अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 204, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देश. ] द्वितीयं कोशस्थानम् १८३
बीजतस्तेषु तेषां भावो न स्वरूपत इत्यपरे; “सन्त्यस्मिन् दारुस्कन्धे
विविधा धातव.” ( ) इति वचनात् ।
कथं वायौ वर्णसद्भाव ? श्रद्धानीय एषोऽर्थः नानूमानीयः संसर्गतो१
गन्धग्रहणात् तस्य वर्णाव्यभिचारात् ।
रूपधातौ गन्धरसयोरभाव उक्तः, तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका
इत्युक्तस्वरूपत्वात् न पुनरुच्यन्ते ॥
बीजतस्तेषु तेषा भावो न स्वरूपत इत्यपर इति । सौत्रान्तिकाः । बीजतः =
शक्तिः , सामर्थ्यत इत्यर्थः । न स्वरूपतो न द्रव्यत इत्यर्थः । शक्तिरेव हि
नानाविधास्ति यया योगिभिरधिमोक्षविशेषेण सुवर्णधातुः , रूप्यधातुः, ताम्र-
धातुरित्येवमादयो धातवः क्रियन्ते । कस्मात् ? इत्याह—सन्त्यस्मिन् दारुस्कन्धे
विविधा धातव इति वचनात् । धातुशक्तयो हि तत्रैवं भगवतोक्ताः । न हि
तत्रातिबहूना सुवर्णरूप्यादीना स्वरूपतस्तावदवकाशोऽस्तीति ।
कथं वायौ वर्णसद्भाव इति । वैभाषिकानेवं चोदयन्ति—“कामेऽष्टद्रव्यक.’
इति नियमे कथं वायौ वर्णोऽस्तीति निर्धार्यते, न हि कथञ्चित् तत्र वर्ण उप-
लभ्यते ? श्रद्धानीय एषोऽर्थो नानुमानीय इति वैभाषिकाः । परमाप्तैरयमुक्तोऽर्थ
इति प्रत्येयव्यः, नार्थोऽनुमानग्राह्य इत्यभिप्रायः । संसर्गतो गन्धग्रहणादिति ।
अस्ति वानुमानमिति दर्शयति । गन्धवता तु द्रव्येण वायोः सम्पर्काद् गन्ध
उपलभ्यते । स च गन्धो वर्णं न व्यभिचरति । यत्र हि गन्धस्तत्र वर्णेन
भवितव्यमिति । अत्र च साधनवचनम्—‘वर्णवान् वायुः, गन्धवत्त्वाज्जाति-
पुष्पवद्’ इति ।
रूपधातौ गन्धरसयोरभाव उक्त इति । “विना गन्धरसघा णजिह्वाविज्ञान-
धातुभिः” ( अभि० को० १ ३ ) इति वचनात् । तेन तत्रत्याः परमाणवः
षट्सप्ताष्टद्रव्यका इति । तत्रत्यास्तत्र भवाः । तत्रत्याः परमाणव संघातपर-
माणवोऽधिकृताः । य इहाष्टद्रव्यक उक्तो निरिन्द्रियोऽशब्दः, स तत्र षड्द्रव्यकः ।
यो नवद्रव्यकः कायेन्द्रियी स सप्तद्रव्यकः । यो दशद्रव्यकोऽपरेन्द्रियः सोऽष्ट-
द्रव्यकः । सशब्दाः पुनरेते सप्ताष्टनवद्रव्यका इत्यवगन्तव्यम् । उक्तस्वरूपत्वाच्च
पुनरुच्यन्त इति । उक्तकल्पत्वान्न पुनः सूत्र्यन्त इत्यर्थः ।
१. संस्पन्दतो—का० ।