अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 201, कुल 1258 में से
संदर्भ में पढ़ें१८० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
इदमिदानीं विचार्यते—किमेते संस्कृता धर्मा यथा भिन्नलक्षणाः, एवं
भिन्नोत्पादाः ? उताहो नियतसहोत्पादा अपि केचित् सन्ति ? सन्तीत्याह ।
सर्व इमे धर्माः पञ्च भवन्ति—रूपम्, चित्तम्, चैतसिकाः, चित्तविप्रयुक्ताः
संस्काराः, असंस्कृतं च । तत्रासंस्कृतं नैवोत्पद्यते ।
रूपिणां तु धर्माणामयं नियमः—
कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः ।
सर्वसूक्ष्मो हि रूपसङ्घात परमाणुरित्युच्यते; यतो नान्यतरो विज्ञायेत ।
स कामधातावशब्दकोऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते, नान्यतमेन हीनः ।
अष्टौ द्रव्याणि--चत्वारि महाभूतानि, चत्वारि चोपादायरूपाणि रूपगन्धरस-
स्प्रष्टव्यानि ।
सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते, दशद्रव्यको वा ।
तत्र तावत्—
कायेन्द्रियी नवद्रव्यः
च द्वादशाध्यात्मिका स्मृता" (अभि० को० १.४८) इति इन्द्रियाण्याग
तानि । तेषा प्रभेदः "अमलं त्रयम्" (अभि० को० २६) इत्येवमादि-
विस्तरेणोक्त ॥ २१ ॥
"किमेते संस्कृता धर्माः" इति । ये ते स्कन्धधात्वायतनत्वेनाभिहिता
पूर्वम् । यथा भिन्नलक्षणा इति । रूप्यते इति रूपम्, अनुभवो वेदना, निमित्तो-
द्ग्रहणं संज्ञेत्यादि । संस्कृतग्रहणमुत्पत्तिमत्त्वात् । उताहो नियतसहोत्पाद।
अपि केचित् सन्तीति । सन्ति हि केचित् सहोत्पादा, न तु नियतसहोत्पादा. ।
यथा चक्षुरादिसहोत्पादास्तद्विज्ञानादयश्चक्षुरादीना सभाग-तत्सभागभावान् ।
तस्मादेवं पृच्छति । सर्व इमे धर्माः पञ्च भवन्तीति । पञ्चवस्तुकनयेनेवं सर्वधर्म-
संग्रहॊ व्यवस्थाप्यते । रूपादिकलापमुखेन धर्मनिर्देश, सुखप्रतिपत्त्यर्थम् । तत्रा-
संस्कृतं नैवोत्पद्यत इति । न तत्प्रति सहोत्पादनियमश्चिन्त्यते ।
सर्वसूक्ष्मो रूपसंघातः परमाणुरिति । संघातपरमाणुर्न द्रव्यपरमाणु. ।
यत्र हि पूर्वापरभागो नास्ति तत् सर्वरूपापचितं द्रव्यं द्रव्यपरमाणुरितीष्यने ।
तस्माद्विशिनष्टि—संघातः परमाणुरिति ।
"कामेऽष्टद्रव्यकोऽशब्दः" इति । कामधातौ यदा शब्दोऽत्र नोत्पद्यते, त दा
नियतमष्टद्रव्यक एव भवति, नातो न्यूनद्रव्यक. ।