अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 463, कुल 1258 में से
संदर्भ में पढ़ें४४२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
तृष्णोपादानभवा अप्यपरान्तसम्मोहव्यावर्तनार्थमित्यपरे । तस्यैव ह्येते
हेतव इति ॥ २५ ॥
स.पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः क्लेशकर्मवस्तूनि ।
तत्र—
क्लेशास्त्रीणि,
त्रीण्यङ्गानि क्लेशस्वभावानि—अविद्यातृष्णोपादानानि ।
द्वयं कर्म,
अङ्गद्वयं कर्मस्वभावम्—संस्काराः, भवश्च ।
सप्त वस्तु,
सप्ताङ्गानि वस्तुस्वभावानि—विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरा-
मरणानि; क्लेशकर्माश्रयत्वात् । यथा च वस्तु सप्ताङ्गानि,
फलं तथा ।
सप्तैवाङ्गानि फलभूतानि । शेषाणि पञ्च हेतुभूतानि; कर्मक्लेशस्वभावत्वात् १ ।
किं पुनः कारणं मध्ये फलहेतू विशालितौ ? वस्तुनः पञ्चधा भेदात् ।
क्लेशस्य च २ द्विधा । अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदात् । अतीतेऽध्वनि
तृष्णोपादानभवा अपीति । सर्वे तृष्णोपादानभवा अपरान्तसंमोहव्यावर्त्त-
नार्थम्, न मध्यसंमोहव्यावर्त्तनार्थम् । यथा पूर्वमुपदिष्टं विज्ञानं यावद्भवश्चेति ।
का पुनरत्र युक्तिः ? इत्याह—तस्यैव ह्येते हेतव इति । यस्मादपरान्तस्यैवैते
हेतव इति ॥ २५ ॥
क्लेशकर्माश्रयत्वादिति । विज्ञानादीनि सप्ताङ्गानि वस्तून्यधिष्ठानानि
क्लेशकर्मणामित्यर्थः ।
“फलं तथा” इति । सप्तैवाङ्गानि विज्ञाननामरूपषडायतनस्पर्शवेदनाङ्गा-
न्यविद्यासंस्काराणां फलानि। जातिर्जरामरणं च तृष्णोपादानभवानां फलानि।
पञ्च हेतुभूतानीति । अविद्यासंस्कारतृष्णोपादानभवाः। कर्मक्लेशस्वभावत्वादिति ।
अविद्यातृष्णोपादानानि क्लेशस्वभावानि, संस्काराः भवाश्च कर्मस्वभावाः ।
वस्तुनः पञ्चधा भेदादिति । विज्ञाननामरूपषडायतनस्पर्शवेदना इति । क्लेशस्य
च द्वेधेति । तृष्णोपादानमिति । अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदादिति ।
१. ॰स्वभावभूतत्वात्—का० । २. का० पुस्तके नास्ति ।