अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 202, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् १८१
कायेन्द्रियमत्रास्तीति सोऽयं कायेन्द्रियी। तत्र नव द्रव्याणि—तानि
चाष्टौ, कायेन्द्रियं च।
दशद्रव्योऽपरेन्द्रियः ॥ २२ ॥
अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि—तान्येव नव, चक्षुः-
श्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम्।
सशब्दाः पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादशद्रव्यका
उत्पद्यन्ते। अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपि य उपात्तमहाभूतहेतुकः।
कथमविनिर्भागे१ भूतानां कश्चिदेव सङ्घातः कठिन उत्पद्यते, कश्चिदेव
द्रव उष्णो वा, समुदीरणो वा? यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोप-
लब्धिः; सूचीतूलीकलापस्पर्शवत्२, सक्तुलवणचूर्णरसवच्च।
“अपरेन्द्रियः” इति। अपरमिन्द्रियमस्मिन्नित्यपरेन्द्रिय., चक्षुरादिमा-
नित्यर्थः। यत्र हि चक्षु श्रोत्रादि वा तत्र कायेन्द्रियेण भवितव्यम्, तत्प्रतिबद्ध-
वृत्तित्वाच्चक्षुरादीनाम्। सशब्दाः पुनरेते परमाणव इत्यष्टद्रव्यकादय, संघात-
परमाणव, सशब्दा उत्पद्यमाना यथाक्रमं नवदशैकादशद्रव्यका उत्पद्यन्ते—
योऽष्टद्रव्यक. स नवद्रव्यक., यो नवद्रव्यक स दशद्रव्यक., यो दशद्रव्यकः
स एकादशद्रव्यक इति। अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपीति। इन्द्रियाद्
विनिर्भक्तुं यो न शक्यते स इन्द्रियाविनिर्भागी शब्द.। इन्द्रियापृथग्वृत्तीत्यर्थ.।
अविनिर्भाजीति केचिद् भुजि पठन्ति।
कथमविनिर्भागे भूतानां कश्चिदेव संघातः कठिन इत्यादि। कठिनः पृथिवी-
धातु., द्रवोऽब्धातु., उष्णस्तेजोधातु., समुदीरणा वायुधातु। तुल्यभूत-
सद्भावात् तुल्यरूपेस्तत्संघातेर्भवितव्यमित्यभिप्राय.। यद्यत्र पटुतममिति।
विस्तर—यद् द्रव्यं पृथिव्यादिलक्षणम्, यत्र संघाते पटुतमं स्फुटतमम्, प्रभावतः
शक्तितः, न तु द्रव्यतः। उद्भूतम् उत्पन्नम्। तस्य तत्रोपलब्धिः। तस्य द्रव्यस्य
तत्र संघात उपलब्धिर्र्ग्रहणम्। सूचीतूलीकलापस्पर्शवत्। तत्र सूच्यो लोहमय्य.
प्रतीता लोके। तूल्यो वीरणादिपुष्पमूलदण्डा., या 'सिका' इति प्राकृतजन-
प्रतीता, तासां सूचीना तूलीना च कलापः, तस्य स्पर्शः सूचीतूलीकलाप-
स्पर्श.। तस्य चोपलब्धिः तस्य पटुतमस्य प्रभावत उद्भूतस्य भूतस्येति।
“तत्र तस्येव” (पा० सू० ५।१।११६) इत्यनेन लक्षणेन वतिः। एतदुक्तं भवति—
१. कथमिहाविनिर्भागे—का०। २. सूचीतूनी०—का०।