अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 193, कुल 1258 में से
संदर्भ में पढ़ें१७२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
न च वीतरागपूर्वो परिहीयते; तद्वैराग्यस्य द्विमार्गप्रापणात् ॥
प्रहाणाद्धि अनागामिफलं व्यवस्थाप्यते । यदा स च कामवैराग्यात् परिहीण,
तदा तृतीयं ध्यानमस्य नास्ति, तत् कथं सुखेन्द्रियेणानागामिफलं प्राप्नुयात् !
तत आह—न ह्यसौ परिहाण कदाचित् सुखेन्द्रियेण प्राप्नोतीति, किं सौमन-
स्येन्द्रियेण प्राप्नुयात्, यत एव सुखेन्द्रियस्यैव प्रतिषेधः प्राप्नुयाद् यदि
नवमे विमुक्तिमार्गे मौलं ध्यानं प्रविशेत् । नैतदस्ति—यो हि परिहीणो भवेत्
स मृद्विन्द्रिय, यश्च मृद्विन्द्रिय. स न शक्नोति नवमे विमुक्तिमार्गे मोलं ध्यानं
प्रवेष्टुम्, तीक्ष्णेन्द्रियस्तु शक्नोति, इन्द्रियसञ्चारस्यादुष्करत्वात् ? अस्त्येतत्,
किन्तु यद्यसौ मृद्विन्द्रिय आनुपूर्वीऽनागामिफलं प्राप्य ततश्च परिहीणो भूत्वा
इन्द्रियसञ्चारं कुर्यात्, इन्द्रियसञ्चारेण च तीक्ष्णेन्द्रियो भूत्वा पूर्वकेणैव क्रमेणा-
नागामिफलं प्राप्नुवन् यदि नवमे विमुक्तिमार्गे मौलं प्रविशेत्, तस्य तदानागा-
मिफलप्राप्तिरष्टाभिर्वाभवेद् भवेति—श्रद्धादिभि पञ्चभि, मनइन्द्रियेण चान-
न्तर्यमार्गसंगृहीतेन सौमनस्येन्द्रियेण च मौलध्यानविमुक्तिमार्गसंगृहीतेनेति ।
लोकोत्तरेण चेन्मौल ध्यानं प्रविशेत्, एभिश्चाष्टाभिराज्ञेन्द्रियेण च नवमेन
इत्यवगन्तव्यम् । तस्मात् सूक्तम्—न ह्यसौ परिहीण कदाचित् सुखेन्द्रियेण
प्राप्नोतीति ।
वीतरागपूर्वी तर्ह्येकादशभिस्तत्प्राप्नुयात् । कथम् ? यो मृद्विन्द्रिय पुद्गल-
स्तृतीयध्यानलाभो तृतीय ध्यानं निश्रित्य नियाममवक्रामेत्, स षोडशे चित्तक्षणे
अनागामी भवति, सा तत्फलप्राप्ति सुखेन्द्रियेण श्रद्धादिभि. पञ्चभिर्मनआज्ञा-
स्यामीन्द्रियाज्ञेन्द्रियैश्चेति । स ततोऽनागामिफलात् परिहीण इन्द्रियोत्तापनेन
तीक्ष्णेन्द्रियमात्मानं कृत्वा अनागम्यनिश्रयेणैवानागामिफलं प्राप्नुवन्नवमे
विमुक्तिमार्गे मौलं प्रविशेत् । तस्य तत्फलप्राप्ति. पूर्ववदुपेक्षेन्द्रियेण सौमनस्येन्द्रि-
येण च श्रद्धादिभिश्चापि पञ्चभिर्मनइन्द्रियेण चाष्टमेन लोकोत्तरमार्गत्वादा-
ज्ञेन्द्रियेणापि नवमेन—इत्येवं द्वयो.कालयोरेकादशभिरिन्द्रियै. स पुद्गलस्तदना-
गामिफलं प्राप्नुयादिति । ततस्तत्प्रतिषेधार्थमिदमाह—न च वीतरागपूर्वी परि-
हीयते । तद्वैराग्यस्य द्विमार्गप्रापणादिति । न च कामवीतराग. केनचिन्निश्रयेण
नियाममवक्रान्त परिहीयते । कस्मात् ? तद्वैराग्यस्य कामवैराग्यस्य द्विमार्गप्राप-
णात् लौकिकलोकोत्तरमार्गप्रापणात् । इह फलं द्विविधम्—संस्कृतम्, असंस्कृतं
च । “संस्कृतानास्कृतं फलम्” ( अभि० को० ६.५१ ) इति वचनात् । तत्र
यदसंस्कृतं विसंयोगलक्षणमनागामि फलम्, तत्पूर्वं लौकिकेन मार्गेण प्राप्तम्,
नियामावक्रान्तौ च लोकोत्तरमार्गेण पुनस्तत्प्राप्तम् । द्विविधा हि तस्य प्राप्ति.—
लौकिकी, लोकोत्तरा च । तस्मात् स्थिरं तद्वैराग्यम् । तस्मादसौ न परिहीयते ।