अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
१५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय--
यैर्वा निकायभागस्थितिस्त आयुःसंस्काराः । यैस्तु कालान्तरं जीवति ते
जीवितसंस्कारा इति ।
बहुवचनं बहूनामायुर्जीवितसंस्काराणाम्¹ उत्सर्जनाधिष्ठात् । न ह्येकस्य
क्षणस्योत्सर्जनमधिष्ठानं चास्ति । न च कालान्तरस्थावरमेकमायुर्द्रव्यं न भवतीति
द्योतनार्थमित्येके ।
बहुष्वेव संस्कारेष्वायुराख्या । नैकमायुर्नाम द्रव्यमस्ति; अन्यथा हि नैव
संस्कारग्रहणमकरिष्यदित्यपरे ।
किमर्थं पुनर्भगवता आयुस्संस्कारा उत्सृष्टाश्च, अधिष्ठिताश्च ² मरणवशित्व-
ज्ञापनार्थमुत्सृष्टाः, जीवितवशित्वज्ञापनार्थमधिष्ठिताः—त्रैमास्यमेव नोर्ध्वम्,
विनेयकार्याभावात् । यच्चापि तत् प्रतिज्ञातम्—"एवम्भावि तैरहं चतु-
र्भिर्ऋद्धिपादैराकाङ्क्षन् कल्पमपि तिष्ठेयम्, कल्पाव
निर्देशः ] द्वितीयं कोशस्थानम् १५५
स्कन्धमरणमारयोर्निर्जयार्थमिति वैभाषिकाः । बोधिमूले क्लेशदेवपुत्रमारौ
निर्जिताविति ।
निष्ठातमानुषङ्गिकम् ॥
प्रकृतमेवारभ्यते—
द्वेधा द्वादश
कतमानि द्वादश ?
अन्त्याष्टकादृते ।
दौर्मनस्याच्च
अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्य च वर्जयित्वा ।
जीवितेन्द्रियादन्यानि द्वादश द्विविधानि इन्द्रियाणि¹—विपाकश्चाविपाकश्च ।
तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाक¹, शेषाणि विपाकः । मनोदुःखसुख-
सौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टानि², तान्यविपाक.² । ऐर्यापथिकशैल्पस्थानिक-
प्रतिज्ञातसम्पादनार्थम्। अन्यथा वचनमात्रं स्यादिति । कल्पावशेष । कल्प एक.
सकल, कल्पाधिक, कल्प मातिरेक इत्यर्थ ।
स्कन्धमरणमारयोरिति । चत्वारो मारा —देवपुत्रमार, क्लेशमार, स्कन्ध-
मार, मरणमारश्चेति । तत्र प्रथमे यामे देवपुत्रमारो निर्जित । द्वितीये यामे
दिव्येन चक्षुषा लोक व्यवलोक्य तृतीये यामे क्लेशमारो निर्जित. । वैशाल्या तु
त्रेमास्य जीवितसंस्कारानधिष्ठाय आयु संस्कारानुत्सृष्टवान् । स्कन्धमारनिर्ज-
यार्थमुत्सृष्टा स्कन्धा., तेषूत्सृष्टेषु मर्तव्यं स्यात् । अतो मरणमारनिर्जयार्थमधि-
ष्ठिता इति वभाषिकाः ।
निष्ठातमानुषङ्गिकं यत् प्रश्नात् प्रश्नान्तरमुपजातम् ॥
