अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 461, कुल 1258 में से
संदर्भ में पढ़ें४४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
पर्यवस्थानानि उपादानम्, तत्समुत्थितं कायवाक्कर्म भवः, तेषा धर्माणांमुन्मज्जनं
जातिः, परिपाको जरा, भङ्गो मरणमिति ।
पुनराहुः—क्षणिकः साम्बन्धिकश्च यथा प्रकरणेषु—“प्रतीत्यसमुत्पादः
कतमः ? सर्वे संस्कृता धर्माः” इति ।
आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसम्बद्धाः । स
एव प्राकर्षिकः ।
एषां कतमोऽयमभिप्रेतो भगवतः ?
आवस्थिकः किलेष्टोऽयं,
यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्तयति स्म ?
प्राधान्यात्त्वङ्गकीर्तनम् ।
अविद्याप्रधानांमवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान् यावज्जरा-
मरणमित्यदोषः ।
किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः, प्रकरणेष्वन्यथा “प्रतीत्यनुत्पादः
कतमः ? सर्वे संस्कृता धर्माः” इति ? आभिप्रायिकः सूत्रे, लाक्षणिकोऽभिधर्मे ।
तथावस्थिकः क्षणिकः प्राकर्षिकः साम्बन्धिकः सत्त्वाख्योऽसत्त्वाख्यश्चेति भेदः ।
तदानीमभिनिपातः सम्भवति स तस्य स्पर्श इति वेदितव्यः । तत्सम्प्रयुक्तानि
पर्यवस्थानान्युपादानम् । तया तृष्णया सम्प्रयुक्तान्यह्रीक्यानपत्राप्यादीनि पर्य-
वस्थानानि तदुपादानम् । तत्समुत्थम