अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
२।१५ ] द्वितीयं कोशस्थानम् १६५
उपेक्षां चैव रूपेऽष्टौ
रूपधातौ म्रियमाणोऽष्टौ निरोधयति—तानि च त्रीणि, चक्षुरादीनि
पञ्च । सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते, म्रियन्ते च ।
कामे दश नवाष्ट वा ॥ १५ ॥
कामधातौ म्रियमाण उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति—तानि
चाष्टौ, स्त्रीपुरुषेन्द्रिये च । एकव्यञ्जनो नव । अव्यञ्जनोऽष्टौ ! सकृन्मरण
एष न्यायः ॥ १५ ॥
क्रममृत्योस्तु¹ चत्वारि
क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति—कायजीवितमन उपेक्षे-
न्द्रियाणि । न ह्येषां पृथग्निरोधः ।
एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः ।
यदा तु कुशले चेतसि स्थितो म्रियते, तदा—
शुभे सर्वत्र पञ्च च ।
कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति—श्रद्धा-
दीनि च पञ्चाधिकानि । एषा हि² कुशले चेतस्यवश्यम्भावः ।
“रूपेऽष्टौ' इति । रूपधातावष्टावेतान्येव । सह पञ्चभिश्चक्षुरादिभिर्निरोधयेत्,
सकृत् समग्रेन्द्रियमरणात् । अत एवाह—सर्वे ह्युपादुकाः समग्रेन्द्रिया उपपद्यन्ते,
म्रियन्ते चेति ।
'कामे दश नवाष्ट वा” इति । उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति यदि
समग्रषडिन्द्रियो भवति । एकव्यञ्जनो नव । अव्यञ्जनोऽष्टौ । यदि तु विकलेन्द्रियो
स्त्री पुं वा भवति तदा तदिन्द्रियं परिहार्यम् ॥ १५ ॥
सापवादं चेतत् सर्वकामधातावेव वेदितव्यम् । तदपवादमाह—“क्रम-
मृत्यान्तु चत्वारि” इति । न ह्येषां पृथङ् निरोध इति । न ह्येषां कामधातावन्योन्यं
विहाय निरोधोऽस्तीत्यभिप्रायः ।
“शुभे सर्वत्र पञ्च च” इति । सर्वस्य पूर्वोक्तस्य मरणविधेः “निरोधयत्यु-
पशान्तारूप्ये जीवितं मन” (अभि० २ १५) इत्येवमादेरपवादः । त्रिविधं हि
मरणचित्तं सम्भवति—क्लिष्टम्, अव्याकृतम्, कुशलं च । तत्र क्लिष्टाव्याकृत-
चित्तस्योत्सर्गन्यायेन मरणविधिरुक्तः । कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चा-
१ क्रममृत्यो तु—का० । २. का० पुस्तके नास्ति ।
एवमारूप्येष्वष्टौ निरोधयति, रूपेषु त्रयोदश—इति विस्तरेण
गणनीयम् ॥
इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते—
अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते ?
नवाप्तिरन्त्यफलयोः
नवभिरिन्द्रियैः प्राप्तिरन्त्यफलयोः । के पुनरन्त्ये ? स्रोतआपत्ति-
फलम्, अर्हत्त्वं च । के मध्ये ? सकृदागामिफलम्, अनागामिफलं च ।
तत्र स्रोतआपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मन उपेक्षेन्द्रियाभ्यां
चेति नवभिः । आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यम्, आज्ञेन्द्रियं च
धिकाः प्रक्षेप्याः । एषां हि श्रद्धादीनां कुशले चेतस्यवश्यम्भावः । तेन यत्र
त्रीण्युक्तानि तत्राष्टौ, यत्राष्टौ तत्र त्रयोदश, यत्र दश तत्र पञ्चदश, यत्र नव तत्र
चतुर्दश, यत्र पुनरष्टौ तत्र त्रयोदश, यत्र चत्वारि तत्र नव—इति विस्तरेण
गणनीयम् । रूपारूप्यधातोर्नास्ति क्रममरणम् ।
इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते इति । इन्द्रियप्रकरणे इह क्रियमाणे
सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषाः कारित्रविशेषा वा विचार्यन्ते—इत्येकं
व्याचक्षते । अपरे तु व्याचक्षते—इन्द्रियप्रकरणे इन्द्रियस्कन्धके सर्व इन्द्रियाधर्मा
अवस्थाविशेषाः कारित्राविशेषा वा विचार्यन्ते । तेनेहापि ते विचार्यन्ते; तत्प्रत्या-
सन्नत्वादस्य शास्त्रस्येत्यभिप्रायः ।
“नवाप्तिरन्त्यफलयोः” इति । नवभिरिन्द्रियैराप्तिर्नवाप्तिः । कस्य ? अन्त्य-
फलयोः । अन्ते भवे अन्त्ये, अन्त्ये फले अन्त्यफले, तयोः । के पुनरन्त्ये ? स्रोत-
आपत्तिफलम्, अर्हत्त्वफलं च । यथा दण्डस्य द्वावन्तौ भवतः, एवं पंक्त्यवस्थि-
तानां चतुर्णां फलानां स्रोतआपत्तिफलम्, अर्हत्त्वफलं चान्ते भवतः ।
सकृदागामिफलमनागामिफलं च मध्ये भवतः । तयोरन्त्ययोः फलयोर्नवभि-
रेवेन्द्रियैः प्राप्तिः । कतमैर्नवभिः ? इत्याह श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मन-
उपेक्षेन्द्रियाभ्यां चेति नवभिरिति ।
तत्रेयमभिसमयक्रमः—दुःखे धर्मज्ञानक्षान्तिः, दुःखे धर्मज्ञानम्; दुःखेऽन्वय-
ज्ञानक्षान्तिः, दुःखेऽन्वयज्ञानम्; समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम्;
समुदयेऽन्वयज्ञानक्षान्तिः, समुदयेऽन्वयज्ञानम्; निरोधे धर्मज्ञानक्षान्तिः, निरोधे
धर्मज्ञानम्; निरोधेऽन्वयज्ञानक्षान्तिः, निरोधेऽन्वयज्ञानम्; मार्गे धर्मज्ञानक्षान्तिः,
मार्गे धर्मज्ञानम्; मार्गेऽन्वयज्ञानक्षान्तिः, मार्गेऽन्वयज्ञानम्—इति षोडश क्षणा
मार्गे। उभाभ्यां हि तस्य प्राप्तिर्विसंयोगप्राप्तेरावाहकसंनिश्रयत्वाद् यथा-
अर्हत्त्वमस्य पुनः—श्रद्धादिभिः, आज्ञास्यामीन्द्रियवर्ज्यैर्मनेन्द्रियेण,
सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः।
अभिसमय इत्युच्यन्ते। तत्र दुःखे धर्मज्ञानक्षान्तिर्यानमार्गेऽन्वयज्ञानक्षान्ति-
रिति पञ्चदश क्षणा दर्शनमार्ग, "अदृष्टदृष्टेर्ह्यमार्गस्तत्र पञ्चदश क्षणा."
