सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 194, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 194

निर्देश ] द्वितीयं कोशस्थानम् १७३
इदं विचार्यते—कतमेनेन्द्रियेण समन्वागतः कतिभिरवश्यं समन्वागतो
भवति ? तत्र—
उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ १७ ॥
य एषामुपेक्षादीनामन्यतमेन समन्वागतः, सोऽवश्यं त्रिभिरिन्द्रियै
समन्वागतो भवत्येभिरेव । न ह्येषामन्योऽन्येन विना समन्वागम ।
शेषैस्त्वनियमः — स्यात् समन्वागतः, स्यादसमन्वागतः ।
तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियैरारूप्यधातूपपन्नो¹ न समन्वागतः ।
कामधातौ च येनाप्रतिलब्धविहीनानि । कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः ।
स्त्रीन्द्रियेण रूपारूप्योपपन्नः । कामधातौ येनाप्रतिलब्धविहीनम् । एवं पुरुषेन्द्रियेण ।
ननु च "फलाद्धानिर्न पूर्वकात्" (अभि० ६.५८) दर्शनहेयानामवस्तुत्वा-
दित्येतदपि कारणान्तरमस्ति, कस्मात् तदिह नोक्तमिति ? एतदपि वक्तव्यम् ।
, अपि खलु पर एव ब्रूयात्—मा भूद् दर्शनहेयक्लेशवैराग्यपरिहाणिः, भावना-
हेयक्लेशमात्रवैराग्यपरिहाणिस्तु कस्मादस्य परिहीणधर्मस्य न भवेत् ? पञ्चा-
वरभागीयप्रहाणाद्धि अनागामिफलं भवति । तत्र च सत्कार्यदृष्टिः शीलव्रत-
परामर्शो विचिकित्सा च दर्शनहेयाः, कामच्छन्दो व्यापादश्च भावनाहेयौ,
तयोश्च तस्य वीतरागपूर्विणोऽभिसमयान्ते षोडशे चित्तक्षणे प्रहाणस्य लौकिकेन
मार्गेण प्राप्तस्य तत्सामर्थ्यात् पुनरनास्रवा प्राप्तिर्भवति, अनास्रवगोत्राणां लब्ध-
त्वात् । अनास्रवं हि नवमविमुक्तिमार्गस्वभावं संस्कृतम्, अनागामिफलमसंस्कृतं
च कामच्छन्दादिप्रहाणं त