“द्वेधा द्वादश” इति । द्वेधैव द्वादश एवेत्यवधार्यते । ऋते अन्त्यादष्टकाच्छ्र-
द्धादिकादाज्ञातावीपर्यन्ताद् ।
“दौर्मनस्याच्च” । जीवितान्द्रियादेकान्तविपाकादन्यानि द्वादशेन्द्रियाणि
विपाकश्च, अविपाकश्च । तत्र चक्षुरादीनि पुरुषेन्द्रियावसानानि सप्त स्वप्रत्य-
यिनिर्वृत्तानि औपचयिकान्यविपाकः । मनोदुःखसुखमिति विस्तर । यानि
मनादीनि कुशलक्लिष्टानि तान्यविपाकः । यानि च यथायोगमैर्यापथिक-शैल्प-
१. वा० पुस्तके नास्ति । २-२. कुशलक्लिष्टान्यविपाक.-का० ।
१५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
नैर्माणिकानि च यथायोगम्। शेषाणि विपाकः। जीवितेन्द्रियं चक्षुरादीनि
द्वादश हित्वा शेषाण्यविपाक इति सिद्धम्।
यदि दौर्मनस्येन्द्रियं न विपाक इति, सूत्रं कथं नीयते—"त्रीणि
कार्याणि—सौमनस्यवेदनीयं कर्म, दौर्मनस्यवेदनीयं कर्म, उपेक्षावेदनीयं कर्म"
इति ? सम्प्रयोगवेदनीयतामधिकृत्योक्तम्। दौर्मनस्येन सम्प्रयुक्तं कर्म दौर्मनस्य-
वेदनीयम्, यथा—सुखसम्प्रयुक्तः स्पर्शः सुखवेदनीयः।
सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः ? यथेच्छसि
तथाऽस्तु। सम्प्रयोगेऽपि न दोषः, विपाकेऽपि न दोषः। अगत्या
ह्येतदेवं गम्येत।
पस्थानिक-नैर्माणिकस्वभावानि अव्याकृतानि, तान्यविपाक। यथायोगमिति
विशेषणमैर्यापथिकादीना मानमत्वेन दुःखेन्द्रियासम्भवात्, सुखसौमनस्ययोश्च
कचिदसम्भवात्। तत्र कामधातावैर्यापथिकं मनइन्द्रियं तत्सम्प्रयुक्ते च सोम-
नस्योपेक्षेन्द्रिये अविपाक। रूपधातावैर्यापथिकं मनइन्द्रियमविपाक,, वेदेनेन्द्रियं
च तत्सम्प्रयुक्तं यथाभूमि। नैर्माणिकं पञ्चभूमिकम्, तत्र चोपेक्षेन्द्रियमेवा-
विपाक। "ऐर्यापथिकशल्पस्थानिकनर्माणिकानि नित्यमुपेक्षेन्द्रियेण सम्प्रयुक्तानि"
इति भदन्तानन्तवर्मा। शेषाणि विपाक इति। कुशलक्लिष्टैर्यापथिक-शैल्यस्थानिक-
नैर्माणिकस्वभावेभ्योऽन्यानि मनइन्द्रियादीनि विपाकजानि विपाक। शेषाण्य-
विपाक इति सिद्धमिति। जीवितेन्द्रियं द्वादशचक्षुरादीनि हित्वा तदवधारणा-
देव शेषाण्यविपाक इति सिद्धम्। कतमानि पुनस्तानि ? दौर्मनस्येन्द्रियं न
विपाकः, कुशलाकुशलत्वात्। तथा हि वक्ष्यति—"तत्त्वेकं सविपाकम्" इति।
श्रद्धादीन्यष्टकं कुशलमित्यविपाक, "विपाकोऽव्याकृतो धर्म. सत्त्वाख्य."
