यत्तत् कललमित्याख्यायत इति। “कललं प्रथमं भवति कललाज्जायतेऽ-
र्बुदः” इत्यादिवचनात्। एवं च कृत्वा सूत्रपदमिति। “वल्मीक इति भिक्षो अस्य
कायस्यैतदधिवचनम्। रूपिण औदारिकस्य चातुर्महाभूतस्य ओदनकुल्माषोपचि-
तस्य मातापितृशुचिकललँसम्भूतस्य” इति विस्तरः। मातापितृशुच्येव कललम्,
ततः सम्भूतस्येत्यर्थः। कटसिरिति। श्मशानम्। रु
निर्देशः ] तृतीयं कोशस्थानम् ४२९
तत्र चायं योगो दृश्यते—
गन्धस्थानाभिकामोऽन्यः,
संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गन्धाभिलाषात्¹ गच्छत्यमे-
ध्यम्, मेध्यं वा यथाक्रमम् । उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् ।
कथं नरकेषु स्थानाभिलाषः ? विपर्यस्तबुद्धित्वात् । स हि शीतवात-
वर्षाभिषेकैरात्मानं बाध्यमानं पश्यति, नरकेषु चाग्निं दीप्यमानम् । तत्र उष्णा-
भिलाषाद् धावति । पुनस्तप्तवातातपाग्निसन्तापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं
च नरकेषु शीताभिलाषाद्धावति । यदवस्थस्तदुपपत्तिसंवर्तनीयं कर्माकार्षीत्,
तदवस्थं² आत्मानं² तांश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः ।
तत्र पुनर्दैवान्तराभव ऊर्ध्वं गच्छत्यासनादिवोत्तिष्ठन् मनुष्यतिर्यक्प्रेतानां
मनुष्यादिवत् ।
ऊर्ध्वपादस्तु नारकः ॥ १५ ॥
“ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः ।
ऋषीणामतिवक्तारः³ संयतानां तपस्विनाम् ॥” ( )
इति गाथाभिधानात् ॥ १५ ॥
यदुक्तम्—“विपर्यस्तमतिर्याति” इति, किमवश्यं सर्वोऽन्तराभवस्तथा
मातुः कुक्षिमवक्रामति ? नेत्याह । किं तर्हि ? चतस्रो गर्भावक्रान्तयः सूत्र
उक्ताः । कतमाश्चतस्रः ?
सम्प्रजानन् विशत्येकः,
तत्र चायं योगो दृश्येत इति । आचार्यो ब्रवीति । शैत्यञ्च नरकेष्विति । शीत-
नरकोपपत्तिकोले । यदवस्थ इति । औरभ्रिकाद्यवस्थः । यथाभूतेन तद्वेधं कृतं
प्राक्कर्म तादृशान् सत्त्वान् स्वप्न इव प्रेक्ष्य नरके स धावति । पूर्वाचार्याः ।
योगाचारा आर्यासङ्गप्रभृतयः ।
आसनादिवोत्तिष्ठन्निति । ऊर्ध्वोपपत्तिस्थानगमनात् । मनुष्यादिवदिति ।
यथा मनुष्यस्तिर्यङ् प्रेतश्च गच्छति, तद्वत् ।
ऋषीणामतिवक्तार इति । अधिक्षेप्तारः अपवदितार इत्यर्थः ॥ १५ ॥
१. गत्वाभि०—का० । २-२. तदवस्था०—का० । ३. ०मभिवक्तारः—का० ।
४३० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
तिष्ठति निष्क्रामति वा सम्प्रजानन् ।
तिष्ठत्यपरः,
सम्प्रजानन्निति वर्तते । प्रविशत्यपीत्यपिशब्दात् ।
अपरः ।
निष्क्रामत्यपि,
सम्प्रजानन् प्रविशति तिष्ठत्यपि ।
सर्वाणि मूढोऽन्यः,
कश्चित् पुनः सर्वाण्येवासम्प्रजानन् करोति प्रविशत्यसम्प्रजानन् तिष्ठति निष्क्रा-
मत्यपि । एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः श्लोकबन्धानुगुण्यतः ।
नित्यमण्डजः ॥ १६ ॥
अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति ।
कथमण्डाज्जातो गर्भं प्रविशति ? योऽपि जनिष्यते सोऽप्यण्डजः ।
अथ वा भाविन्यापि संज्ञया निर्देशः क्रियते । तद्यथा—"संस्कृतमभि-
संस्करोति" ( ) इति सूत्रे, ओदनं पचतीति सक्तुं पिनष्टीति लोके ।
तस्मान्नैष दोषः ।
“नित्यमण्डजः” इति नित्यग्रहणात् । “सर्वाणि मूढः” इत्यत्र नास्ति
नियमः । भवति तु सम्प्रजानन्नपि । प्रतिलोमं निर्दिष्टा इति । सूत्रे हि यः
सर्वाण्यसम्प्रजानन् करोति । एषा प्रथमा गर्भावक्रान्तिरुक्ता । तिस्रस्तु यथा-
निर्दिष्टानुपूर्विका एवेति ;
योऽपि जनिष्यते सोऽप्यण्डज इति । अण्डाज्जनिष्यते अण्डज इत्यभिप्रायः ।
आवश्यको ह्यभूतार्थो भूतवदुच्यते तथा, "वर्तमानसामीप्ये वर्तमानवद्वा"
( पा० सू० ३.३.१३१ ), "आशंसायां भूतवच्च" ( पा० सू० ३.३.१३२ ) ।
कश्चित् कस्मैचिद्वक्ता भवेत्—आगच्छन्तमेव तथा आगतमेव मां विद्धीति ।
तस्माददोष एषः । अण्डाज्जातो जनिष्यते जायते चेत्यण्डजः; "अन्येभ्योऽपि
दृश्यते" (पा० सू० ३.३.१३०) इति वचनात् । तस्माददुष्टमेतदित्याचार्यसङ्घभद्रः ।
अथवा भाविन्यापि संज्ञयेति । भविष्यन्त्यापि संज्ञया निर्देशः क्रियते । तद्यथा
संस्कृतमभिसंस्करोतीति । जनितावस्थायां संस्कृतं भवति, न जन्यमाना-
वस्थायाम् । नहि संस्कृतस्य पुनः संस्कारो युज्यते । भविष्यन्त्या तु संज्ञया
तथा निर्देशः क्रियते । एवमोदनं पचतीत्यादि योज्यम् ।
निर्देशः ] तृतीयं कोशस्थानम् ४११
कथं पुनरसम्प्रजानन् मातुः कुक्षिं प्रविशति यावन्निष्क्रामत, कथं वा
सम्प्रजानन् ?
