अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 447, कुल 1258 में से
संदर्भ में पढ़ेंअत एव चोक्तं भगवता—“अचिन्त्यः सत्त्वानां कर्मविपाकः” ( ) इति ।
२. सप्ताहं तिष्ठतीति भदन्तवसुमित्रः । यदि तावता सामग्रीं न लभते
तत्रैव पुनश्च्युत्वा जायन्ते ।
३. सप्ताहानीत्यपरे ।
४. अल्पं कालमिति वैभाषिकाः । स हि सम्भवैषित्वात् सन्धावगत्वा
सन्धिं बध्नातीति यथास्वसमग्राः प्रत्यया भवन्ति । नियतं चानेन—तस्मिन् देशे
तस्यां जातौ जनितव्यं भवति, तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति ।
अथानियतं ततोऽन्यत्र देशे तस्यां जातौ जायते सदृश्यामिति ।
५. अपरे त्वन्यथा—गवामूष्मसु मैथुनस्य प्राचुर्यम्, शरदि शुनाम्,
ऋक्षाणां हेमन्ते, वसन्ते चाश्वानाम् । गवयशृगालखरतरक्षाणां पुनः कालो
नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते, येन श्वसु स शृगालेषु,
येनाश्वेषु स गर्दभेषु, येन ऋक्षेषु स तरक्षूषूपपद्यत इति ।
न त्वस्य निकायभागान्तरभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेक-
कर्माक्षेपादिति १ वक्तव्यमेतत् ॥ १४ ॥
स खल्वेष गतिदेशसम्प्राप्त्यर्थं प्रादुर्भूतोऽन्तराभवः—
विपर्यस्तमतिर्याति गतिदेशं रिरंसया ।
संवर्त्तनीयानि कर्माणि विपाकाभिनिवृत्तौ कदाचिदेव वृत्तिं लभन्ते, बहुप्रत्यया-
पेक्षित्वात्, सम्भवैषित्वादुपपत्त्यभिलाषित्वात् ।
कर्माण्येव प्रत्ययानां सामग्रीमावहन्तीति । कर्माधिपत्येनाश्वादीनां प्रसिद्धं
कालमतिक्रम्य कालान्तरेऽपि मैथुनं भवतीति । एककर्माक्षेपादिति । येनैव
कर्मणा गवादिनिकायसभाग आक्षिप्यते, तेनैव कर्मणा तदन्तराभव आक्षिप्यत
इत्यतो वक्तव्यमेतत् । यदुक्तं येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यत
इति विस्तरेण । न निकायभेदादेकाक्षेपकत्वं हीयते, तत्कर्मण एकजातीयत्वात्,
गत्याकृतिसंस्थानान्तरापरित्यागाच्च । गतिनियतानां हि कर्मणामुपपत्तिवैचित्र्यं
दृष्टम्, कल्माषपादादिवदिति । नास्त्येष दोष इत्याचार्यसङ्घभद्रः ॥ १४ ॥
“विपर्यस्तमतिः” इति । अनुनयसहगतेन वा चित्तेन यथा विपर्यस्तमति-
१. ॰मेककाम०—का० ।