( अभि० २ ५७) इति विपाकलक्षणाभावात्।
यदि दौर्मनस्येन्द्रियं न विपाक इति। अनेनागमविरोधं दर्शयति। सम्प्रयोग-
वेदनीयतामधिकृत्येति। वेदनीयं वेदना, दौर्मनस्यं वेदनीयमस्मिन्निति दौर्मनस्य-
वेदनीयं कर्म। सौमनस्योपेक्षायेदनाय अर्पति। सम्प्रयोगमात्रवचनाद् दौर्मनस्य-
वत् सौमनस्योपेक्षे अपि न विपाक. प्राप्नुत इति परस्याभिप्रायः। सम्प्रयोगे-
ऽपि न दोषो विपाकेऽपीति। सामनस्यं वदतोयमस्मिन् सौमनस्यवेदनीयं कर्म।
तथा सौमनस्यं विपाकत्वेन वेदनीयमस्य सौमनस्यवेदनीयं कर्मेति। अगत्या
ह्येतदेवं गम्येत इति। यदि दौर्मनस्यं युक्त्या परिच्छिन्नं न विपाक इति, तत
एवमगत्याऽऽख्यायेत—सम्प्रयोगवेदनीयतामधिकृत्योक्तमिति।
निर्देशः ] द्वितीयं कोशस्थानम् १५७
का पुनरत्र युक्तिः—दौर्मनस्यं न विपाक इति ? दौर्मनस्यं हि परिकल्प-
विशेषैरुत्पाद्यते च, व्युत्पाद्यते १ च, व्युपशाम्यते च । न चैवं विपाकः । सौमनस्य-
मप्येवं न स्याद् विपाकः । यदि तर्हि दौर्मनस्य विपाकः स्याद्, आनन्तर्यकारिणां
तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् । सौमनस्यमप्येवम् । यदि सौमनस्यं
विपाकः स्यात्, पुण्यकारिणां तन्निमित्त सौमनस्योत्पादात् तत्कर्म विपक्वं स्यात् ।
वीतरागादीनां २ तर्हि दौर्मनस्यासम्भवात् । न चैवं विपाकः । सौमनस्यमप्येषाम-
व्याकृतं कीदृशं विपाकः स्यात् ? यादृशं तादृशमस्तु । सति तु सम्भवे सौम-
नस्यस्यास्ति विपाकावकाश , न दौर्मनस्यस्य । सर्वथाऽप्यसमुदाचारादिति ३
नास्त्येवं दौर्मनस्य विपाक इति वैभाषिकाः ।
तेनाह—का पुनरत्र युक्तिदौर्मनस्यं न विपाक इति । अथ वां अगत्या ह्येत-
देवं गम्येत—क्वचित् संप्रयोगवेदनीयता, क्वचित् विपाकवेदनीयतेति । ब्रूयास्त्वं
सर्वत्रैव तर्हि संप्रयोगवेदनीयतेति ? अत एतदन्तराभिप्रायमभिसमीक्ष्याह—
का पुनरत्र युक्ति — दौर्मनस्य न विपाक इति । दौर्मनस्य हीति । अनिष्टचिन्त-
नादिके परिकल्पविशेषैरुत्पाद्यते च, व्युत्पादनं च, व्युपशाम्यते च । सोमनस्य-
मप्येवमिति । परिकल्पविशेषैरिष्टचिन्तनादिभिरुत्पाद्यते च, व्युपशाम्यते च ।
वीतरागादीना तर्हीति । यस्माद् वीतरागादीना दौर्मनस्यं व्यावर्तते । न हि
चक्षुरादिको विपाकभूतो वीतरागादीना व्यावर्तते, दौर्मनस्यं तु व्यावर्तते । वच-
नाद् दौर्मनस्येन कामवीतरागोऽसमन्वागत इति । सूत्रेऽप्युक्तम्—"अवीतरागस्य
द्विशल्या वेदनोक्ता—कायिकं दुखं प्रतिसंवेदयते, चैतसिकं च दौर्मनस्यम्"
इति । वचनाद् वीतरागस्य च एकशल्या कायिमेव दुखं प्रतिसंवेदयत इति ।
सौमनस्यमप्येषामिति । विस्तर —वीतरागाणामव्याकृतं विपाकरूपं सौमनस्यं
कीदृशं स्यात् ! समापत्तिसंगृहीतं तेषा सौमनस्यं सम्भवति, तच्च कुशलत्वान्न
विपाक , अतो वक्तव्यम् —कीदृशं तेषा सौमनस्यं विपाक इति । यादृशं तादृश-
मस्त्विति । अपरिच्छिद्यमानमपि तदस्त्येवेति दर्शयति—तस्यास्ति विपाका-
वकाशो न दौर्मनस्यस्य । सर्वथाप्यसमुदाचारात् समापत्त्यवस्थायामपि, असमा-
पत्त्यवस्थायामपीति । अतो न विपाक इति सिद्धम् ।
१. —का० पुस्तके नास्ति ।
२. वीतरागाणां—का० ।
३. सर्वथाऽसमु०—का० ।
भाष्यस्फुटार्थसहितेऽभिधर्मकोशे
तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाकः, दुर्गतावकुशलस्य ।
मनइन्द्रियमुभयोरुभयस्य । सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य । दुःखेन्द्रियम
कुशलस्य । सुगतावुभयव्यञ्जनस्याकुशलेन तत्स्थानप्रतिलम्भः । न त्विन्द्रियस्य
कुशलाक्षेपात् ।
गतमेतद् ॥
इदं नु वक्तव्यम्—कतीन्द्रियाणि सविपाकानि ? कत्यविपाकानि ?