अल्पेशाख्यस्य तावत् सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं विपरीतौ
संज्ञाधिमोक्षौ प्रवर्त्तेते—वातो वाति, देवो वर्षति, शीतं दुर्द्दिनं महतो वा
जनकायस्य कोलाहलम्, हन्त तृणगहनं वा प्रविशामि वनगहनं वा पर्णकुटीं वा,
वृक्षमूलं वा चोपसर्पामि¹ कुड्यमूलं वेति, तिष्ठतोऽप्येषु तिष्ठामीति निष्क्रामतो-
ऽप्येभ्यो निर्यामीति । महेशाख्यस्य तु सत्त्वस्य—आरामं वा प्रविशाम्युद्यानं च²,
प्रसादं वाऽभिरोहामि कूटागारं वा पर्यङ्कं वेति, तथा तिष्ठामि निर्यामीति । एवं
तावदसम्प्रजानन् प्रविशति यावन्निष्क्रामति ।
सम्प्रजानँस्तु सम्यक् प्रजानाति—मातुः कुक्षिं प्रविशामि, अत्रैव तिष्ठामि,
अत एव निर्यामीति । नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते ॥ १६ ॥
अत्र पुनरपदिश्यते—
गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयम्भुवाम् ।
चक्रवर्त्तिनश्च स्वयम्भुवोश्च प्रत्येकबुद्धसम्बुद्धयोश्च । यथाक्रममित्यन्ते वक्ष्यति ।
कथं पुनरसम्प्रजानन् मातुः कुक्ष प्रविशतीति विस्तरः । सन्निकृष्टावस्था
उपपत्तिदेशस्य । "विपर्यस्तमतिर्याति" ( अभि० ३.१५ ) इति । विप्रकृष्टा-
वस्था अधिमोक्षोऽधिमुक्तिः । तथा तिष्ठामि निर्यामीति । कथम् ? तथा
तिष्ठतोऽप्येषु तिष्ठामीति, निष्क्रामतोऽप्येभ्यो निर्यामीति । अयमनयोर्विपर्या-
सयोविशेष इति ।
अपरे पुनराहुः—न केवलं रागद्वेषाभ्यामेव विपर्यस्तमतिरुत्पत्तिदेशं
गच्छति, किं तर्हि ? अन्यथापि । कथमिति ? वातो वाति, देवो वर्षतीत्यादि ।
तथा आरामं प्रविशाम्युद्यानं चेत्यादि । सम्प्रजानंस्तु सम्यक् चित्तेन प्रजानाति—
मातुः कुक्षिं प्रविशामीत्येवमादिः । यदि सम्यक् प्रजानाति, कथं क्लिष्टेनैव
प्रतिसन्धबन्धो व्यवस्थाप्यते ? मातृस्नेहादियोगात् क्लिष्टं चित्तं भवति ।
अपर आह—मातुः कुक्षि प्रविशत एवं विपरीतौ संज्ञाविधामांक्षाविति । उप-
पन्नमात्रावस्थायामेतद् भवति—वातो वाति यावद्वृक्षमूलं चोपसर्पामि, कुण्ड्य-
मूलं चेति, तिष्ठतोऽप्येषु तिष्ठामीति, निष्क्रामतोऽप्येभ्यो निर्यामीत्येवमादि ।
१. सर्पामि—का० । २. वा—का० ।
४३२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कोश-
तत्र प्रथमा चक्रवर्तिनः । स हि प्रविशत्येव सम्प्रजानन् न तिष्ठति नापि
निष्क्रामति । प्रत्येकबुद्धस्तिष्ठत्यपि । बुद्धो निष्क्रामत्यपि । अत्रापि भाविन्या
संज्ञया निर्देशः ।
कर्मज्ञानोभयेषां वा विशदत्वाद् यथाक्रमम् ॥ १७ ॥
विशदकर्मणामुदारपुण्यक्रियाणां प्रथमा । विशदज्ञानानां बाहुश्रुत्यकृत-
प्रविचयानां द्वितीया । विशदपुण्यकर्मज्ञानानां तृतीया । त एव त्वेते चक्रवर्त्यादय
एवम्भूता युज्यन्ते यथाक्रमम् । शेषाणां चतुर्थीति सिद्धं भवति ॥ १७ ॥
अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते-यदि सत्त्वो लोकान्तरं
सञ्चरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति ? स एष प्रतिषिध्यते-
नात्मास्ति,
कीदृश आत्मा ? य इमान् निक्षिपत्यन्यांश्च स्कन्धान् प्रतिसन्दधातीति
परिकल्प्यते, स तादृशो नास्त्यन्त्व्यापारपुरुषः । एवं तूक्तं भगवता-
“अस्ति कर्मास्ति विपाकः, कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति
अन्यांश्च स्कन्धान् प्रतिसन्दधात्यन्यत्र धर्मसंकेतात् । तत्रायं धर्मसंकेतो यदु-
तास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः” ( ) ।
कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते ?