(अभि० ६.२८) इति वचनात्। तच्चाज्ञास्यामीन्द्रियमित्युच्यते। मार्गेऽन्वय-
ज्ञानं तु षोडशः, स भावनामार्गः। ततः प्रभृति आ वज्रोपमसमाधेर्यावानना-
स्रवो मार्गः, सर्वोऽसौ भावनामार्गः। तच्चाज्ञेन्द्रियमित्युच्यते। क्षयज्ञानात्
प्रभृति सर्वोऽनास्रवो मार्गोऽशैक्षमार्गः। तच्चाज्ञातावीन्द्रियमित्युच्यते। तत्र
स्रोतआपत्तिफलं मार्गेऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्यते। श्रद्धादीनि चात्र
पञ्चेन्द्रियाण्यवश्यं भवन्ति, तस्या अवस्थाया कुशलत्वात्। आज्ञास्यामी-
न्द्रियस्वभावा चासौ मार्गेऽन्वयज्ञानक्षान्तिर्वर्तमाना। मनइन्द्रियं च तत्सम्प्रयुक्तं
भवति। उपेक्षेन्द्रियं चावश्यमनागम्याश्रयत्वात्। अनागम्यस्य चोपेक्षेन्द्रियम-
म्प्रयुक्तत्वात्। मार्गेऽन्वयज्ञानं त्वस्यामवस्थायामाज्ञेन्द्रियस्वभावमुत्पादाभिमुखं
वर्तते, तेन श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मनउपेक्षेन्द्रियाभ्या
चेति तत्फलं नवभिः प्राप्यते।
उभाभ्या हि तस्य प्राप्तिरिति। आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमु-
क्तिमार्गेण चाज्ञेन्द्रियस्वभावेन तस्य प्राप्तिः। विसंयोगप्राप्तेरावाहकसंनिश्रय-
त्वाद् यथाक्रमम्; तस्याः विसंयोगप्राप्तेरानन्तर्यमार्गस्यावाहकत्वात्, जनकत्वात्,
विमुक्तिमार्गस्य च तस्याः संनिश्रयत्वात्। आधारत्वादित्यर्थः। द्वाभ्या चोर-
निष्कासनकपाटपिधानवत्। यथा हि द्वयोर्मनुष्ययोरेकेन चौरो निष्कास्यते,
द्वितीयेनास्य कपाटं पिधीयते, तथानन्तर्यमार्गेण विसंयोगप्राप्तिरावाह्यते,
क्लेशप्राप्तिमादाय निरोधात्। विमुक्तिमार्गेणाधार्यते, विसंयोगप्राप्तिसहो-
त्पादात्।
अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैरिति। वज्रोपमसमाध्यवस्था-
यामर्हत्त्वफलं प्राप्यते। श्रद्धादीनि मनइन्द्रियं च पूर्ववत्। वज्रोपमसमाधि-
कलापस्तस्यामवस्थायामानन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमानः। सुखसौमन-
स्योपेक्षेन्द्रियाणा चान्यतमत्। यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते, सुखेन्द्रियं
तत्र वर्तमानम्। अथ प्रथमं द्वितीयं ध्यानं निश्रित्य, तत्र सौमनस्येन्द्रियम्।
अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनानामन्यतमम्
१६८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
सप्ताष्टनवभिर्द्वयोः ॥ १६ ॥
सकृदागाम्यनागामिफलयोः प्रत्येक सप्ताभिराष्टभिर्नवभिश्चेन्द्रियैः प्राप्तिः ।
कथं कृत्वा ? सकृदागामिफलं तावद् यद्यानुपूर्विकः प्राप्नोति, स च लौकिकेन
मार्गेण, तस्य सप्तभिरिन्द्रियै. प्राप्ति. — पञ्चभिः श्रद्धादिभि., उपेक्षामनइन्द्रियाभ्या
निश्रित्यै, तत्रोपेक्षेन्द्रियं वर्तमानम् । क्षयज्ञानकलापस्त्वस्यामवस्थाया विमुक्ति-
मार्ग आज्ञातावीन्द्रियस्वभाव उत्पादाभिमुखो भवति । तेन श्रद्धादिभि पञ्च-
भिराज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मनइन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणा चान्यत-
मेनेति तत्फलं नवभि. प्राप्यते । आनन्तर्यविमुक्तिमार्गाभ्या तत्राप्तिरिति पूर्ववद्
व्याख्यानम् ।
“सप्ताष्टनवभिर्द्वयोः” । प्राप्तिरिति शेष. । प्रत्येकमिति । विस्तर.—सकृदा-
गामिफलस्य सप्तभिरष्टाभिर्नवभिर्वा प्राप्तिः । एवमनागामिफलस्य । तत्प्रतिपाद-
यन्नाह—सकृदागामिफलं तावद् यद्यानुपूर्विकः प्राप्नोति । स च लौकिकेन मार्गे-
णेति । लौकिको मार्ग शान्ताद्युदाराद्याकार , “शान्ताद्युदाराद्याकारा उत्तराधर-
गोचरा.” ( अभि० ६.५० ) इति वचनात् । तेनोत्तरा भूमि शान्तत. प्रणीततो
नि.सरणतश्चेह योगी पश्यति । अधरामोदारिकतो दुखितत स्थूलभित्तिकतश्च
पश्यति । स चायं चतु.प्रकारो वर्ण्यते—प्रयोगमार्ग., आनन्तर्यमार्ग , विमुक्ति-
मार्गः, विशेषमार्गश्च । तत्र प्रयोगमार्गो यत आनन्तर्यमार्ग उत्पद्यते, स पुनयेन
क्लेशान् प्रजहाति । विमुक्तिमार्गोऽप्यानन्तर्यमार्गादनन्तरमुत्पद्यते क्लेशप्रहाण-
प्राप्तेराधारक. । विशेषमार्गस्तत उच्चं विशिष्टो मार्गः ।
तेन मार्गेण नवप्रकारा. क्लेशा. प्रहेया.—अधिमात्राधिमात्र., अधिमात्र-
मध्य., अधिमात्रमृदु, मध्याधिमात्र , मध्यमध्य., मध्यमुदु., मृद्वधिमात्र.,
मृदुमध्य., मृदुमृदुश्चेति । तद् यदि पृथग्जन. प्रजहाति दर्शनभावनाहेयान् क्ले-
शान् मिश्रीकृत्य, तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रजहाति, मृदु-
मृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति, एवं
यावदधिमात्राधिमात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्या मृदुमृदुक्लेशप्रकारं प्रज-
हाति । आर्यस्तु भावनाहेयानेव क्लेशाँस्तथैव नवधा कृत्वा प्रजहाति, दर्शन-
हेयाना दर्शनमार्गेण पाक्प्रहीणत्वात् ।
लोकोत्तरस्तु भावनामार्गस्तथैव षोडशाकार., अनित्याकारभेदात् । स
चापि तथैव प्रयोगादिमार्गभेदाच्चतुर्भेद. । इहापि मृदुमृदुभ्यामानन्तर्यविमुक्ति-
मार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति । एवं यावदधिमात्राधि-
मात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्या मृदुमृदुक्लेशप्रकारं प्रजहाति ।
निर्देशः ] द्वितीयं कोशस्थानम् १६९
चेति । अथ लोकोत्तरेण मार्गेण, तस्याष्टाभिरिन्द्रियैः प्राप्तिः । आज्ञेन्द्रियमष्टमं
भवति ।
अथ भूयोवीतराग प्राप्नोति, तस्य नवभि, येनैव स्रोतआपत्तिफलस्य ।
अनागामिफल यद्यानुपूर्वीकः प्राप्नोति, स च लौकिकेन मार्गेण, तस्य