यदेतत् दौर्मनस्यमनन्तरोक्तम्
तत्त्वेकं सविपाकं
तदेकं सविपाकमेव । तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः ।
न हि तदव्याकृतमस्ति, नाप्यनास्रवम्, असमाहितत्वात् । अतो नास्त्यविपाकं
दौर्मनस्यम् ॥
दश द्विधा ॥ १० ॥
मनइन्द्रियमुभयोरुभयस्येति । उभयो = सुगतिदुर्गत्योः । उभयस्य=कुशला-
[
:
सविपाकानि, अविपाकानि च ।
कतमानि दश ?
मनोऽन्यवित्तिश्रद्धादीनि (In print it looks like मतोऽन्यवित्तिश्रद्धादीनि due to ink fill, but let's see if we should write मतोऽन्यवित्तिश्रद्धादीनि or मनोऽन्यवित्तिश्रद्धादीनि or note it. The prompt says: "Transcribe all text... line by line into pure, clean Markdown in original language... Do not hallucinate. Faithfully reproduce"). Let's inspect the image glyph: it's definitely मतोऽन्यवित्तिश्रद्धादीनि in this print (or मनो with filled loop). Let's provide मतोऽन्यवित्तिश्रद्धादीनि or मनोऽन्यवित्तिश्रद्धादीनि. In typography, a filled loop न is often read as त. But wait, look at the font: मनोऽन्यवित्तिश्रद्धादीनि. Let's look at न in अकुशलाः in line 5. That font has a distinct न. In line 3, it really is a त! A typesetter error: मतोऽन्यवित्तिश्रद्धादोनि or `मतोऽन्यवित्तिश्रद्धादीनि
१६० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
कुशलाकुशलाव्याकृतानि ।
अन्यदेकधा ॥ ११ ॥
किञ्चिदन्यत् । जीविताष्टमं चक्षुरादि । एतद्व्याकृतमेव ॥
कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् ?
कामाप्तममलं हित्वा
कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् । एकान्तानास्रवमाज्ञास्यामीन्द्रि-
यादित्रयं हित्वा । तद्ध्यप्रतिसंयुक्तमेव ।
रूपाप्तं स्त्रीपुमिन्द्रिये ।
दुःखे च हित्वा
'अमलं च' इति वर्त्तते । दुःखे इति दुःखदौर्मनस्ये । तत्र मैथुनधर्म-
वैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः ।
"त्रेधा" इति । कुशलाकुशलाव्याकृतानि । त्रय प्रकारा. त्रेधा । "द्वित्र्योश्च
धमुञ्", "एधाच्च" (पा० सू० ५ ३ ४५-४६) इति त्रेधा इत्येषा शब्दव्युत्पत्ति ।
अलोभादिसम्प्रयुक्तानि कुशलानि, लोभादिसम्प्रयुक्तान्यकुशलानि अतोऽन्यान्य-
व्याकृतानि ।
"अन्यदेकधा" इति । जीविताष्टममन्यदेकधैवेत्यवधार्यते । अव्याकृतमेवे-
त्यर्थः । एतदर्थं च पुनरस्य करणम्, अन्यथा ह्यकुशलमेव, कुशलाव्याकृतमेव,
अकुलाव्याकृतमेव वा तत् सम्भाव्यते । तस्मादभीप्सितैकधात्वप्रसिद्धयर्थं
पुनरुच्यते । यस्यैकधात्वं सम्भवति तद् भवति । किञ्च सम्भवति ? अव्याकृतत्व-
मिति ॥ ११ ॥
"कामाप्तममलं हित्वा" इति । अमलमेव हित्वा कामाप्तं भवति । तद्धय-
प्रतिसम्पयुक्तमेवेति । अधातुपतितमेवेत्यर्थः ।
"रूपाप्तं स्त्रीपुमिन्द्रिये" इति । विस्तर.-स्त्री च पुमांश्च स्त्रीपुमासौ ।
"समासान्तो विधिरनित्य." (परि० ८४) इति परिभाषया समासान्तो न
भवति । तयोरिन्द्रिये स्त्रीपुमिन्द्रिये '
"दुखे च" इति । दुःखवेदनास्वभावे इन्द्रिये दुःखदौर्मनस्ये इत्यर्थः । ते