स्कन्धमात्रं तु,
यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते, तस्याप्रतिषेधः । एवं तर्हि स्कन्धा
एव लोकान्तरं सञ्चरन्तीति प्राप्तम्, स्कन्धमात्रं तु नात्र सञ्चरतीति ।
क्लेशकर्माभिसंस्कृतम् ।
तत्र प्रथमेति विस्तरः । चक्रवर्तिनः, येयं “सम्प्रजानन् विशत्येकः” इति ।
द्वितीया प्रत्येकबुद्धस्य, येयं “तिष्ठत्यपरः” इति । तृतीया बुद्धस्य, येयं
“निष्क्रामत्यपि” इति । अत्रापि भाविन्येति । ते न चक्रवर्त्यादयस्तदानीमिति
कृत्वा । त एवं त्वेते चक्रवर्त्यादय इति । पर्यायमात्रमेतदुक्तम् । अर्थस्तु स
एवेत्यभिप्रायः ॥ १६-१७ ॥
सङ्केतो हेतुफलसम्बन्धव्यवस्था ।
“क्लेशकर्माभिसंस्कृतम्” इति क्लेशकर्मपरिभावितमित्यर्थः ।
निर्देशः ] तृतीयं कोशस्थानम् ४३३
अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत् ॥ १८ ॥
क्षणिका हि स्कन्धाः, तेषा सञ्चरितुं नास्ति शक्तिः । क्लेशैस्तु परिभावितं
कर्मभिश्च क्लेशमात्रमन्तराभवसंज्ञिकया सन्तत्या मातुः कुक्षिमायाति ।
तद्यथा—प्रदीपः क्षणिकोऽपि सन्तत्या देशान्तरमिति नास्त्येष दोषः ।
तस्मात् सिद्धमेतद्—सत्यप्यात्मनि क्लेशकर्माभिसंस्कृतः स्कन्धानां सन्तानो
मातुः कुक्षिमापद्यत इति ॥ १८ ॥
स पुनः—
यथाक्षेपं क्रमाद् वृद्धः सन्तानः क्लेशकर्मभिः ।
परलोकं पुनर्याति ;
न हि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवति; आयुष्यस्य कर्मणो
भेदात् । अतो यस्य यावानाक्षेपस्तस्य तावती वृद्धिः क्रमेण भवति ।
केन क्रमेण ?
“कललं प्रथमं भवति कललाज्जायतेऽर्बुदः ।
अर्बुदाज्जायते पेशी पेशीतो जायते घनः ॥
घनात् प्रशाखा जायन्ते केशरोमनखादयः ।
इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः ॥ ( )
इत्यार्याः । एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः ।
तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशय्यस्याभ्यन्तरात् मातुः कुक्षौ
कर्मविपाकजा वायवो वान्ति, ये तं गर्भशल्यं सम्परिवर्त्य मातुः कायादधःद्वारा-
भिमुखमवस्थापयन्ति । स कूरपुरीषपिण्ड इवातिमात्रं स्थानात् प्रच्युतो दुःखं
सम्परिवर्त्तयते ।
“प्रदीपवत्” इति । ‘सन्ततिन्यायसञ्चारि स्कन्धपञ्चकम्, क्षणिकत्वात्,
प्रदीपवत्’ इति दर्शयति ।
“यथाक्षेपम्” इति । आक्षेपस्तावत् कालप्रबन्धः । एतच्च विशेषणमायुष्य-
स्यायुःसंवर्त्तनीयस्य कर्मणो भेदात् ।
व्यञ्जनान्यनुपूर्वश इति । व्यञ्जनानि चक्षुराद्यधिष्ठानानि, तैर्हि चक्षुरादीन्य-
भिव्यज्यन्ते ।
४३४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक--
यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन
गर्भ एव व्यापादं प्राप्नोति, तत एनं तज्ज्ञाः स्त्रियः कुमारभृत्यका वा
सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्कनान्येन वा हस्तमभ्यज्य तीक्ष्णं
तनुकां चात्र शस्त्रकमुपनिबध्य तस्मिन् वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले
सुबहुकृमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रशोणितलसिकामल-
संक्लिन्नकथितपिच्छिले परमबीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मविपाकजे
तस्मिन्¹ कायनाडीव्रणे¹ हस्तं प्रवेश्याङ्गमङ्गं निकृत्याध्याहरन्ति । स चाप्यपर-
पर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते ।
अथ पुनः स्वस्ति प्रजायते, तत एनं माता पुत्राभिलाषिणी तत्परिचारिका²
वा स्त्रियः सद्योजातकं तरुणव्रणायमानात्मानं शङ्खक्षारायमाणसंस्पर्शाभ्यां पाणिभ्यां
परिगृह्य स्नापयन्ति, स्तन्येन सर्पिषा वाप्याययन्ति, औदारिकं चाहारमाहर्तुं
क्रमेणाभ्यासयन्ति । तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकात् पुनरपि क्लेशाः समुदा-
चरन्ति, कर्माणि चोपचयं गच्छन्ति । स तैः कायस्य भेदान्तराभवसन्तत्या
पूर्ववत् परलोकं पुनर्याति ।
इत्यनादिभवचक्रकम् ॥ १९ ॥
तस्मिन् वर्चः कूप इवेति । तस्मिन् कायनाडीव्रणे । निन्दावचनमेतत् । नाडी-
व्रण इव नाडीव्रण इति । उग्रो दुर्गन्धः उग्रदुर्गन्धः । अन्धकारश्चासावालोकरहि-
तत्वात् । समलानां च पल्वलोऽसौ पल्वल इवेति कृत्वा, तस्मिन् सततप्रतिक्रिये
नित्यकर्त्तव्यशौचे । शुक्रेण पौंस्नेन । शोणितेन स्त्रैणेन । लसीकया द्रवविशेष-
लक्षणया, मलेन च संक्लिन्ने समन्तात् क्लिन्ने । विक्किन्ने विशेषेण क्लिन्ने
कथिते पूतौ पिच्छिले च तस्मिन् हस्तौ सम्प्रवेश्याङ्गमङ्गं हस्तपादादिकं निकृत्य
छित्त्वा अध्याहरन्ति अध्याकर्षयन्ति ।
तरुणं व्रणं सरुजम्, तरुणव्रणमिवात्मानमाचरंस्तरुणव्रणायमानः, तरुण-
व्रणायमान आत्माऽस्येति तरुणव्रणायमानात्मानं बालकम्, शङ्खं च क्षारं च
शङ्खक्षारम्, तदिवात्मानमाचरन् शङ्खक्षारायमाणः, शङ्खक्षारायमाणः संस्पर्शोऽन-
योरिति शङ्खक्षारायमाणसंस्पर्शौ पाणी, ताभ्यां परिगृह्य स्नापयन्ति; तस्य बुद्धे-
रन्वयादनुगमात् ।
१-१. महति कामनाडी०--का० । २. तत्परिका--का० ।
निर्देशः ] तृतीयं कोशस्थानम् ४३५
एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः
पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् ।
आदौ हि परिकल्प्यमाने तस्याहेतुकत्वमेतेषु सज्येत । सति चास्याहेतुकत्वे १
सर्वमेवेदमहेतुकं प्रादुःस्यात् । दृष्टं चाङ्कुरादिषु बीजादीनां सामर्थ्यं देशकाल-
प्रतिनियमादग्न्यादीनां वा २ पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः ।
नित्यकारणास्तित्ववादः ३ प्रागेव पर्युदस्तः । तस्मान्नास्त्येव संसारस्यादिः ।
अन्तस्तु हेतुक्षयाद् युक्तः । हेत्वधीनत्वाज्जन्मनो बीजक्षयादिवाङ्कु-
रस्येति ॥ १९ ॥
य एष स्कन्धसन्तानो जन्मत्रयावस्थ उपदिष्टः,
स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः ।
तत्र द्वादशाङ्गानि—अविद्या, संस्काराः, विज्ञानम्, नामरूपम्, षडायतनम्,
स्पर्शः, वेदना, तृष्णा, उपादानम्, भवः, जातिः, जरामरणं च ।
त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि ।
कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते ?
