अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 459, कुल 1258 में से
संदर्भ में पढ़ें४३८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
स्पर्शः प्राक् सुखदुःखादिकारणज्ञानशक्तिः ॥ २२ ॥
त्रयाणां सन्निपातात् स्पर्शो भवति । स यावद्वेदनात्रयकारणपरिच्छेदेन
भवति साऽवस्था स्पर्श इत्युच्यते ॥ २२ ॥
परिच्छेदसामर्थ्ये सति—
वित्तिः प्राङ् मैथुनात्,
वेदनावस्था यावन्मैथुनरागो न समुदाचरति ।
तृष्णा भोगमैथुनरागिणः ।
कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते, यावन्न तद्विषयपर्येष्टि-
मापद्यते ।
उपादानं तु भोगानां प्राप्तये परिधावतः ॥ २३ ॥
यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावति, असाववस्था
उपादानमित्युच्यते ॥ २३ ॥
तथा च परिधावन्—
स भविष्यद्भवफलं कुरुते कर्म तद् भवः ।
“स्पर्शः प्राक्” इति । षडिन्द्रियविषयविज्ञानसन्निपातः स्पर्शो जाता-
वस्थायां व्यवस्थाप्यते; परिपूर्णषडायतनसन्निपातसद्भावात् । आ कुतः ?
प्राक् सुखदुःखासुखवेदनाकारणेषु । “ज्ञानशक्तिः”। स बालो यावत् सुखाया
वेदनाया एतत् कारणम्, अदुःखासुखायाश्चैतत् कारणम्–इति परिच्छेदे न शक्तो
भवति सावस्था स्पर्श इत्युच्यते । तथा हि बालकोऽग्निमपि स्पृशेद्—दुःखस्यैतत्
कारणमित्यपरिच्छिन्दन् ॥ २२ ॥
परिच्छेदे सामर्थ्ये सति “वित्तिः” वेदनेत्यर्थः । आ कुतः ? “प्राङ्मैथुनात्” ।
यावन् मैथुनरागो न समुदाचरति सावस्था वेदनेत्युच्यते । वेदनाप्रकर्षिणी हि
सावस्था वेदना; कारणवेदनात् ।
“तृष्णा भोगमैथुनरागिणः” इति । भोगेषु रूपादिकामगुणलक्षणेषु मैथुने च
लोकप्रतीते रागिणः पुद्गलस्य तद्रागसमुदाचारावस्था तृष्णेत्युच्यते । पर्येष्टिमापन्न
इति । ‘एष’ ( मा० धा० १.३९९ ) इत्येतस्य धातोरेतद्रूपम् ।
उपादीयते विषय आत्मभावोऽनेनेत्युपादानम्, चतुर्विधः क्लेशः सावस्थो-
पादानमित्युच्यते ॥ २३ ॥
“स भविष्यद्भवफलम्” इति । स परिधावतो निर्देशः, भविष्यद्भवः फलम-