स्त्रीपुमिन्द्रिये दुःखदौर्मनस्ये अमलं चेहानुवर्तमानं हित्वा । शेषं रूपाप्तमिन्द्रियं
भवति ।
निर्देश ] द्वितीयं कोशस्थानम् १६१
कथमिदानीं पुरुषास्त उच्यन्ते , क्वोच्यन्ते ? सूत्रे—"अस्थानमन-
वकाशो यत् स्त्री ब्रह्मत्वं कारयिष्यति । नेदं स्थानं विद्यते यत् पुरुष" इति ।
अन्य पुरुषभावोऽस्ति¹ य कामधातौ पुरुषाणा भवति । दुःखेन्द्रियं नास्ति,
आश्रयस्याच्छत्वाद्, अकुशलाभावाच्च । दौर्मनस्येन्द्रियं नास्ति, शमथस्निग्धसन्तान-
त्वादाघातवस्त्वभावाच्च ।
आरूप्याप्तं सुखे चापोह्य रूपि च ॥ १२ ॥
'स्त्रीपुमिन्द्रिये² दुःखे चामलं च³ हित्वा' इति वर्त्तते । किमवशिष्यते ?
मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च । एतान्यारूप्यप्रतिसंयुक्तानि सन्ति,
नान्यनि ॥ १२ ॥
कतीन्द्रियाणि दर्शनप्रहातव्यानि ? कति भावनाप्रहातव्यानि ? कत्य-
प्रहातव्यानि ?
क्वोच्यन्ते ?—इति पृष्टे सूत्र दर्शयति—अस्थानमनवकाश इति । अत्र सूत्र
इत्यभिप्राय । अन्यः पुरुषभावोऽस्ति यः कामधातौ पुरुषाणा भवतीति । स्तनादि-
संस्थानस्वराचागन्यथारूपम् । दुःखेन्द्रिय नास्तीत्याश्रयस्याच्छत्वात् तदभिघातजं
नास्ति । अकुशलाभावाच्च विपाकजं नास्ति । दौर्मनस्येन्द्रियं नास्ति शमथस्निग्ध-
सन्तानत्वादिति । यस्माच्च शमथेन समाधिना प्रतिघविगमाद् रौक्ष्यं सन्ताने
नास्ति, तस्माद् दोर्मनस्येन्द्रियं नास्ति । आघातवस्त्वभावाच्चेति । आघात =
कोप , तस्य वस्तु=विषय, आघातवस्तु । नव चाघातवस्तूनि—अनर्थं मेऽकार्षीत्,
करोति, करिष्यति च—इत्याघातवस्तुत्रयम्, मित्रस्य मेऽनर्थमकार्षीत्, करोति,
वरिष्यति च—इत्यपरमाघातवस्तुत्रयम्, अमित्रस्य मेऽर्थमकार्षीत्, करोति,
करिष्यति च—इत्यपरमाघातवस्तुत्रयमिति । एषा नवानामाघातवस्तूनाम-
भावाद् विषयकृतमपि दोर्मनस्यं नास्ति । न केवलं हेतुकृतं नास्तीति
दर्शयति । देवकृतं हि तद् यत् स्वसन्तानप्रतिघकृतम्, प्रत्ययकृतं च तद् यत्
नवाघातवस्तुक्कृतमिति ।
"सुखे चापोह्य रूपि च" इति । च-शब्देन पूर्वोक्तमनुकृष्यते । तेनाह—
स्त्रीपुमिन्द्रिये दुःखे चामलं च हित्वेति वर्तत इति । सुखे इति सुखवेदनात्मकस्वभावे
सुखसौमनस्येन्द्रिये । रूपीन्द्रियं चक्षुरादि ॥ १२ ॥
१ 'पुरुषभावो—रा० । २. स्त्रीपुष्वेषेन्द्रिये—का० ।
३., का० पुस्तके नास्ति ।
अभि० को० ११
द्वितीय कोशस्थान: इन्द्रिय-निर्देश (२२ इन्द्रियाँ एवं चित्त-विप्रयुक्त धर्म)
१६२ | भाष्यस्फुटार्थासहितेऽभिधर्मकोशे | [ इन्द्रिय-
मनोवित्त्रितयं त्रेधा
कतमद् वित्त्रितयम् ? सुखसौमनस्योपेक्षाः ।
द्विहेया दुर्मनस्कता ।
दौर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् ।
नव भावनया
'हेयानि' इत्यधिकारः । जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावना-
हेयान्येव ।
पञ्च त्वहेयान्यपि
श्रद्धादीनि पञ्च भावनाहेयान्यपि, अहेयान्यपि; सास्रवानास्रवत्वात् ।
न त्रयम् ॥ १३ ॥
त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकम्; अनास्रवत्वात् । नहि निश्शेष
प्रहाणार्हम् ॥ १३ ॥
उक्त प्रकारभेदः ॥
लाभ इदानीं वक्तव्यः—
कतीन्द्रियाणि कस्मिन् धातौ विपाकः प्रथमतॊ लभ्यन्ते ?