पूर्वापरान्तयोर्द्वे द्वे, मध्येऽष्टौ,
तस्याहेतुकमिति । आदेरहेतुकत्वम् । सति चास्याहेतुकत्वे । तद्वदेव सर्व-
महेतुकं प्रादुः स्यात् । दृष्टं चांकुरादिषु बीजादीनां सामर्थ्यम् । अङ्कुरनाल-
काण्डपत्रादिषु बीजाङ्कुरनालकाण्डादीनां सामर्थ्यमुत्पादनाय । कस्मात् ? देश-
कालप्रतिनियमात् । देशकालयोस्तु प्रतिनियमात् । तत्र देशप्रतिनियमो बीजा-
दिसम्बद्ध एव देश उत्पत्तेः । कालप्रतिनियमो बीजानन्तरमुत्पत्तेः । अग्न्यादीनां
वाग्निशीतोष्णाभिघातचक्षुरादीनां पाकजादिषु पाकजसुखदुःखशब्दचक्षुर्विज्ञाना-
दिषु दृष्टं सामर्थ्यम्; देशकालप्रतिनियमात् । यदि हि निर्हेतुकः प्रादुर्भावः
स्यात्, बीजादीनामङ्कुरादिषु अग्न्यादीनाञ्च पाकजादिषु देशकालप्रतिनिय-
मेनोत्पत्तिं प्रति सामर्थ्यं न स्यात् । सर्वं सर्वत्र सर्वदोत्पद्येत । न चैवं दृष्टम्,
इत्यतो नास्ति निर्हेतुकः प्रादुर्भावः । नित्यकारणास्तित्ववादः प्रागेव पर्युदस्तः;
“नेश्वरादेः क्रमादिभिः” ( अभि० को० २.६५ ) इति वचनात् ॥ १८-१९ ॥
१. चाहेतुकत्वे—का० । २. च—का० । '
३. ०वादश्च—का० ।
४३६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
अविद्या संस्काराश्च पूर्वान्ते, जातिर्जरामरणं चापरान्ते । शेषाण्यष्टौ मध्ये ।
किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति ? नेत्याह । कस्य तर्हि ?
परिपूरिणः ॥ २० ॥
परिपूरोऽस्यास्तीति परिपूरी, य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति
सोऽत्र पुद्गलोऽभिप्रेतः, न तु योऽन्तराल एव म्रियते । नापि रूपारूप्यावचरः ।
तथा हि महानिदानपर्यायसूत्रे¹ कामावचर एव पुद्गलो निर्दिष्टः; “विज्ञानं
चेदानन्द मातुः कुक्षिं नावक्रामेत्” ( ) इति वचनात् ।
यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते—पौर्वान्तिकश्च, अपरान्तिकश्चेति;
तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः, पञ्चापरान्तिकः, सफलहेतुकयोः
पूर्वापरान्तयोर्ग्रहणात् ॥ २० ॥
अथ क इमेऽविद्यादयः ?
पूर्वक्लेशो दशाऽविद्या,
या पूर्वके जन्मनि क्लेशावस्था, सेहाविद्येत्युच्यते; साहचर्यात्, तद्वशेन तेषां
शेषाण्यष्टौ मध्य इति । विज्ञाननामरूपषडायतनस्पर्शवेदना तृष्णोपादान-
भवाङ्गानि ।
नापि रूपारूप्यावचर इति । रूपावचरस्य विज्ञानाङ्गकाल एव नामरूप-
षडायतनाङ्गयोः सद्भावात् । न मध्येऽष्टावङ्गानि; आरूप्यावचरस्य च नामरूप-
षडायतनाङ्गयोरभावात् । महानिदानपर्यायसूत्रे “विज्ञानं चेदानन्द मातुः कुक्षिं
नावक्रामेदपि तु तन्नामरूपं कललत्वायाभिसम्मूच्छेत्, नो भदन्त” इत्यादि तत् सूत्रं
पठ्यते । मातुः कुक्ष्यवक्रमणं हि कामधातावेवेति । सफलहेतुकयोः पूर्वापरान्त-
योर्ग्रहणादिति । यथाक्रममेतत्—पूर्वान्तस्य सफलस्य ग्रहणाद्, अपरान्तस्य
च सहेतुकस्य ग्रहणादिति । तत्र पूर्वान्ते हेतुरविद्या संस्काराश्च, तस्य फलं
पञ्चाङ्गानि—विज्ञानं यावद्वेदनेति । अपरान्ते जातिर्जरामरणं चेति, फलम्
तस्य त्रीण्यङ्गानि हेतवस्तृष्णोपादानभवाः । तदेवं सप्ताङ्गानि पौर्वान्तिकः,
पञ्चाङ्गान्यपरान्तिक इति व्याख्यातं भवति ॥ २० ॥
अथ क इमेऽविद्यादय इति । किमविद्यैव केवला, उताहो सर्वे क्लेशाः, आहो-
स्वित् क्लेशावस्था—इति सन्देहे पृच्छति । साहचर्यादिति । यस्मादविद्यासह-
१. ०पर्याये—का० ।
निर्देशः ] तृतीयं कोशस्थानम् ४३७
समुदाचाराच्च। राजागमनवचने तदनुयातृकागमनसिद्धवत्¹।
