सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 460, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 460

स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सोऽस्य
भवः । तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसन्धिर्भवति ।
योऽसौ
प्रतिसन्धिः पुनर्जातिः
यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः ।
तत ऊर्ध्वम्—
जरामरणमा विदः ॥ २४ ॥
जातेः परेण यावद्वेदनावस्था जरामरणम् । यान्येवेह चत्वार्यङ्गानि—
नामरूपषडायतनस्पर्शवेदनाः, तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि ॥
स चैव प्रतीत्यसमुत्पादश्चतुर्विध उच्यते—क्षणिकः, प्राकर्षिकः, सम्बन्धकः,
आवस्थिकश्च ।
कथं क्षणिकः ? एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति ।
तद्यथा—लोभवशेन प्राणिं जीविताद् व्यपरोपयेत्, यो मोहः साऽविद्या,
या चेतना ते संस्काराः, वस्तुप्रतिविज्ञप्तिर्विज्ञानम्, विज्ञानसहभुवश्चत्वारः
स्कन्धा नामरूपम्, नामरूपे व्यवस्थितानि इन्द्रियाणि षडायतनम् । षडायत-
नाभिनिपातः स्पर्शः, स्पर्शानुभवनं वेदना, यो लोभः स तृष्णा, तत्सम्प्रयुक्तानि
स्येति भविष्यद्भवफलम् । “कर्म” पौनर्भविकमित्यर्थः । “तद्भवः” इति ।
भवत्यनेनेति भवः कर्मपर्यायः ।
“जरामरणमा विदः” इति । आ विद। आ वेदनाङ्गात् । जरामरणं नाम-
रूपादिचतुरङ्गस्वभावम् । विनेयजनोद्वेजनार्थं भगवता जरामरणशब्देन चत्वा-
र्यङ्गान्युक्तानि—“यो भिक्षवो रूपस्योत्पादः । एवं यावद् विज्ञानस्य”
( ) इति ॥ २४ ॥
क्षणिकः । क्षणे भवः, क्षणोऽस्यास्तीति वा क्षणिकः । प्रकर्षेण दीव्यति चरति
वा प्राकर्षिकः प्रबन्धयुक्त इत्यर्थः । एवं सम्बन्धकः हेतुफलसम्बन्धयुक्त इत्यर्थः ।
एवमावस्थिकः द्वादशपञ्चस्कन्धिका अवस्था इत्यर्थः । विज्ञानसहभुव इति
विस्तरः । रूपमत्र सहभूर्विज्ञप्त्यविज्ञप्त्यादि । संज्ञादिस्कन्धत्रयं नाम । नाम-
रूपव्यवस्थितानि इन्द्रियाणि तत्प्रतिबद्धवृत्तित्वादिन्द्रियाणाम् । आश्रयत्वेन
वा तानि नाम्नि व्यवस्थितानि इति । षडायतनाभिनिपातः स्पर्श इति ।
चक्षुरादीनां स्वस्मिन् विषये प्रवृत्तिरभिनिपातः । स तु सम्भवतः । कस्य