कामेष्वादौ विपाकौ^१ द्वे लभ्येते^२
वित्त्रितयं सुखसौमनस्योपेक्षा इति । सुखेन्द्रियं यत् तृतीयध्यानभूमिकं दर्शन-
हेयानुशयसम्प्रयुक्तं तद् दर्शनहेयम् । तत्रैव अतोऽन्यत् सास्रवम्, पञ्चविज्ञानकायिकं
च कामावचरम् । प्रथमध्यानभूमिकं च त्रिविज्ञानकायिकं भावनाप्रहातव्यम् ।
अनास्रवं तु सुखेन्द्रियम् । सौमनस्य दर्शनहेयसम्प्रयुक्तं दर्शनहेयम् । अतोऽन्यत्
सास्रवं भावनाहेयम् । अनास्रवमहेयम् । उपेक्षेन्द्रियं तु, सर्वगमिति सुगमम् ।
"द्विहेया दुर्मनस्कता" इति । दौर्मनस्ययोगाद् दुर्मनस्क, तद्भावो दुर्मन-
स्कता, दौर्मनस्यमित्यर्थः । "यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश, तद-
भिधाने त्वन्तलो" इति लक्षणात् । तद् दर्शनहेयसम्प्रयुक्तं दर्शनहेयम् । अतो-
ऽन्यद् भावनाहेयम् । नाहेयम्, असमाहितत्वात् ॥ १३ ॥
“कामेष्वादौ विपाको द्वे लभ्येते” इति । "कामप्रधानत्वात् कामधातु कामा
–इति निर्दिश्यते" इति वक्ष्यते । अण्डज-जरायुज-संस्वेदज मत्त्वे कामधात्वादा-
विपाको—का० । २ लभ्यते—का० ।
द्वितीयं कोशस्थानम् १६२
कायेन्द्रियम्, जीवितेन्द्रियं च । ते पुन—
नोपपादुकैः ।
उपपादुकप्रतिषेधादण्डज-जरायुज-संस्वेदजैरिति वेदितव्यम् । कस्मा-
मनउपेक्षेन्द्रिये ? प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् ।
अथोपपादुकैः कति लभ्यन्ते ?