संस्काराः पूर्वकर्मणः।
'दश' इति वर्त्तते। पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा
इत्युच्यन्ते, यस्य कर्मण इह विपाकः।
सन्धिस्कन्धास्तु विज्ञानम्,
मातुः कुक्षौ प्रतिसन्धिक्षणे पञ्च स्कन्धा विज्ञानम्।
नामरूपमतः परम् ॥ २१ ॥
प्राक् षडायतनोत्पादात्,
सन्धिचित्तात् परेण यावत् षडायतनं नोत्पद्यते साऽवस्था नामरूपं
तावत् षडायतनमित्युच्यते। प्राक्चतुरायतनोत्पादादिति वक्तव्ये षडायतनवचनं
तदा तद्ब्यवस्थापनात् ॥ २१ ॥
तत्पूर्वं त्रिकसङ्गमात्।
उत्पन्ने षडायतने सावस्था तावत् षडायतनमित्युच्यते यावदिन्द्रिय-विषय-
विज्ञानत्रिकसन्निपातः।
चारिणः क्लेशाः। तद्वशेन तेषां समुदाचाराच्च। यस्माच्चाविद्यावशेन तेषां
क्लेशानां समुदाचारः स पुनस्तदनुवृत्तिः। मूढस्य हि क्लेशसमुदाचारः,
नामूढस्य। राजागमनवचन इति विस्तरः। साहचर्यात् तद्वशेन तेषां समुदा-
चारात्, तद्वदेतत्। तदेवमविद्यावशादविद्याङ्गः क्लेशदशेत्यर्थः। तस्मादुक्तम्—
“पूर्वक्लेशदशाविद्या” इति, न तूक्तम्—पूर्वाविद्यादशाविद्येति।
पुण्यादिकर्मावस्थेति। पुण्यापुण्यकर्मावस्थेत्यर्थः ॥ २१ ॥
प्राक् चतुरायतनोत्पादादिति वक्तव्य इति। मनःकायायतनयोरुपपत्तिभव
एवोत्पादात्। तदा तद्व्यवस्थापनादिति। चक्षुराद्यायतननोत्पत्तिकाले कायमन-
आयतनयोर्व्यवस्थापनादित्यर्थः।
“तत्पूर्वं त्रिकसङ्गमात्” इति। तत् षडायतनाङ्गं प्राक् त्रिकसङ्गमात्,
प्रागिन्द्रियविषयविज्ञानत्रिकसङ्गमात्। प्रागिन्द्रियविषयविज्ञानत्रिकसन्निपाता-
दित्यर्थः ॥
१. तदनुयात्रिक०—का० ।
४३८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
स्पर्शः प्राक् सुखदुःखादिकारणज्ञानशक्तिः ॥ २२ ॥
त्रयाणां सन्निपातात् स्पर्शो भवति । स यावद्वेदनात्रयकारणपरिच्छेदेन
भवति साऽवस्था स्पर्श इत्युच्यते ॥ २२ ॥
परिच्छेदसामर्थ्ये सति—
वित्तिः प्राङ् मैथुनात्,
वेदनावस्था यावन्मैथुनरागो न समुदाचरति ।
तृष्णा भोगमैथुनरागिणः ।
कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते, यावन्न तद्विषयपर्येष्टि-
मापद्यते ।
उपादानं तु भोगानां प्राप्तये परिधावतः ॥ २३ ॥
यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावति, असाववस्था
उपादानमित्युच्यते ॥ २३ ॥
तथा च परिधावन्—
स भविष्यद्भवफलं कुरुते कर्म तद् भवः ।
“स्पर्शः प्राक्” इति । षडिन्द्रियविषयविज्ञानसन्निपातः स्पर्शो जाता-
वस्थायां व्यवस्थाप्यते; परिपूर्णषडायतनसन्निपातसद्भावात् । आ कुतः ?
प्राक् सुखदुःखासुखवेदनाकारणेषु । “ज्ञानशक्तिः”। स बालो यावत् सुखाया
वेदनाया एतत् कारणम्, अदुःखासुखायाश्चैतत् कारणम्–इति परिच्छेदे न शक्तो
भवति सावस्था स्पर्श इत्युच्यते । तथा हि बालकोऽग्निमपि स्पृशेद्—दुःखस्यैतत्
कारणमित्यपरिच्छिन्दन् ॥ २२ ॥
परिच्छेदे सामर्थ्ये सति “वित्तिः” वेदनेत्यर्थः । आ कुतः ? “प्राङ्मैथुनात्” ।
यावन् मैथुनरागो न समुदाचरति सावस्था वेदनेत्युच्यते । वेदनाप्रकर्षिणी हि
सावस्था वेदना; कारणवेदनात् ।
“तृष्णा भोगमैथुनरागिणः” इति । भोगेषु रूपादिकामगुणलक्षणेषु मैथुने च
लोकप्रतीते रागिणः पुद्गलस्य तद्रागसमुदाचारावस्था तृष्णेत्युच्यते । पर्येष्टिमापन्न
इति । ‘एष’ ( मा० धा० १.३९९ ) इत्येतस्य धातोरेतद्रूपम् ।
उपादीयते विषय आत्मभावोऽनेनेत्युपादानम्, चतुर्विधः क्लेशः सावस्थो-
पादानमित्युच्यते ॥ २३ ॥
“स भविष्यद्भवफलम्” इति । स परिधावतो निर्देशः, भविष्यद्भवः फलम-
