अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 200, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देश ] ' द्वितीयं कोशस्थानम् १७९
उपेक्षायुर्मनःशुभैः ॥ २० ॥
उपेक्षाजीवितमनोभिः, श्रद्धादिभिश्च । एकान्तकुशलत्वात् श्रद्धादीनि
शुभग्रहणेन गृह्यन्ते । आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः ? न; अष्टाधि-
काराद्, बालाधिकाराच्च ॥ २० ॥
अथ यः सर्वबहुभिरिन्द्रियैः समन्वागत, स कियद्भिः ?
बहुभिर्युक्त एकान्नविंशत्याऽमलवर्जितैः ।
अनास्रवाणि त्रीणि वर्जयित्वा ।
स पुनः—
द्विलिङ्गः
द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः '
कश्चापरः ?
आर्यो रागी
अवीतरागोऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः ।
एकलिङ्गद्वयमलावर्जितैः ॥ २१ ॥
एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा । आज्ञातावीन्द्रियं द्वयोश्चान्यतरत् ।
उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागताना विस्तरेण प्रभेदः ॥ २१ ॥
“उपेक्षायुर्मनःशुभैः” अष्टाभिरित्याज्ञास्यामीन्द्रियादीना निरासः कृतो
भवति; अष्टशब्देन कृतावधित्वात् । बालाधिकाराच्चेति । बालोऽत्राधिक्रियते,
“बालस्त्वारूप्ये” इति वचनात् । आज्ञास्यामीन्द्रियाद्यभावे च पृथग्जनो
भवति, “पृथग्जनत्वं कतमत् ? आर्यधर्माणामलाभः” ( ) इति
वचनात् । तस्मात् तेष्वनास्रवेष्वप्रसङ्ग इति ॥ २० ॥
द्विव्यञ्जनो यः समग्रेन्द्रिय इति : द्विव्यञ्जनोऽपि हि समग्रचक्षुरादिक एव-
मेकान्नविंशत्या समन्वागत., नान्यथा ।
आज्ञातावीन्द्रियं द्वयोश्चान्यतरदिति । रागित्वादाज्ञातावीन्द्रियमेकान्तेन वर्ज-
यितव्यम्, आर्यस्य चाज्ञास्यामीन्द्रियाज्ञेन्द्रियाभ्यामवश्यं पर्यायेण समन्वागमात् ।
यदाज्ञास्यामीन्द्रियं न तदाज्ञेन्द्रियम्, यदाज्ञेन्द्रियं न तदाज्ञास्यामीन्द्रियम् ।
उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेद इति । “अष्टादशानां
धातूना कतीन्द्रियं कति नेन्द्रियम्” इति धातुप्रभेदप्रसङ्गेन । “धर्मार्धं इन्द्रियं ये