अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 454, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ४३३
अन्तराभवसन्तत्या कुक्षिमेति प्रदीपवत् ॥ १८ ॥
क्षणिका हि स्कन्धाः, तेषा सञ्चरितुं नास्ति शक्तिः । क्लेशैस्तु परिभावितं
कर्मभिश्च क्लेशमात्रमन्तराभवसंज्ञिकया सन्तत्या मातुः कुक्षिमायाति ।
तद्यथा—प्रदीपः क्षणिकोऽपि सन्तत्या देशान्तरमिति नास्त्येष दोषः ।
तस्मात् सिद्धमेतद्—सत्यप्यात्मनि क्लेशकर्माभिसंस्कृतः स्कन्धानां सन्तानो
मातुः कुक्षिमापद्यत इति ॥ १८ ॥
स पुनः—
यथाक्षेपं क्रमाद् वृद्धः सन्तानः क्लेशकर्मभिः ।
परलोकं पुनर्याति ;
न हि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवति; आयुष्यस्य कर्मणो
भेदात् । अतो यस्य यावानाक्षेपस्तस्य तावती वृद्धिः क्रमेण भवति ।
केन क्रमेण ?
“कललं प्रथमं भवति कललाज्जायतेऽर्बुदः ।
अर्बुदाज्जायते पेशी पेशीतो जायते घनः ॥
घनात् प्रशाखा जायन्ते केशरोमनखादयः ।
इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः ॥ ( )
इत्यार्याः । एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः ।
तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशय्यस्याभ्यन्तरात् मातुः कुक्षौ
कर्मविपाकजा वायवो वान्ति, ये तं गर्भशल्यं सम्परिवर्त्य मातुः कायादधःद्वारा-
भिमुखमवस्थापयन्ति । स कूरपुरीषपिण्ड इवातिमात्रं स्थानात् प्रच्युतो दुःखं
सम्परिवर्त्तयते ।
“प्रदीपवत्” इति । ‘सन्ततिन्यायसञ्चारि स्कन्धपञ्चकम्, क्षणिकत्वात्,
प्रदीपवत्’ इति दर्शयति ।
“यथाक्षेपम्” इति । आक्षेपस्तावत् कालप्रबन्धः । एतच्च विशेषणमायुष्य-
स्यायुःसंवर्त्तनीयस्य कर्मणो भेदात् ।
व्यञ्जनान्यनुपूर्वश इति । व्यञ्जनानि चक्षुराद्यधिष्ठानानि, तैर्हि चक्षुरादीन्य-
भिव्यज्यन्ते ।