सप्तभिरिन्द्रियैः प्राप्ति, यथा—सकृदागामिफलस्य । अथ लोकोत्तरेण मार्गेण,
तस्याष्टाभिस्तथैव ।
एष लौकिक-लोकोत्तरमार्गयोर्दिङ्मात्रनिर्देशः । तत्सकृदागामिफलमानुपूर्वी-
केण वा लभ्येत, भूयोवीतरागेण वा । तदानुपूर्वीको यः स्रोतआपत्तिफलं
प्राप्य क्रमात् सकृदागामिफलं प्राप्नोति, कश्चासौ ? य सकलवन्धन एकप्रकारा-
द्युल्लिखितो वा यदि न षष्ठप्रकारोपलिखितो नियाममवक्रामति, षोडशे
चित्तक्षणे स स्रोतआपन्नो भवति । स भावनाहेयस्यैकस्य यावत् षष्ठस्यैव वा
प्रकारस्य प्रहाणाय शमथचरितत्वाल्लौकिकमपि मार्गमुत्पादयति । स षष्ठ-
प्रकारप्रहाणे सकृदागामिफलं प्राप्नोति । तस्य फलस्य सप्तभिरिन्द्रियैः प्राप्तिः
श्रद्धादिभिः पञ्चभिर्मनइन्द्रियेणोपेक्षेन्द्रियेण च सप्तमेनानागम्यनिश्रयत्वात् । अथ
लोकोत्तरेण मार्गेण तस्याष्टाभिरिन्द्रियैः प्राप्तिः । तैरेवाज्ञेन्द्रियेण चाष्टमेन । तान्येव
हि श्रद्धादीनि सप्तेन्द्रियाण्याज्ञेन्द्रियाख्या लभन्ते, अनास्रवत्वात् ।
अथ भूयोवीतराग इति । यो लौकिकेन मार्गेण पृथग्जनावस्थाया षट्प्रकारो-
पलिखितोऽभूत्, स 'भूयोवीतराग' इत्युच्यते, भूयसा प्रकारेण वीतराग इति
कृत्वा । स यदि सकृदागामिफलं प्राप्नोति । कथं स प्राप्नोति इति ? अभि-
समयक्रमेण पूर्वोक्तेन मार्गेऽन्वयज्ञानक्षान्त्यवस्थाया प्राप्नोति । तस्य नवभिर्य-
थैव स्रोतआपत्तिफलस्य । श्रद्धादिभिर्गज्ञातावीन्द्रियवर्ज्यै । मनउपेक्षेन्द्रियाभ्या
चेति पूर्ववद् व्याख्यानम् । अयं हि स्रोतआपत्तिफलमप्राप्यैव षोडशे क्षणे
सकृदागामी भवति । अनागामिफलं यद्यानुपूर्वीकः प्राप्नोतीति । इहानुपूर्वीको यः
स्रोतआपत्तिफलं च प्राप्यानागामिफलं प्राप्नोति, यो वा भूयोवीतरागो भूत्वा
स्रोतआपत्तिफलमलब्ध्वैव सकृदागामिफलमेव च लब्ध्वानागामिफलं प्राप्नोति ।
स च यदि लौकिकेन मार्गेण प्राप्नोति, तस्य सप्तभिरिन्द्रियैः प्राप्ति । यथा सकृदा-
गामिफलस्य, आनुपूर्वीकस्येत्यभिप्रेतम् । श्रद्धादिभिः पञ्चभिर्मनउपेक्षेन्द्रियाभ्या
चेत्यर्थः । अथ लोकोत्तरेण मार्गेण तस्याष्टाभिस्तथैवेति । यथा सकृदागामिफल-
स्यैवाष्टाभिरित्यर्थः । आज्ञेन्द्रियमष्टमं भवतीति ।
१७० भाष्यस्फुटार्थासहिते ऽभिधर्मकोशे [ इन्द्रिय-
अथ वीतरागः प्राप्नोति, तस्य नवभिः प्राप्तिः, यथा—स्रोतआपत्तिफलस्य ।
अय तु विशेषः—सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति, निश्रय-
विशेषात् । यदाप्ययमानुपूर्वीको नवमे विमुक्तिमार्गे तीक्ष्णेन्द्रियत्वाद् ध्यानं
प्रविशति लौकिकेन मार्गेण, तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति । तत्र
हि नवमे विमुक्तिमार्गे सोमनस्येन्द्रियमष्टमं भवति । आनन्तर्यमार्गे तूपेक्षेन्द्रियमेव,
नित्यमुभाभ्या च तस्य प्राप्तिः । अथ लोकोत्तरेण प्रविशति, तस्य नवभिरिन्द्रियैः
प्राप्तिः । आज्ञेन्द्रियं नवमं भवति ॥ १६ ॥
अथ वीतराग इति । कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे
प्रहीणे । प्रथमादपि वा ध्यानाद् यावदाकिञ्चन्यादपि वा वीतरागो योऽनागा-
मिफलं प्राप्नोति । तस्य नवभिः प्राप्तिः । यथा स्रोतआपत्तिफलस्य । स्रोतआपत्ति-
फलस्य हि दर्शनमार्गेण प्राप्तिः । अस्य च दर्शनमार्गेणैव प्राप्तिरिति तुल्यत्वम् ।
अयं तु विशेषः—सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति निश्रयविशेषा-
दिति । यदि तृतीयं ध्यानं निश्रित्य नियामकवक्रामति, सुखेन्द्रियं तत्र भवति ।
अथ प्रथमद्वितीये ध्याने निश्रित्य, सौमनस्येन्द्रियं तत्र भवति । अथाना-
गम्यध्यानान्तरचतुर्थध्यानानामन्यतमं निश्रित्य, उपेक्षेन्द्रियं तत्र भवतीति ।
यदाप्ययमानुपूर्वीक इति । विस्तर—यदाप्ययमधिगतपूर्वफल आनुपूर्वीकस्तीक्ष्णे-
न्द्रियः । स नवम विमुक्तिमार्गं ध्यान प्रविशति मौलं लौकिकेन मार्गेण, तदापि
अष्टाभिरिन्द्रयैरनागामिफलं प्राप्नोति । तत्र मौलध्यानमगृह्णातो विमुक्तिमार्गो
भवति, तच्च सौमनस्येन्द्रियम् । आनन्तर्यमार्गस्त्वनागम्यसंगृहीत एव ।
यदि न प्रविशति, तत्र चोपेक्षेन्द्रियमेव, नान्यथा । तस्य प्राप्तिरष्टाभि श्रद्धा-
दिभिः पञ्चभिर्मन उपेक्षासौमनस्येन्द्रियैश्चेति । उभाभ्या च तस्य प्राप्तिरिति ।
आनन्तर्यविमुक्तिमार्गाभ्यां चोरनिष्कासनकपाटपिधानवदिति व्याख्यातमेतत् ।
अथ लोकोत्तरेण प्रविशतीति । स एवानुपूर्वीकस्तादृगेन्द्रियो वेदितव्यः, अधि-
कारानुवृत्तेः । तस्य नवाभिरिन्द्रियैः प्राप्तिः । तैरेव तावदुक्तैरिन्द्रियैः । आज्ञेन्द्रियेण
च नवमेन । तान्येव हीन्द्रियाण्यनास्रवत्वादाज्ञेन्द्रियाख्या लभन्ते ।
इदमिह चोद्यते—कस्मादानुपूर्वीक एवमुक्त, न पुनर्वीतरागपूर्वी ? न हि
वीतरागपूर्व्यनागम्यनिश्रयेण दर्शनमार्गमुत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं
ध्यानं प्रविशति, तत्राधिगतेरनादरात् । आनुपूर्वीको हि मौलध्यानाथी, तस्या-
नधिगतपूर्वत्वात् । तस्मादस्ति सम्भवो यदसौ मौलमव प्रविशति । वीतराग-
पूर्वी तु चतु मत्यदर्शनं प्रति कृतादर., न ध्यानं प्रति । इति न तत्र षोडशे
चित्तक्षणे मौलं ध्यानं प्रविशतीत्यभिप्राय ॥ १६ ॥
निर्देश ] द्वितीयं कोशस्थानम् १७१
यत्तर्हि अभिधर्म उक्तम्—“कतिभिरिन्द्रियैरर्हत्त्वं प्राप्नोतीत्याह—एका-
दशभिः” ( ) इति, तत् कथं नवभिरित्युच्यते ? नवभिरेव
तत् प्राप्नोति ।
एकादशभिरर्हत्त्वमुक्तं त्वेकस्य सम्भवात् ।
अस्ति सम्भवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्योपेक्षाभिरर्हत्त्वं
प्राप्नुयाद्, अत एकादशभिरित्युक्तम्। न तु खलु सम्भवोऽस्ति सुखादीनामे-
