अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 191, कुल 1258 में से
संदर्भ में पढ़ें१७० भाष्यस्फुटार्थासहिते ऽभिधर्मकोशे [ इन्द्रिय-
अथ वीतरागः प्राप्नोति, तस्य नवभिः प्राप्तिः, यथा—स्रोतआपत्तिफलस्य ।
अय तु विशेषः—सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति, निश्रय-
विशेषात् । यदाप्ययमानुपूर्वीको नवमे विमुक्तिमार्गे तीक्ष्णेन्द्रियत्वाद् ध्यानं
प्रविशति लौकिकेन मार्गेण, तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति । तत्र
हि नवमे विमुक्तिमार्गे सोमनस्येन्द्रियमष्टमं भवति । आनन्तर्यमार्गे तूपेक्षेन्द्रियमेव,
नित्यमुभाभ्या च तस्य प्राप्तिः । अथ लोकोत्तरेण प्रविशति, तस्य नवभिरिन्द्रियैः
प्राप्तिः । आज्ञेन्द्रियं नवमं भवति ॥ १६ ॥
अथ वीतराग इति । कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे
प्रहीणे । प्रथमादपि वा ध्यानाद् यावदाकिञ्चन्यादपि वा वीतरागो योऽनागा-
मिफलं प्राप्नोति । तस्य नवभिः प्राप्तिः । यथा स्रोतआपत्तिफलस्य । स्रोतआपत्ति-
फलस्य हि दर्शनमार्गेण प्राप्तिः । अस्य च दर्शनमार्गेणैव प्राप्तिरिति तुल्यत्वम् ।
अयं तु विशेषः—सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति निश्रयविशेषा-
दिति । यदि तृतीयं ध्यानं निश्रित्य नियामकवक्रामति, सुखेन्द्रियं तत्र भवति ।
अथ प्रथमद्वितीये ध्याने निश्रित्य, सौमनस्येन्द्रियं तत्र भवति । अथाना-
गम्यध्यानान्तरचतुर्थध्यानानामन्यतमं निश्रित्य, उपेक्षेन्द्रियं तत्र भवतीति ।
यदाप्ययमानुपूर्वीक इति । विस्तर—यदाप्ययमधिगतपूर्वफल आनुपूर्वीकस्तीक्ष्णे-
न्द्रियः । स नवम विमुक्तिमार्गं ध्यान प्रविशति मौलं लौकिकेन मार्गेण, तदापि
अष्टाभिरिन्द्रयैरनागामिफलं प्राप्नोति । तत्र मौलध्यानमगृह्णातो विमुक्तिमार्गो
भवति, तच्च सौमनस्येन्द्रियम् । आनन्तर्यमार्गस्त्वनागम्यसंगृहीत एव ।
यदि न प्रविशति, तत्र चोपेक्षेन्द्रियमेव, नान्यथा । तस्य प्राप्तिरष्टाभि श्रद्धा-
दिभिः पञ्चभिर्मन उपेक्षासौमनस्येन्द्रियैश्चेति । उभाभ्या च तस्य प्राप्तिरिति ।
आनन्तर्यविमुक्तिमार्गाभ्यां चोरनिष्कासनकपाटपिधानवदिति व्याख्यातमेतत् ।
अथ लोकोत्तरेण प्रविशतीति । स एवानुपूर्वीकस्तादृगेन्द्रियो वेदितव्यः, अधि-
कारानुवृत्तेः । तस्य नवाभिरिन्द्रियैः प्राप्तिः । तैरेव तावदुक्तैरिन्द्रियैः । आज्ञेन्द्रियेण
च नवमेन । तान्येव हीन्द्रियाण्यनास्रवत्वादाज्ञेन्द्रियाख्या लभन्ते ।
इदमिह चोद्यते—कस्मादानुपूर्वीक एवमुक्त, न पुनर्वीतरागपूर्वी ? न हि
वीतरागपूर्व्यनागम्यनिश्रयेण दर्शनमार्गमुत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं
ध्यानं प्रविशति, तत्राधिगतेरनादरात् । आनुपूर्वीको हि मौलध्यानाथी, तस्या-
नधिगतपूर्वत्वात् । तस्मादस्ति सम्भवो यदसौ मौलमव प्रविशति । वीतराग-
पूर्वी तु चतु मत्यदर्शनं प्रति कृतादर., न ध्यानं प्रति । इति न तत्र षोडशे
चित्तक्षणे मौलं ध्यानं प्रविशतीत्यभिप्राय ॥ १६ ॥