सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 445, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 445

४२४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
ऋद्धिः = आकाशगमनम्, कर्मणा ऋद्धिः कर्मर्द्धिः, तस्या वेगः कर्मर्द्धि-
वेगः = शीघ्रता, सोऽस्यास्तीति कर्मर्द्धिवेगवान् । येनासौ न शक्यो बुद्धैरपि
प्रतिबन्धुम्; कर्मणोऽस्य बलीयत्वात् ।
सकलाक्षः,
समग्रपञ्चेन्द्रियः ।
अप्रतिघवान्,
प्रतिघातः = प्रतिघः, सोऽस्यास्तीति प्रतिघवान्, न प्रतिघवानप्रतिघवान् ।
वज्रादिभिरप्यनिवार्यत्वात् । तथा हि--प्रदीप्तायःपिण्डभेदे तन्मध्यसम्भूतः
किमिरुपलब्धः श्रूयते ।
यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा--
अनिवर्त्यः,
न हि कदाचिन्मनुष्यान्तराभवोऽन्तर्धाय देवान्तराभवो भवति, अन्यो वा ।
नियतमनेन--यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोत्पत्तव्यम्, नान्यस्यामिति ।
किं पुनरन्तराभवोऽपि कामावचरः कवलीकारमाहारं भुङ्क्ते ? ओमित्याह ।
न त्वौदारिकम्, किं तर्हि ?
स गन्धभुक् ॥ १४ ॥
अत एव 'गन्धर्वः' इत्युच्यते, धातूनामनेकार्थत्वात् । ह्रस्वत्वं शकन्धु-
कर्कन्धुवत् । अल्पेशाख्यस्तु दुर्गन्धाहारः, महेशाख्यः सुगन्धाहारः ।
अत एव गन्धर्व इति । यतो गन्धगतो गन्धर्वः । गन्धमर्वति भक्षयति
गन्धर्व इत्यर्थः । धातूनामनेकार्थत्वात् । अयमर्वतिर्न केवलं गत्यर्थे वर्तते, किं
तर्हि ? भोजनार्थेऽपीति । गत्यर्थपरिग्रहेऽप्यदोषः । गन्धमर्वति गच्छति भोक्तु-
मिति गन्धर्व इति । ह्रस्वत्वं शकन्धुकर्कन्धुवदिति । कृदन्त इति पररूपनिपात-
नात् शकन्धुकर्कन्धुरिति पररूपसिद्धिर्यथा तथेहापि गन्धर्व इति ।
अल्पेशाख्यः । अनुदारो हीनजातीय इत्यर्थः । ईष्ट इतीशः, अल्प
ईशोऽल्पेशः । अल्पेश इत्याख्या यस्य सोऽल्पेशाख्यः । विपर्ययान्महेशाख्यः ।