कस्मिन् काले।
कथमनागामिनोऽप्येष प्रसङ्गो न भवति ? न ह्यसौ परिहीणः कदाचित्
सुखेन्द्रियेण प्राप्नोति ।
“नवभिरन्त्यफलयोः” (अभि० २।१६) इत्युक्तम्, तद्विरोधयति—यत्
तर्हि अभिधर्म उक्तम् । ज्ञानप्रस्थाने । “कतिभिरिन्द्रियैरर्हत्त्वं प्राप्नोति ? इत्याह—
एकादशभिः” इति। तत्कथं न विरुध्यते इत्यभिप्रायः ।
“एकस्य सम्भवात्” इति। कस्यचिदेकस्य पुद्गलस्य सम्भवः। न सर्वस्य
सम्भवः। यो हि मृद्विन्द्रिय परिहाय परिहाय सुखसौमनस्योपेक्षाभिः एकादशभिः
निश्चयविशेषात् पार्यायिकीभिरर्हत्त्वं प्राप्नुयात्, तं प्रति एवमुक्तम् । एकादश-
भिरिति । न तु सम्भवोऽस्ति मुखसौमनस्योपेक्षाणा एकस्मिन् काले समवधान-
मित्यर्थः । चित्तचैत्तानामेकैकद्रव्योत्पत्ते । यो हि कश्चिन्मृद्विन्द्रियः पुद्गलोऽनागम्यं
वोपेक्षेन्द्रियनिश्चयं निश्रित्यार्हत्त्वं प्राप्नुयात्, तस्य तत्प्राप्तिरुपेक्षेन्द्रियेण । ततः
पुनरपि परिहीयते । तत प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नु-
यात्, तस्य तत्प्राप्ति सौमनस्येन्द्रियेण । ततः पुनरपि परिहीयते । ततः स
तृतीयं ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नुयात्, तस्य तत्प्राप्तिः सुखेन्द्रियेण । इति
प्रत्येकं तत्र पत्याप्ताववश्यं नवैवेन्द्रियाणि व्याप्रीयन्ते—श्रद्धादीनि पञ्च, मन-
आज्ञातातवीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमदिति । पुनः पुनः
प्राप्तेस्तदेकादशभिरित्युक्तम् ।
कथमनागामिनोऽप्येष प्रसङ्गो न भवतीति। कस्मात् तत्र शास्त्रेऽर्हत्त्वफल-
मेवैकादशभिः प्राप्नोति इत्युक्तम्, न तूक्तम्—अनागामिफलमपीति ? न ह्यसौ
परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति। असावनागामी तृतीयध्यानादूर्ध्व-
भूमिलाभात् परिहीणो भवति, ऊर्ध्वभूमेरेव परिहीणो भवति, नासावनागामि-
फलात् परिहीण इत्युच्यते। एवं यावद् द्वितीयध्यानात् । यदा तु प्रथमात्
परिहीणो भवति, तदानागामिफलात् परिहीण इत्युच्यते । पञ्चावरभागीय-
१७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
न च वीतरागपूर्वो परिहीयते; तद्वैराग्यस्य द्विमार्गप्रापणात् ॥
प्रहाणाद्धि अनागामिफलं व्यवस्थाप्यते । यदा स च कामवैराग्यात् परिहीण,
तदा तृतीयं ध्यानमस्य नास्ति, तत् कथं सुखेन्द्रियेणानागामिफलं प्राप्नुयात् !
तत आह—न ह्यसौ परिहाण कदाचित् सुखेन्द्रियेण प्राप्नोतीति, किं सौमन-
स्येन्द्रियेण प्राप्नुयात्, यत एव सुखेन्द्रियस्यैव प्रतिषेधः प्राप्नुयाद् यदि
नवमे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत् । नैतदस्ति—यो हि परिहीणो भवेत्
स मृद्विन्द्रिय, यश्च मृद्विन्द्रिय. स न शक्नोति नवमे विमुक्तिमार्गे मोलं ध्यानं
प्रवेष्टुम्, तीक्ष्णेन्द्रियस्तु शक्नोति, इन्द्रियसञ्चारस्यादुष्करत्वात् ? अस्त्येतत्,
किन्तु यद्यसौ मृद्विन्द्रिय आनुपूर्वीऽनागामिफलं प्राप्य ततश्च परिहीणो भूत्वा
इन्द्रियसञ्चारं कुर्यात्, इन्द्रियसञ्चारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणा-
नागामिफलं प्राप्नुवन् यदि नवमे विमुक्तिमार्गे मौलं प्रविशेत्, तस्य तदानागा-
मिफलप्राप्तिरष्टाभिर्वाभवेद् भवेति—श्रद्धादिभि पञ्चभि, मनइन्द्रियेण चान-
न्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्गसंगृहीतेनेति ।
लोकोत्तरेण चेन्मौल ध्यानं प्रविशेत्, एभिश्चाष्टाभिराज्ञेन्द्रियेण च नवमेन
इत्यवगन्तव्यम् । तस्मात् सूक्तम्—न ह्यसौ परिहीण कदाचित् सुखेन्द्रियेण
प्राप्नोतीति ।
वीतरागपूर्वी तर्ह्येकादशभिस्तत्प्राप्नुयात् । कथम् ? यो मृद्विन्द्रिय पुद्गल-
स्तृतीयध्यानलाभो तृतीय ध्यानं निश्रित्य नियाममवक्रामेत्, स षोडशे चित्तक्षणे
अनागामी भवति, सा तत्फलप्राप्ति सुखेन्द्रियेण श्रद्धादिभि. पञ्चभिर्मनआज्ञा-
स्यामीन्द्रियाज्ञेन्द्रियैश्चेति । स ततोऽनागामिफलात् परिहीण इन्द्रियोत्तापनेन
तीक्ष्णेन्द्रियमात्मानं कृत्वा अनागम्यनिश्रयेणैवानागामिफलं प्राप्नुवन्नवमे
विमुक्तिमार्गे मौलं प्रविशेत् । तस्य तत्फलप्राप्ति. पूर्ववदुपेक्षेन्द्रियेण सौमनस्येन्द्रि-
येण च श्रद्धादिभिश्चापि पञ्चभिर्मनइन्द्रियेण चाष्टमेन लोकोत्तरमार्गत्वादा-
ज्ञेन्द्रियेणापि नवमेन—इत्येवं द्वयो.कालयोरेकादशभिरिन्द्रियै. स पुद्गलस्तदना-
गामिफलं प्राप्नुयादिति । ततस्तत्प्रतिषेधार्थमिदमाह—न च वीतरागपूर्वी परि-
हीयते । तद्वैराग्यस्य द्विमार्गप्रापणादिति । न च कामवीतराग. केनचिन्निश्रयेण
नियाममवक्रान्त परिहीयते । कस्मात् ? तद्वैराग्यस्य कामवैराग्यस्य द्विमार्गप्राप-
णात् लौकिकलोकोत्तरमार्गप्रापणात् । इह फलं द्विविधम्—संस्कृतम्, असंस्कृतं
च । “संस्कृतानास्कृतं फलम्” ( अभि० को० ६.५१ ) इति वचनात् । तत्र
यदसंस्कृतं विसंयोगलक्षणमनागामि फलम्, तत्पूर्वं लौकिकेन मार्गेण प्राप्तम्,
नियामावक्रान्तौ च लोकोत्तरमार्गेण पुनस्तत्प्राप्तम् । द्विविधा हि तस्य प्राप्ति.—
लौकिकी, लोकोत्तरा च । तस्मात् स्थिरं तद्वैराग्यम् । तस्मादसौ न परिहीयते ।
निर्देश ] द्वितीयं कोशस्थानम् १७३
इदं विचार्यते—कतमेनेन्द्रियेण समन्वागतः कतिभिरवश्यं समन्वागतो
भवति ? तत्र—
उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ १७ ॥
य एषामुपेक्षादीनामन्यतमेन समन्वागतः, सोऽवश्यं त्रिभिरिन्द्रियै
समन्वागतो भवत्येभिरेव । न ह्येषामन्योऽन्येन विना समन्वागम ।
शेषैस्त्वनियमः — स्यात् समन्वागतः, स्यादसमन्वागतः ।
तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैरारूप्यधातूपपन्नो¹ न समन्वागतः ।
कामधातौ च येनाप्रतिलब्धविहीनानि । कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः ।
स्त्रीन्द्रियेण रूपारूप्योपपन्नः । कामधातौ येनाप्रतिलब्धविहीनम् । एवं पुरुषेन्द्रियेण ।
ननु च "फलाद्धानिर्न पूर्वकात्" (अभि० ६.५८) दर्शनहेयानामवस्तुत्वा-
दित्येतदपि कारणान्तरमस्ति, कस्मात् तदिह नोक्तमिति ? एतदपि वक्तव्यम् ।
, अपि खलु पर एव ब्रूयात्—मा भूद् दर्शनहेयक्लेशवैराग्यपरिहाणिः, भावना-
हेयक्लेशमात्रवैराग्यपरिहाणिस्तु कस्मादस्य परिहीणधर्मस्य न भवेत् ? पञ्चा-
वरभागीयप्रहाणाद्धि अनागामिफलं भवति । तत्र च सत्कार्यदृष्टिः शीलव्रत-
परामर्शो विचिकित्सा च दर्शनहेयाः, कामच्छन्दो व्यापादश्च भावनाहेयौ,
तयोश्च तस्य वीतरागपूर्विणोऽभिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लौकिकेन
मार्गेण प्राप्तस्य तत्सामर्थ्यात् पुनरनास्रवा प्राप्तिर्भवति, अनास्रवगोत्राणां लब्ध-
त्वात् । अनास्रवं हि नवमविमुक्तिमार्गस्वभावं संस्कृतम्, अनागामिफलमसंस्कृतं
च कामच्छन्दादिप्रहाणं त
१७४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सुखेन्द्रियेण चतुर्थध्यानारूप्योपपन्नाः पृथग्जना न समन्वागताः । सौमनस्येन्द्रियेण
तृतीयचतुर्थध्यानारूप्योपपन्नाः पृथग्जना एव । दुःखेन्द्रियेण रूपारूप्योपपन्नः ।
दौर्मनस्येन कामवीतराग । श्रद्धादिभि समुच्छिन्नकुशलमूलः । आज्ञास्यामीन्द्रियेण
पृथग्जनफलस्था न समन्वागता । आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्था ।
आज्ञातावीन्द्रियेण पृथग्जनशैक्षा असमन्वागताः ।
अप्रतिषिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः ॥ १७ ॥
चतुर्भिः सुखकायाभ्यां
य सुखेन्द्रियेण समन्वागत, सोऽवश्यं चतुर्भिरिन्द्रियैः—तैश्च त्रिभि-
रुपेक्षादिभिः, सुखेन्द्रियेण च ।
अन्यथा-हि रूपिभिरिन्द्रियैरारूप्योपपन्नो न समन्वागत इत्येवोच्यते । अप्रति-
[L1
मन्वागम"!
Wait, look at "ध्या नो":
Wait, is there an extra aa-matra? "ध्यानाेप..." - ah, old fonts sometimes used 'ा' + 'े' = 'ो', but here it looks like "ध्यानाेप..." or "ध्यानोप..."?
It's 'ध्यानोपपत्तावसमन्वागम' (ध्या + नो + प + प + त्ता + व + स + म + न्वा + ग + म).
Wait, look at 'नो': it has the letter 'न' with 'ो'. Wait, is that 'न' or 'ना'?
In "चतुर्थध्यानाेपपत्तावसमन्वागम": there is 'न' followed by 'ा' with a top stroke, so "नो".
L16: ऽसमन्वागतः । दौर्मनस्येन श्रद्धादिभिश्चान्यै पूर्ववदसमन्वागमो वक्तव्यः ।
L17: “पञ्चभिश्चक्षुरादिमान्” इति चक्षुःश्रोत्रघ्राणजिह्वावानित्यर्थ । तेन चेति ।
L18: तेन चक्षुषा । चक्षुषि सत्यवश्यं कायेन्द्रियम्, न तु श्रोत्रादीनि, कामधाता-
L19: वलब्धविहीनत्वसम्भवात् । स्त्रीपुरुषेन्द्रियादीना तु पूर्ववद् व्यभिचारो वक्तव्यः ।
L20: एवं श्रोत्रघ
१७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
दुःखी तु सप्तभिः
यो दुःखेन्द्रियेण, सोऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः।
स्त्रीन्द्रियादिमान् ॥ १८ ॥
अष्टाभिः
य स्त्रीन्द्रियेण समन्वगतः सोऽवश्यमष्टाभिः—तैश्च सप्तभिः, स्त्रीन्द्रियेण
च। आदिशब्देन पुरुषेन्द्रियदौर्मनस्यश्रद्धादीनां सङ्ग्रहः। तद्वानपि प्रत्येकमष्टाभिः
समन्वागतो भवति—तैश्च सप्तभिः, अष्टमेन च पुरुषेन्द्रियेण । एवं दौर्मनस्ये-
न्द्रियेण। श्रद्धादिमांस्तु तैश्च पञ्चभि , उपेक्षाजीवितमनोभिश्च ।
एकादशभिस्तवाज्ञातेन्द्रियान्वितः ।
आज्ञात इन्द्रियमाज्ञातेन्द्रियम् । य आज्ञेन्द्रियेण¹ समन्वगत., सोऽवश्य-
“दुःखी तु सप्तभिः” इति । कामधातूपपन्नो ह्येषः। तस्मादवश्यं काये-
न्द्रियेण चतुर्भिश्च वेदनेन्द्रियैरिति दौर्मनस्यवर्ज्यै। तद्वीतरागावस्थाया दौर्मनस्यं
व्यभिचरति । मनोजीवितेन्द्रिये च स्त इत्यवश्यं सप्तभिरिन्द्रियै समन्वागत.।
शेषेन्द्रियव्यभिचारस्तु पूर्ववद् वाच्य ।
“स्त्रीन्द्रियादिमान् अष्टाभिः” इति । स्त्रीपुरुषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधि-
प्रज्ञेन्द्रियवानित्यर्थ । जीवितमन सुखदु खसौमनस्योपेक्षेन्द्रियाणामुक्तत्वात्,
आज्ञातावीन्द्रियादीना च त्रयाणा वक्ष्यमाणत्वात् । एषामेवाष्टानामिन्द्रियाणा
ग्रहणं भवति । यः स्त्रीन्द्रियेण समन्वागत इति। स कामधातूपपन्न एव स्त्री-
न्द्रियवत्त्वात्। अत' सोऽवश्यमष्टाभिरिन्द्रियै समन्वगत । कतमे. ? इत्याह—
तैश्च सप्तभिः स्त्रीन्द्रियेण चेति । कायजीवितमनोभिश्चतुर्भिश्च वेदनेन्द्रियैरिति
सप्तभि , स्त्रीन्द्रियेण चाष्टमेन । शेषैरनियम । यथोक्तैश्चक्षुरादीना वैकल्यसम्भ-
वादित्यादिभि.कारणे.। स्त्रीन्द्रियवत् पुरुषेन्द्रियवानपि वक्तव्य । दौर्मनस्यवानपि
कामोपपन्न. कामवीतराग इति तथैव ते. सप्तभिर्दौर्मनस्येन च। श्रद्धावानपि
त्रैधातुक. सत्त्व इति तैः पञ्चभिः श्रद्धादिभिरविनाभाविभिरुपेक्षाजीवितमनोभिश्च
समन्वागत.। शेषैरनियम पूर्ववत्। यथा श्रद्धावानेवं यावत् प्रज्ञावान् ।
आज्ञाते इन्द्रियमाज्ञातेन्द्रियमिति । अज्ञात एवेन्द्रियमाज्ञातेन्द्रियम् । निरव-
शेषाज्ञात इन्द्रियमित्यर्थ. । आज्ञेन्द्रियमपि ह्याज्ञात इन्द्रियम्, न तु निरवशेषे,
सावशेषत्वात् प्रहेयस्य। अथ वा—पदकदेशग्रहणेन आज्ञातावी पुद्गल अज्ञात
इत्युच्यते, तस्येन्द्रियमाज्ञातेन्द्रमिति । य आज्ञेन्द्रियेण सोऽवश्यमेकादशभिरिति ।
१. आज्ञातेन्द्रियेण—का०.