स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सोऽस्य
भवः । तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसन्धिर्भवति ।
योऽसौ
प्रतिसन्धिः पुनर्जातिः
यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः ।
तत ऊर्ध्वम्—
जरामरणमा विदः ॥ २४ ॥
जातेः परेण यावद्वेदनावस्था जरामरणम् । यान्येवेह चत्वार्यङ्गानि—
नामरूपषडायतनस्पर्शवेदनाः, तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि ॥
स चैव प्रतीत्यसमुत्पादश्चतुर्विध उच्यते—क्षणिकः, प्राकर्षिकः, सम्बन्धकः,
आवस्थिकश्च ।
कथं क्षणिकः ? एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति ।
तद्यथा—लोभवशेन प्राणिं जीविताद् व्यपरोपयेत्, यो मोहः साऽविद्या,
या चेतना ते संस्काराः, वस्तुप्रतिविज्ञप्तिर्विज्ञानम्, विज्ञानसहभुवश्चत्वारः
स्कन्धा नामरूपम्, नामरूपे व्यवस्थितानि इन्द्रियाणि षडायतनम् । षडायत-
नाभिनिपातः स्पर्शः, स्पर्शानुभवनं वेदना, यो लोभः स तृष्णा, तत्सम्प्रयुक्तानि
स्येति भविष्यद्भवफलम् । “कर्म” पौनर्भविकमित्यर्थः । “तद्भवः” इति ।
भवत्यनेनेति भवः कर्मपर्यायः ।
“जरामरणमा विदः” इति । आ विद। आ वेदनाङ्गात् । जरामरणं नाम-
रूपादिचतुरङ्गस्वभावम् । विनेयजनोद्वेजनार्थं भगवता जरामरणशब्देन चत्वा-
र्यङ्गान्युक्तानि—“यो भिक्षवो रूपस्योत्पादः । एवं यावद् विज्ञानस्य”
( ) इति ॥ २४ ॥
क्षणिकः । क्षणे भवः, क्षणोऽस्यास्तीति वा क्षणिकः । प्रकर्षेण दीव्यति चरति
वा प्राकर्षिकः प्रबन्धयुक्त इत्यर्थः । एवं सम्बन्धकः हेतुफलसम्बन्धयुक्त इत्यर्थः ।
एवमावस्थिकः द्वादशपञ्चस्कन्धिका अवस्था इत्यर्थः । विज्ञानसहभुव इति
विस्तरः । रूपमत्र सहभूर्विज्ञप्त्यविज्ञप्त्यादि । संज्ञादिस्कन्धत्रयं नाम । नाम-
रूपव्यवस्थितानि इन्द्रियाणि तत्प्रतिबद्धवृत्तित्वादिन्द्रियाणाम् । आश्रयत्वेन
वा तानि नाम्नि व्यवस्थितानि इति । षडायतनाभिनिपातः स्पर्श इति ।
चक्षुरादीनां स्वस्मिन् विषये प्रवृत्तिरभिनिपातः । स तु सम्भवतः । कस्य
४४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
पर्यवस्थानानि उपादानम्, तत्समुत्थितं कायवाक्कर्म भवः, तेषा धर्माणांमुन्मज्जनं
जातिः, परिपाको जरा, भङ्गो मरणमिति ।
पुनराहुः—क्षणिकः साम्बन्धिकश्च यथा प्रकरणेषु—“प्रतीत्यसमुत्पादः
कतमः ? सर्वे संस्कृता धर्माः” इति ।
आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसम्बद्धाः । स
एव प्राकर्षिकः ।
एषां कतमोऽयमभिप्रेतो भगवतः ?
आवस्थिकः किलेष्टोऽयं,
यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्तयति स्म ?
प्राधान्यात्त्वङ्गकीर्तनम् ।
अविद्याप्रधानांमवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान् यावज्जरा-
मरणमित्यदोषः ।
किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः, प्रकरणेष्वन्यथा “प्रतीत्यनुत्पादः
कतमः ? सर्वे संस्कृता धर्माः” इति ? आभिप्रायिकः सूत्रे, लाक्षणिकोऽभिधर्मे ।
तथावस्थिकः क्षणिकः प्राकर्षिकः साम्बन्धिकः सत्त्वाख्योऽसत्त्वाख्यश्चेति भेदः ।
तदानीमभिनिपातः सम्भवति स तस्य स्पर्श इति वेदितव्यः । तत्सम्प्रयुक्तानि
पर्यवस्थानान्युपादानम् । तया तृष्णया सम्प्रयुक्तान्यह्रीक्यानपत्राप्यादीनि पर्य-
वस्थानानि तदुपादानम् । तत्समुत्थम
निर्देशः ] तृतीयं कोशस्थानम् ४४१
किमर्थं पुनः सूत्रे सत्त्वाख्य एव ?
