अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 203, कुल 1258 में से
संदर्भ में पढ़ें१८२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
कथं पुनस्तेषु शेषास्तित्वं गम्यते ? कर्मतः संग्रहधृतिपक्तिव्यूहनात् ।
प्रत्ययलाभे च सति कठिनादीनां द्रवणादिभावात् अप्सु शैत्यातिशयादौष्ण्यं
गम्यत इत्यपरे ।
अव्यतिभेदेऽपि तु स्याच्छैत्यातिशयः, शब्दवेदनातिशयवत् ।
यथा तुल्येऽपि सूचीना तूलोना कलापसद्भावे तीक्ष्णत्वात् सूचीनामेव स्पर्शो
व्यक्तमुपलभ्यते, न तूलीनाम्, अतीक्ष्णत्वात्; तथा कचिदेव संघाते काष्ठादिके
कठिनमुपलभ्यते—क्वचिद् द्रव पानीये, क्वचिदुष्णोऽग्नौ, क्वचित् समुदीरणा
वायौ। न च तत्र तत्र संघाते चत्वारि महाभूतानि न सन्ति । सक्तुलवणचूर्णे-
रसवच्च । सक्तुचूर्णानां लवणचूर्णाना च यथा रसस्योपलब्धि, लवणचूर्णरस
एव व्यक्तमुपलभ्यते, न तु सक्तुचूर्णरसः, तद्वदिहापीति ।
संग्रहधृतिपक्तिव्यूहनादिति । संग्रहकर्मणाब्धातोरस्तित्वं गम्यते काष्ठादिके ।
अन्यथा पासुमुष्टिवत् तद् विशीर्येत, यदि तत्राब्धातुर्न स्यात् । धृतिकर्मणाप्सु
नौप्रभृतीना पृथिवीधातोरस्तित्वं गम्यते । पक्तिकर्मणा तेजोधातोरस्तित्वं
गम्यते । यदि हि तन्न स्यात् काष्ठादिकं न पूतीभवेत् । व्यूहनकर्मणा वायुधातो-
रस्तित्वं गम्यते । प्रसर्पणं हि तस्य न स्याद्, वृद्धिर्वा, यदि वायुधातुस्तत्र न
स्यात् । एवमन्यत्रापि योज्यम् ।
प्रत्ययलाभे च सतीति । विस्तरः—प्रत्ययानामग्न्यादीना लाभे सति कठिना-
दीनां द्रवद्रव्याणां च द्रवणादिभावात् द्रवणघनत्वादिभावात् । तद्यथा अग्नि-
भूते सति कठिनस्य लोहस्य द्रवणम् । तेन ज्ञायते—लोहेऽब्धातुरस्तीति ।
तथा द्रवस्य शैत्यादिप्रत्ययलाभे काठिन्यम्, तेन ज्ञायते—पृथिवीधातोरत्रा-
स्तित्वमिति । तथा कठिनसंघर्षादौष्ण्यमुपलभ्यते, तेन तेजोधातोरत्रास्तित्वं
गम्यते । इत्येवं सम्भवतोऽन्यत्रापि योज्यम् । अप्सु शैत्यातिशयादौष्ण्यं गम्यते
इत्यपर इति भदन्तश्रीलाभः । यस्मादापः शीताः शीततरा शीततमाश्चोप-
लभ्यन्ते, ततो ज्ञायते तेजसस्तत्रान्यतरतमोत्पत्तेः शैत्यातिशयः । तेन च
तत्र तेजोऽस्तीति गम्यते ।
अव्यतिभेदेऽपीति विस्तरः । तं मतमाचार्यो दूषयति । यथा न च शब्दस्य
द्रव्यान्तरेण व्यतिभेदो मिश्रीभावोऽस्ति, अतिशयश्च भवति, स्वभाव-
भेदात्—पटुः शब्दः पटुतम इति । एवमिहापि भवेत् । यथा च वेदनाया न
केनचिद् द्रव्यान्तरेण व्यतिभेदो भवतीति स्वभावभेदात् तारतम्येनातिशयः,
तथेहापीति । नानेन तेजोऽस्तित्वं गम्यते । ता एव ह्याप. काश्चिच्छीताः,
काश्चिच्छीततराः, काश्चिच्छीततमा इति ।