ण? Let's re-read: पुद्गलसामान्यमिहाधिक्रियते, न त्वेकेनेन्द्रियेगावश्यकसमन्वा-? Look at the letters after पुद्गलसामान्यमिहाधिक्रियते,: नंorन? कorत्वे? Wait, the image has: नंकनैवेन्द्रियेगवश्यकसमन्वा-? Wait, look at line 27: नwith dot? No, it'sन॑orन? Then क? No, it's त्वे? Look at न त्वेकेनेन्द्रियेणावश्यकसमन्वा-: Wait, "पुद्गलसामान्यमिहाधिक्रियते, न त्वेकेनेन्द्रियेणावश्यकसमन्वागमव्यभिचारादुच्यते ।" Let's look at the letters in the image: न त्वे के ने न्द्रि ये णा व श्य क स म न्वा- Wait, look at त्वे: the character has a horizontal stroke with loop, like क? In some fonts, त्वेlooks likeत्वे! Wait, look at the first two letters after , : Is it न त्वेorनंक? It is न त्व
१७८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः ।
युक्तः
समुच्छिन्नकुशलमूलो निःशुभः । स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वा-
गतः—पञ्चभिर्वेदनादिभिः, कायमनोजीवितैश्च । वेदना हि वित्, वेदयत
इति कृत्वा । वेदनं वा वित्, यथा—सम्पदनं सम्पत् ।
यथा च निःशुभ सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः,
बालस्तथारूप्ये
बाल इति पृथग्जनस्याख्या ।
कतमैरष्टाभिः ?
रंसमन्वागतो य आरूप्यधातूपपन्न , न तु यो रूपधातूपपन्नः । विस्तरेण यावत्
कश्चिदेव श्रद्धादिभिरसमन्वागतो यः समुच्छिन्नकुशलमूलः, न तु स एवारूप्य-
धातूपपन्नः । तथेहापि यावानाज्ञास्यामीन्द्रियोपेतः सर्वोऽसावेभिर्यथोक्तैस्त्रयोदश-
भिरिन्द्रियैरवश्यं समन्वागतः । व्यभिचारस्तु सम्भवतः कस्यचिदेव । तथा हि
कस्यचिच्चक्षुरिन्द्रियेणासमन्वागमो योऽन्धः, कस्यचिच्छ्रोत्रेन्द्रियेण यो बधिरः ।
एवं घ्राणादिभिः, यावत् कस्यचित् स्त्रीन्द्रियेण यः पुरुषः, कस्यचित् पुरुषेन्द्रियेण
या स्त्री, कस्यचित् दौर्मनस्येन यो वीतरागः—इत्येवमेवावगन्तव्यम् ॥ १९ ॥
“सर्वाल्पैर्निःशुभोऽष्टाभिः” इति । एकः पुद्गलः सर्वेभ्योऽल्पैर्यैः समन्वागतः ।
स कियद्भिरल्पैः समन्वागतः ? इत्याह—निःशुभः । यः समुच्छिन्नकुशलमूलः ।
स च कामधातावेव । “छिनत्ति स्त्रीपुमान् दृष्टिचरितः” ( अभि० को० ४।८० )
इति । कामवैराग्यं वास्य न सम्भवति । तस्मादस्य पञ्चापि वेदनेन्द्रियाणि
सन्ति । कायेन्द्रियं च जीवितमनसी च स्त एव सर्वत्र । चक्षुरादीनि तु न सन्ति,
क्रममरणावस्थायामन्धत्वाद्यवस्थायां च तेषामभावात् । वेदयत इति कृत्वेति ।
कर्तरि क्विप् । वेदनं वा विदिति । भावसाधन औणादिकः क्विप् । ज्ञापकं
दर्शयति—यथा सम्पादनं सम्पत् ।
“तथारूप्ये” इति । संख्यामात्रं तथाशब्देन सम्बध्यते । एकान्तकुशलत्वा-
च्छ्रद्धादीनि शुभग्रहणेन गृह्यन्त इति । शुभान्येव नाकुशलाव्याकृतानि यानि
तानि शुभानीत्यर्थः । आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्ग इति । तान्यप्ये-
कान्तकुशलानि । तस्मात्तद्ग्रहणप्रसङ्ग इति । न, अणाधिकारादिति । ‘निःशुभो
ऽष्टाभिः’ इत्येतस्मात् ।
निर्देश ] ' द्वितीयं कोशस्थानम् १७९
उपेक्षायुर्मनःशुभैः ॥ २० ॥
उपेक्षाजीवितमनोभिः, श्रद्धादिभिश्च । एकान्तकुशलत्वात् श्रद्धादीनि
शुभग्रहणेन गृह्यन्ते । आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः ? न; अष्टाधि-
काराद्, बालाधिकाराच्च ॥ २० ॥
अथ यः सर्वबहुभिरिन्द्रियैः समन्वागत, स कियद्भिः ?
बहुभिर्युक्त एकान्नविंशत्याऽमलवर्जितैः ।
अनास्रवाणि त्रीणि वर्जयित्वा ।
स पुनः—
द्विलिङ्गः
द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः '
कश्चापरः ?