तैः षड् वा
यद्यव्यञ्जना भवन्ति, यथाप्राथमिकल्पिकाः ।
कतमानि षट् ? चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि ।
सप्त वा
यद्येकव्यञ्जना भवन्ति, यथा देवादिषु ।
अष्टौ वा
यद्युभयव्यञ्जना भवन्ति ।
किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति ? भवन्त्यपायेषु । एवं तावत्
कामधातौ ।
अथ रूपधातावारूप्यधातौ च कथम् ? इत्याह—
प्रथमतो द्वे इन्द्रिये विपाकात्मके लभ्येते—कायेन्द्रियम्, जीवितेन्द्रियं च ।
कस्मात् ? प्रतिसन्धिकाले मनउपेक्षेन्द्रिययोरवश्यं क्लिष्टत्वात् । “उपपत्तिभवः
क्लिष्टः सर्वक्लेशैः स्वभूमिकैः” (अभि० ३.३८) इति वचनात् । चक्षुरादीनां
च तस्यामवस्थायामविद्यमानत्वात् ।
“नोपपादुकैः” इत्यपवादः। अविशेषितत्वाद्वि उपपादुकैरपि तथैव द्वे एव
लभ्येयातामिति प्रसङ्गः ।
किमुपपादुकैस्ते द्वे नैव लभ्येते ? लभ्येते, न तु द्वे द्वे एव । तेनाह—
“तैः षड् वा” इति । विस्तर.-यद्यव्यञ्जना भवन्ति । यद्यविद्यमानस्त्रीपुरुन्द्रियाः ।
यथाप्राथमिकल्पिका इति । युगाद्युत्पन्ना “प्रागासन् रूपिणत् सत्त्वाः” (अभि०
३.६७) इति वचनात् । कतमानि षट् ? चक्षुरादीनि पञ्च, जीवितं च षष्ठ-
मिति । यथा देवादिष्विति । आदिशब्देन नारकादयोऽपि गृह्यन्ते । अन्तराभवो-
पपत्तिभवप्रतिसन्धव्यवस्थाया तानि प्रथमतोलभ्यन्ते । कि पुनरुभयव्यञ्जना
अप्युपादुका भवन्तीति । निहीना उभयव्यञ्जनोत्पत्तिः, विशिष्टा चोपपादुका
भाष्यस्फुटार्थासहितेऽभिधर्मकोशे
षड् रूपेषु
कामप्रधानत्वात् कामधातुः 'कामाः' इति निर्दिश्यते । रूपप्रधानत्वाद्
'रूपाणि' इति रूपधातुर्निर्दिश्यते¹ । सूत्रेऽप्युक्तम्— “येऽपि ते² शान्ता विमोक्षा
अतिक्रम्य रूपाण्यारूप्याः” ( ) इति । तत्र रूपधातौ षडिन्द्रियाणि
विपाकः प्रथमतॊ लभ्यन्ते । यान्येव कामधातावव्यञ्जनैरुपपादुकैः ।
एकमुत्तरे ॥ १४ ॥
रूपधातोरारूप्यधातु॒रुत्तरः । समापत्तितश्च परत्वाद्, उपपत्तितश्च प्रधान-
तरत्वात् । तस्मिन् एकमेव जीवितेन्द्रियं विपाकः प्रथमतॊ लभ्यते, नान्यत् ॥
उक्तो लाभः ॥
त्याग इदानीं वक्तव्यः—
कस्मिन् धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति ?
निरोधयत्युपरमन्नाकूप्ये³ जीवितं मनः ।
शीति, कथममयोः समायॊग इति चोदनाभिप्रायः । रूपप्रधानत्वाद् रूपाणी-
ति प्रधानतॊ निर्दिश्यते । रूपप्रधानत्वादिति रूपाणां स्वच्छत्वात्, भास्वरत्वादित्यर्थः ।
अथ वा—न कामगुणप्रधानो धातुः, किं तर्हि ? रूपमात्रप्रधानः । नाप्यारूप्य-
धातुवदरूपप्रधान इति । सूत्रेऽप्युक्तमिति । सूत्रेष्वप्येतं दृष्टम्, न मदुपज्ञमेवैतदिति
दर्शयति । येऽपि ते शान्ता विमोक्षाः अतिक्रम्य रूपाण्यारूप्याः । तेऽप्यनित्या
अध्रुवा अनाश्वासिका विपरिणामधर्माण इति विस्तरः । अव्यञ्जनैरुपपादुकै-
रिति प्राथमकल्पिकैः । समापत्तितश्च परत्वादिति । यस्मात् पूर्वं रूपसमापत्तिः,
पश्चादारूप्यसमापत्तिः, तस्माद् रूपधातोरुत्तर आरूप्यधातुः । उपपत्तितश्च प्रधान-