पूर्वापरान्तमध्येपु सम्मोहविनिवृत्तये ॥ २५ ॥
अत एव च त्रिकाण्डः । तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा—
‘को न्वहमभूवमतीतेऽध्वनि, आहोस्विन्नाभूवं कथं न्वहमभूवम्' इति । अपरा-
न्तसंमोहो यत इयं विचिकित्सा—'किं नु भविष्याम्यनागतेऽध्वनि' इति विस्तरः ।
मध्यसंमोहो यत इयं विचिकित्सा—'किंस्विदिदं के सन्तः के भविष्यामः' इति ।
एतस्य त्रिविधस्य संमोहस्य व्यावर्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च
प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च
विज्ञानं यावद् भवश्च । तथा हि सूत्रे एवोक्तम्—“यतश्च भिक्षवो भिक्षुणा
प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक् प्रज्ञया दृष्टा
भवन्ति । स न पूर्वान्तं प्रतिसरति—किं न्वहमभूवमतीतेऽध्वनि” इति विस्तरः ।
सर्वसंस्कृतग्रहणात् सत्त्वासत्त्वाख्यः प्रतीत्यसमुत्पादः उक्तः; सर्वसंस्कृत-
हेतुत्वयोगात् ।
विनेयसम्मोहविनिवृत्तिहेतुः सत्त्वाख्य एव द्वादशाङ्गः प्रतीत्यसमुत्पादो
देशितः । अत आह—"पूर्वापरान्तमध्येपु सम्मोहविनिवृत्तये” इति । अत एव
च त्रिकाण्ड इति । काण्ड इति भागः । कोन्वहमभूवमिति । देवो मनुष्य इति
वा । कथं न्वहमभूवमिति । केन प्रकारेण कया युक्त्येत्यर्थः । कि नु भविष्याम्य-
नागतेऽध्वनीति विस्तरः । किं नु भविष्याम्यनागतेऽध्वनि, आहोस्विन्न भवि-
ष्यामि, को नु भविष्यामि, कथं नु भविष्यामीति । केन प्रकारेण कया
युक्त्येत्यर्थः । किग्विदिदमिति । आत्मभावद्रव्यमन्वेषते, कथंस्विदिदमिति,
केन प्रकारेण कया युक्त्येति, तदेवात्मभावद्रव्यं नावधारयति । के सन्त इति ।
के वयमिदानीं विद्यमानाः । के भविष्याम इति एवं नावधारयति ।
सूत्रे यथाक्रममिति । अविद्या संस्काराश्च पूर्वान्तसम्मोहव्यावर्त्तनार्थम् ।
जातिर्जरामरणं चापरान्तसम्मोहव्यावर्त्तनार्थम् । विज्ञानं यावद्भवश्च मध्यसम्मोह-
व्यावर्तनार्थमिति । तथा हि सूत्र एवोक्तमिति विस्तरः । सूत्रेऽप्येवमेवं दर्शित-
मिति । सूत्रेण स्वव्याख्यानं समर्थयति । स न पूर्वान्तं प्रतिसरति, कि न्वहम-
भूवमतीतेऽध्वनीति विस्तरः । स न पूर्वान्तं प्रतिधावति । किं न्वहमभूवमतीते-
ऽध्वनीति प्रतीत्यसमुत्पादयथाभूतदर्शनेन नैवमतीतेऽध्वनि सम्मुह्यत इत्यर्थः ।
विस्तरशब्देन स नापरान्तं प्रतिसरति, किं नु भविष्याम्यनागतेऽध्वनीति
विस्तरः । तथा न स मध्यान्तं प्रतिमरति, किंस्विदिदमिति विस्तरः ।
४४२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
तृष्णोपादानभवा अप्यपरान्तसम्मोहव्यावर्तनार्थमित्यपरे । तस्यैव ह्येते
हेतव इति ॥ २५ ॥
स.पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः क्लेशकर्मवस्तूनि ।
तत्र—
क्लेशास्त्रीणि,
त्रीण्यङ्गानि क्लेशस्वभावानि—अविद्यातृष्णोपादानानि ।
द्वयं कर्म,
अङ्गद्वयं कर्मस्वभावम्—संस्काराः, भवश्च ।
सप्त वस्तु,
सप्ताङ्गानि वस्तुस्वभावानि—विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरा-
मरणानि; क्लेशकर्माश्रयत्वात् । यथा च वस्तु सप्ताङ्गानि,
फलं तथा ।
सप्तैवाङ्गानि फलभूतानि । शेषाणि पञ्च हेतुभूतानि; कर्मक्लेशस्वभावत्वात् १ ।
किं पुनः कारणं मध्ये फलहेतू विशालितौ ? वस्तुनः पञ्चधा भेदात् ।
क्लेशस्य च २ द्विधा । अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदात् । अतीतेऽध्वनि
तृष्णोपादानभवा अपीति । सर्वे तृष्णोपादानभवा अपरान्तसंमोहव्यावर्त्त-
नार्थम्, न मध्यसंमोहव्यावर्त्तनार्थम् । यथा पूर्वमुपदिष्टं विज्ञानं यावद्भवश्चेति ।
का पुनरत्र युक्तिः ? इत्याह—तस्यैव ह्येते हेतव इति । यस्मादपरान्तस्यैवैते
हेतव इति ॥ २५ ॥
क्लेशकर्माश्रयत्वादिति । विज्ञानादीनि सप्ताङ्गानि वस्तून्यधिष्ठानानि
क्लेशकर्मणामित्यर्थः ।
“फलं तथा” इति । सप्तैवाङ्गानि विज्ञाननामरूपषडायतनस्पर्शवेदनाङ्गा-
न्यविद्यासंस्काराणां फलानि। जातिर्जरामरणं च तृष्णोपादानभवानां फलानि।
पञ्च हेतुभूतानीति । अविद्यासंस्कारतृष्णोपादानभवाः। कर्मक्लेशस्वभावत्वादिति ।
अविद्यातृष्णोपादानानि क्लेशस्वभावानि, संस्काराः भवाश्च कर्मस्वभावाः ।
वस्तुनः पञ्चधा भेदादिति । विज्ञाननामरूपषडायतनस्पर्शवेदना इति । क्लेशस्य
च द्वेधेति । तृष्णोपादानमिति । अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदादिति ।
१. ॰स्वभावभूतत्वात्—का० । २. का० पुस्तके नास्ति ।