आर्यो रागी
अवीतरागोऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः ।
एकलिङ्गद्वयमलावर्जितैः ॥ २१ ॥
एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा । आज्ञातावीन्द्रियं द्वयोश्चान्यतरत् ।
उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागताना विस्तरेण प्रभेदः ॥ २१ ॥
“उपेक्षायुर्मनःशुभैः” अष्टाभिरित्याज्ञास्यामीन्द्रियादीना निरासः कृतो
भवति; अष्टशब्देन कृतावधित्वात् । बालाधिकाराच्चेति । बालोऽत्राधिक्रियते,
“बालस्त्वारूप्ये” इति वचनात् । आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो
भवति, “पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभः” ( ) इति
वचनात् । तस्मात् तेष्वनास्रवेष्वप्रसङ्ग इति ॥ २० ॥
द्विव्यञ्जनो यः समग्रेन्द्रिय इति : द्विव्यञ्जनोऽपि हि समग्रचक्षुरादिक एव-
मेकान्नविंशत्या समन्वागत., नान्यथा ।
आज्ञातावीन्द्रियं द्वयोश्चान्यतरदिति । रागित्वादाज्ञातावीन्द्रियमेकान्तेन वर्ज-
यितव्यम्, आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामवश्यं पर्यायेण समन्वागमात् ।
यदाज्ञास्यामीन्द्रियं न तदाज्ञेन्द्रियम्, यदाज्ञेन्द्रियं न तदाज्ञास्यामीन्द्रियम् ।
उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेद इति । “अष्टादशानां
धातूना कतीन्द्रियं कति नेन्द्रियम्” इति धातुप्रभेदप्रसङ्गेन । “धर्मार्धं इन्द्रियं ये
१८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
इदमिदानीं विचार्यते—किमेते संस्कृता धर्मा यथा भिन्नलक्षणाः, एवं
भिन्नोत्पादाः ? उताहो नियतसहोत्पादा अपि केचित् सन्ति ? सन्तीत्याह ।
सर्व इमे धर्माः पञ्च भवन्ति—रूपम्, चित्तम्, चैतसिकाः, चित्तविप्रयुक्ताः
संस्काराः, असंस्कृतं च । तत्रासंस्कृतं नैवोत्पद्यते ।
रूपिणां तु धर्माणामयं नियमः—
कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः ।
सर्वसूक्ष्मो हि रूपसङ्घात परमाणुरित्युच्यते; यतो नान्यतरो विज्ञायेत ।
स कामधातावशब्दकोऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते, नान्यतमेन हीनः ।
अष्टौ द्रव्याणि--चत्वारि महाभूतानि, चत्वारि चोपादायरूपाणि रूपगन्धरस-
स्प्रष्टव्यानि ।
सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते, दशद्रव्यको वा ।
तत्र तावत्—
कायेन्द्रियी नवद्रव्यः
च द्वादशाध्यात्मिका स्मृता" (अभि० को० १.४८) इति इन्द्रियाण्याग
तानि । तेषा प्रभेदः "अमलं त्रयम्" (अभि० को० २६) इत्येवमादि-
विस्तरेणोक्त ॥ २१ ॥
"किमेते संस्कृता धर्माः" इति । ये ते स्कन्धधात्वायतनत्वेनाभिहिता
पूर्वम् । यथा भिन्नलक्षणा इति । रूप्यते इति रूपम्, अनुभवो वेदना, निमित्तो-
द्ग्रहणं संज्ञेत्यादि । संस्कृतग्रहणमुत्पत्तिमत्त्वात् । उताहो नियतसहोत्पाद।
अपि केचित् सन्तीति । सन्ति हि केचित् सहोत्पादा, न तु नियतसहोत्पादा. ।
यथा चक्षुरादिसहोत्पादास्तद्विज्ञानादयश्चक्षुरादीना सभाग-तत्सभागभावान् ।
तस्मादेवं पृच्छति । सर्व इमे धर्माः पञ्च भवन्तीति । पञ्चवस्तुकनयेनेवं सर्वधर्म-
संग्रहॊ व्यवस्थाप्यते । रूपादिकलापमुखेन धर्मनिर्देश, सुखप्रतिपत्त्यर्थम् । तत्रा-
संस्कृतं नैवोत्पद्यत इति । न तत्प्रति सहोत्पादनियमश्चिन्त्यते ।
सर्वसूक्ष्मो रूपसंघातः परमाणुरिति । संघातपरमाणुर्न द्रव्यपरमाणु. ।
यत्र हि पूर्वापरभागो नास्ति तत् सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुरितीष्यने ।
तस्माद्विशिनष्टि—संघातः परमाणुरिति ।
"कामेऽष्टद्रव्यकोऽशब्दः" इति । कामधातौ यदा शब्दोऽत्र नोत्पद्यते, त दा
नियतमष्टद्रव्यक एव भवति, नातो न्यूनद्रव्यक. ।
निर्देशः ] द्वितीयं कोशस्थानम् १८१
कायेन्द्रियमत्रास्तीति सोऽयं कायेन्द्रियी। तत्र नव द्रव्याणि—तानि
चाष्टौ, कायेन्द्रियं च।
दशद्रव्योऽपरेन्द्रियः ॥ २२ ॥
अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि—तान्येव नव, चक्षुः-
श्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम्।
सशब्दाः पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादशद्रव्यका
उत्पद्यन्ते। अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपि य उपात्तमहाभूतहेतुकः।
कथमविनिर्भागे१ भूतानां कश्चिदेव सङ्घातः कठिन उत्पद्यते, कश्चिदेव
द्रव उष्णो वा, समुदीरणो वा? यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोप-
लब्धिः; सूचीतूलीकलापस्पर्शवत्२, सक्तुलवणचूर्णरसवच्च।
“अपरेन्द्रियः” इति। अपरमिन्द्रियमस्मिन्नित्यपरेन्द्रिय., चक्षुरादिमा-
नित्यर्थः। यत्र हि चक्षु श्रोत्रादि वा तत्र कायेन्द्रियेण भवितव्यम्, तत्प्रतिबद्ध-
वृत्तित्वाच्चक्षुरादीनाम्। सशब्दाः पुनरेते परमाणव इत्यष्टद्रव्यकादय, संघात-
परमाणव, सशब्दा उत्पद्यमाना यथाक्रमं नवदशैकादशद्रव्यका उत्पद्यन्ते—
योऽष्टद्रव्यक. स नवद्रव्यक., यो नवद्रव्यक स दशद्रव्यक., यो दशद्रव्यकः
स एकादशद्रव्यक इति। अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपीति। इन्द्रियाद्
विनिर्भक्तुं यो न शक्यते स इन्द्रियाविनिर्भागी शब्द.। इन्द्रियापृथग्वृत्तीत्यर्थ.।
अविनिर्भाजीति केचिद् भुजि पठन्ति।
कथमविनिर्भागे भूतानां कश्चिदेव संघातः कठिन इत्यादि। कठिनः पृथिवी-
धातु., द्रवोऽब्धातु., उष्णस्तेजोधातु., समुदीरणा वायुधातु। तुल्यभूत-
सद्भावात् तुल्यरूपेस्तत्संघातेर्भवितव्यमित्यभिप्राय.। यद्यत्र पटुतममिति।
विस्तर—यद् द्रव्यं पृथिव्यादिलक्षणम्, यत्र संघाते पटुतमं स्फुटतमम्, प्रभावतः
शक्तितः, न तु द्रव्यतः। उद्भूतम् उत्पन्नम्। तस्य तत्रोपलब्धिः। तस्य द्रव्यस्य
तत्र संघात उपलब्धिर्र्ग्रहणम्। सूचीतूलीकलापस्पर्शवत्। तत्र सूच्यो लोहमय्य.
