अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 205, कुल 1258 में से
संदर्भ में पढ़ें१८४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते ? आहोखिदायतनम् ?
किं चातः ? यदि द्रव्यमेव द्रव्यं गृह्यते, अत्यल्पमिदमुच्यते—अष्टद्रव्यकः,
नवदशद्रव्यक इति। अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम्; तस्यापि
परमाणुसञ्चितत्वात्, गुरुत्वलघुत्वयोरन्यतरेण, श्लक्ष्णत्वकर्कशत्वयोश्च, शीतेनापि,
क्वचित् जिघत्सया पिपासया च !
अथाप्यायतनद्रव्यं गृह्यते, अपि बह्विदमुच्यते—अष्टद्रव्यक इति ?
चतुर्द्रव्यको हि वक्तव्यः—यावता भूतान्यपि स्प्रष्टव्यायतनम्। किञ्चिदत्र
द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतम्, किञ्चिदायतनं द्रव्यं गृह्यते यदाश्रितभूतम् ।
एवमपि भूयांसि भूतद्रव्याणि भवन्ति ? उपादायरूपाणां प्रत्येकं भूत-
चतुष्काश्रित