अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 197, कुल 1258 में से
संदर्भ में पढ़ें१७८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
दुःखी तु सप्तभिः
यो दुःखेन्द्रियेण, सोऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः।
स्त्रीन्द्रियादिमान् ॥ १८ ॥
अष्टाभिः
य स्त्रीन्द्रियेण समन्वगतः सोऽवश्यमष्टाभिः—तैश्च सप्तभिः, स्त्रीन्द्रियेण
च। आदिशब्देन पुरुषेन्द्रियदौर्मनस्यश्रद्धादीनां सङ्ग्रहः। तद्वानपि प्रत्येकमष्टाभिः
समन्वागतो भवति—तैश्च सप्तभिः, अष्टमेन च पुरुषेन्द्रियेण । एवं दौर्मनस्ये-
न्द्रियेण। श्रद्धादिमांस्तु तैश्च पञ्चभि , उपेक्षाजीवितमनोभिश्च ।
एकादशभिस्तवाज्ञातेन्द्रियान्वितः ।
आज्ञात इन्द्रियमाज्ञातेन्द्रियम् । य आज्ञेन्द्रियेण¹ समन्वगत., सोऽवश्य-
“दुःखी तु सप्तभिः” इति । कामधातूपपन्नो ह्येषः। तस्मादवश्यं काये-
न्द्रियेण चतुर्भिश्च वेदनेन्द्रियैरिति दौर्मनस्यवर्ज्यै। तद्वीतरागावस्थाया दौर्मनस्यं
व्यभिचरति । मनोजीवितेन्द्रिये च स्त इत्यवश्यं सप्तभिरिन्द्रियै समन्वागत.।
शेषेन्द्रियव्यभिचारस्तु पूर्ववद् वाच्य ।
“स्त्रीन्द्रियादिमान् अष्टाभिः” इति । स्त्रीपुरुषदौर्मनस्यश्रद्धावीर्यस्मृतिसमाधि-
प्रज्ञेन्द्रियवानित्यर्थ । जीवितमन सुखदु खसौमनस्योपेक्षेन्द्रियाणामुक्तत्वात्,
आज्ञातावीन्द्रियादीना च त्रयाणा वक्ष्यमाणत्वात् । एषामेवाष्टानामिन्द्रियाणा
ग्रहणं भवति । यः स्त्रीन्द्रियेण समन्वागत इति। स कामधातूपपन्न एव स्त्री-
न्द्रियवत्त्वात्। अत' सोऽवश्यमष्टाभिरिन्द्रियै समन्वगत । कतमे. ? इत्याह—
तैश्च सप्तभिः स्त्रीन्द्रियेण चेति । कायजीवितमनोभिश्चतुर्भिश्च वेदनेन्द्रियैरिति
सप्तभि , स्त्रीन्द्रियेण चाष्टमेन । शेषैरनियम । यथोक्तैश्चक्षुरादीना वैकल्यसम्भ-
वादित्यादिभि.कारणे.। स्त्रीन्द्रियवत् पुरुषेन्द्रियवानपि वक्तव्य । दौर्मनस्यवानपि
कामोपपन्न. कामवीतराग इति तथैव ते. सप्तभिर्दौर्मनस्येन च। श्रद्धावानपि
त्रैधातुक. सत्त्व इति तैः पञ्चभिः श्रद्धादिभिरविनाभाविभिरुपेक्षाजीवितमनोभिश्च
समन्वागत.। शेषैरनियम पूर्ववत्। यथा श्रद्धावानेवं यावत् प्रज्ञावान् ।
आज्ञाते इन्द्रियमाज्ञातेन्द्रियमिति । अज्ञात एवेन्द्रियमाज्ञातेन्द्रियम् । निरव-
शेषाज्ञात इन्द्रियमित्यर्थ. । आज्ञेन्द्रियमपि ह्याज्ञात इन्द्रियम्, न तु निरवशेषे,
सावशेषत्वात् प्रहेयस्य। अथ वा—पदकदेशग्रहणेन आज्ञातावी पुद्गल अज्ञात
इत्युच्यते, तस्येन्द्रियमाज्ञातेन्द्रमिति । य आज्ञेन्द्रियेण सोऽवश्यमेकादशभिरिति ।
१. आज्ञातेन्द्रियेण—का०.