प्रतीता लोके। तूल्यो वीरणादिपुष्पमूलदण्डा., या 'सिका' इति प्राकृतजन-
प्रतीता, तासां सूचीना तूलीना च कलापः, तस्य स्पर्शः सूचीतूलीकलाप-
स्पर्श.। तस्य चोपलब्धिः तस्य पटुतमस्य प्रभावत उद्भूतस्य भूतस्येति।
“तत्र तस्येव” (पा० सू० ५।१।११६) इत्यनेन लक्षणेन वतिः। एतदुक्तं भवति—
१. कथमिहाविनिर्भागे—का०। २. सूचीतूनी०—का०।
१८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
कथं पुनस्तेषु शेषास्तित्वं गम्यते ? कर्मतः संग्रहधृतिपक्तिव्यूहनात् ।
प्रत्ययलाभे च सति कठिनादीनां द्रवणादिभावात् अप्सु शैत्यातिशयादौष्ण्यं
गम्यत इत्यपरे ।
अव्यतिभेदेऽपि तु स्याच्छैत्यातिशयः, शब्दवेदनातिशयवत् ।
यथा तुल्येऽपि सूचीना तूलोना कलापसद्भावे तीक्ष्णत्वात् सूचीनामेव स्पर्शो
व्यक्तमुपलभ्यते, न तूलीनाम्, अतीक्ष्णत्वात्; तथा कचिदेव संघाते काष्ठादिके
कठिनमुपलभ्यते—क्वचिद् द्रव पानीये, क्वचिदुष्णोऽग्नौ, क्वचित् समुदीरणा
वायौ। न च तत्र तत्र संघाते चत्वारि महाभूतानि न सन्ति । सक्तुलवणचूर्णे-
रसवच्च । सक्तुचूर्णानां लवणचूर्णाना च यथा रसस्योपलब्धि, लवणचूर्णरस
एव व्यक्तमुपलभ्यते, न तु सक्तुचूर्णरसः, तद्वदिहापीति ।
संग्रहधृतिपक्तिव्यूहनादिति । संग्रहकर्मणाब्धातोरस्तित्वं गम्यते काष्ठादिके ।
अन्यथा पासुमुष्टिवत् तद् विशीर्येत, यदि तत्राब्धातुर्न स्यात् । धृतिकर्मणाप्सु
नौप्रभृतीना पृथिवीधातोरस्तित्वं गम्यते । पक्तिकर्मणा तेजोधातोरस्तित्वं
गम्यते । यदि हि तन्न स्यात् काष्ठादिकं न पूतीभवेत् । व्यूहनकर्मणा वायुधातो-
रस्तित्वं गम्यते । प्रसर्पणं हि तस्य न स्याद्, वृद्धिर्वा, यदि वायुधातुस्तत्र न
स्यात् । एवमन्यत्रापि योज्यम् ।
प्रत्ययलाभे च सतीति । विस्तरः—प्रत्ययानामग्न्यादीना लाभे सति कठिना-
दीनां द्रवद्रव्याणां च द्रवणादिभावात् द्रवणघनत्वादिभावात् । तद्यथा अग्नि-
भूते सति कठिनस्य लोहस्य द्रवणम् । तेन ज्ञायते—लोहेऽब्धातुरस्तीति ।
तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यम्, तेन ज्ञायते—पृथिवीधातोरत्रा-
स्तित्वमिति । तथा कठिनसंघर्षादौष्ण्यमुपलभ्यते, तेन तेजोधातोरत्रास्तित्वं
गम्यते । इत्येवं सम्भवतोऽन्यत्रापि योज्यम् । अप्सु शैत्यातिशयादौष्ण्यं गम्यते
इत्यपर इति भदन्तश्रीलाभः । यस्मादापः शीताः शीततरा शीततमाश्चोप-
लभ्यन्ते, ततो ज्ञायते तेजसस्तत्रान्यतरतमोत्पत्तेः शैत्यातिशयः । तेन च
तत्र तेजोऽस्तीति गम्यते ।
अव्यतिभेदेऽपीति विस्तरः । तं मतमाचार्यो दूषयति । यथा न च शब्दस्य
द्रव्यान्तरेण व्यतिभेदो मिश्रीभावोऽस्ति, अतिशयश्च भवति, स्वभाव-
भेदात्—पटुः शब्दः पटुतम इति । एवमिहापि भवेत् । यथा च वेदनाया न
केनचिद् द्रव्यान्तरेण व्यतिभेदो भवतीति स्वभावभेदात् तारतम्येनातिशयः,
तथेहापीति । नानेन तेजोऽस्तित्वं गम्यते । ता एव ह्याप. काश्चिच्छीताः,
काश्चिच्छीततराः, काश्चिच्छीततमा इति ।
निर्देश. ] द्वितीयं कोशस्थानम् १८३
बीजतस्तेषु तेषां भावो न स्वरूपत इत्यपरे; “सन्त्यस्मिन् दारुस्कन्धे
विविधा धातव.” ( ) इति वचनात् ।
कथं वायौ वर्णसद्भाव ? श्रद्धानीय एषोऽर्थः नानूमानीयः संसर्गतो१
गन्धग्रहणात् तस्य वर्णाव्यभिचारात् ।
रूपधातौ गन्धरसयोरभाव उक्तः, तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका
इत्युक्तस्वरूपत्वात् न पुनरुच्यन्ते ॥
बीजतस्तेषु तेषा भावो न स्वरूपत इत्यपर इति । सौत्रान्तिकाः । बीजतः =
शक्तिः , सामर्थ्यत इत्यर्थः । न स्वरूपतो न द्रव्यत इत्यर्थः । शक्तिरेव हि
नानाविधास्ति यया योगिभिरधिमोक्षविशेषेण सुवर्णधातुः , रूप्यधातुः, ताम्र-
धातुरित्येवमादयो धातवः क्रियन्ते । कस्मात् ? इत्याह—सन्त्यस्मिन् दारुस्कन्धे
विविधा धातव इति वचनात् । धातुशक्तयो हि तत्रैवं भगवतोक्ताः । न हि
तत्रातिबहूना सुवर्णरूप्यादीना स्वरूपतस्तावदवकाशोऽस्तीति ।
कथं वायौ वर्णसद्भाव इति । वैभाषिकानेवं चोदयन्ति—“कामेऽष्टद्रव्यक.’
इति नियमे कथं वायौ वर्णोऽस्तीति निर्धार्यते, न हि कथञ्चित् तत्र वर्ण उप-
लभ्यते ? श्रद्धानीय एषोऽर्थो नानुमानीय इति वैभाषिकाः । परमाप्तैरयमुक्तोऽर्थ
इति प्रत्येयव्यः, नार्थोऽनुमानग्राह्य इत्यभिप्रायः । संसर्गतो गन्धग्रहणादिति ।
अस्ति वानुमानमिति दर्शयति । गन्धवता तु द्रव्येण वायोः सम्पर्काद् गन्ध
उपलभ्यते । स च गन्धो वर्णं न व्यभिचरति । यत्र हि गन्धस्तत्र वर्णेन
भवितव्यमिति । अत्र च साधनवचनम्—‘वर्णवान् वायुः, गन्धवत्त्वाज्जाति-
पुष्पवद्’ इति ।
रूपधातौ गन्धरसयोरभाव उक्त इति । “विना गन्धरसघा णजिह्वाविज्ञान-
धातुभिः” ( अभि० को० १ ३ ) इति वचनात् । तेन तत्रत्याः परमाणवः
षट्सप्ताष्टद्रव्यका इति । तत्रत्यास्तत्र भवाः । तत्रत्याः परमाणव संघातपर-
माणवोऽधिकृताः । य इहाष्टद्रव्यक उक्तो निरिन्द्रियोऽशब्दः, स तत्र षड्द्रव्यकः ।
यो नवद्रव्यकः कायेन्द्रियी स सप्तद्रव्यकः । यो दशद्रव्यकोऽपरेन्द्रियः सोऽष्ट-
द्रव्यकः । सशब्दाः पुनरेते सप्ताष्टनवद्रव्यका इत्यवगन्तव्यम् । उक्तस्वरूपत्वाच्च
पुनरुच्यन्त इति । उक्तकल्पत्वान्न पुनः सूत्र्यन्त इत्यर्थः ।
१. संस्पन्दतो—का० ।
१८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते ? आहोखिदायतनम् ?
किं चातः ? यदि द्रव्यमेव द्रव्यं गृह्यते, अत्यल्पमिदमुच्यते—अष्टद्रव्यकः,
नवदशद्रव्यक इति। अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम्; तस्यापि
परमाणुसञ्चितत्वात्, गुरुत्वलघुत्वयोरन्यतरेण, श्लक्ष्णत्वकर्कशत्वयोश्च, शीतेनापि,
क्वचित् जिघत्सया पिपासया च !
अथाप्यायतनद्रव्यं गृह्यते, अपि बह्विदमुच्यते—अष्टद्रव्यक इति ?
चतुर्द्रव्यको हि वक्तव्यः—यावता भूतान्यपि स्प्रष्टव्यायतनम्। किञ्चिदत्र
द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतम्, किञ्चिदायतनं द्रव्यं गृह्यते यदाश्रितभूतम् ।
एवमपि भूयांसि भूतद्रव्याणि भवन्ति ? उपादायरूपाणां प्रत्येकं भूत-
चतुष्काश्रित