तरत्वादिति । यस्माच्चोपपत्तितः प्रधानतरो रूपधातोराक्यधातुः, बहूनि
कल्पसहस्राणि, तत्रातिप्रशान्तो विपाको भवति, अतोऽप्यसावुत्तरः, न तूप-
पत्तिदेशतः । “आरूप्यधातुरस्थाने” (अभि० ३.३) इति वचनात् ॥ १४ ॥
“निरोधयत्युपरमन्” इति । म्रियमाण आरूप्यधातावेतान्येव त्रीणीन्द्रियाणि
निरोधयति । सापवादं चेदं वेदितव्यम्, “शुभे सर्वत्र पञ्च च” (अभि० २.१५)
इति वचनात् ।
१. का० पुस्तके नास्ति । २. ते भिक्षव—का० ।
३. ०त्युपरमान्ना०—का० ।
द्वितीयं कोशस्थानम् १६५
उपेक्षां चैव रूपेऽष्टौ
रूपधातौ म्रियमाणोऽष्टौ निरोधयति—तानि च त्रीणि, चक्षुरादीनि
पञ्च। सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते, म्रियन्ते च।
कामे दश नवाष्ट वा ॥ १५ ॥
कामधातौ म्रियमाण उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति—तानि
चाष्टौ, स्त्रीपुरुषेन्द्रिये च। एकव्यञ्जनो नव। अव्यञ्जनोऽष्टौ! सकृन्मरण
एष न्यायः ॥ १५ ॥
क्रममृत्यौस्तु¹ चत्वारि
क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति—कायजीवितमन उपेक्षे-
न्द्रियाणि। न ह्येषां पृथग्निरोधः।
एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः।
यदा तु कुशले चेतसि स्थितो म्रियते, तदा—
शुभे सर्वत्र पञ्च च।
कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति—श्रद्धा-
दीनि च पञ्चाधिकानि। एषा हि² कुशले चेतस्यवश्यम्भावः।
"रूपेऽष्टौ" इति। रूपधातावष्टावेतान्येव। सह पञ्चभिश्चक्षुरादिभिर्निरोधयेत्,
सकृत् समग्रेन्द्रियमरणात्। अत एवाह—सर्वे ह्युपादुकाः समग्रेन्द्रिया उपपद्यन्ते,
म्रियन्ते चेति।
"कामे दश नवाष्ट वा" इति। उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति यदि
समग्रपञ्चेन्द्रियो भवति। एकव्यञ्जनो नव। अव्यञ्जनोऽष्टौ। यदि तु विकलेन्द्रियो
त्रीणि वा भवति तदा तदिन्द्रियं परिहार्यम् ॥ १५ ॥
तापवादं चेतत् सर्वकामधातावेव वेदितव्यम्। तदपवादमाह—"क्रम-
मृत्योस्तु चत्वारि" इति। न ह्येषां पृथङ् निरोध इति। न ह्येषां कामधातावन्योन्यं
विरहय्य निरोधोऽस्तीत्यभिप्रायः।
"शुभे सर्वत्र पञ्च च" इति। सर्वस्य पूर्वोक्तस्य मरणविधेः “निरोधयत्यु-
पशमन्नारूप्ये जीवितं मनः" (अभि० २।१५) इत्येवमादेरपवादः। त्रिविधं हि
मरणचित्तं सम्भवति—क्लिष्टम्, अव्याकृतम्, कुशलं च। तत्र क्लिष्टाव्याकृत-
चित्तस्योत्सर्गन्यायेन मरणविधिमुक्तः। कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चा-
१. क्रममृत्यौ तु—का०। २. का० पुस्तके नास्ति।
षड् रूपेषु
कामप्रधानत्वात् कामधातुः 'कामाः' इति निर्दिश्यते । रूपप्रधानत्वाद्
रूपाणि' इति रूपधातुर्निर्दिश्यते¹ । सूत्रेऽप्युक्तम्- "येऽपि ते² शान्ता विमोक्षा
अतिक्रम्य रूपाण्यारूप्याः।" ( ) इति । तत्र रूपधातौ षडिन्द्रियाणि
विपाकः प्रथमतः लभ्यन्ते । यान्येव कामधातावव्यञ्जनैरुपपादुकैः ।
एकमुत्तरे ॥ १४ ॥
रूपधातोरारूप्यधातुरुत्तरः । समापत्तितश्च परत्वाद्, उपपत्तितश्च प्रधान-
तरत्वात् । तस्मिन् एकमेव जीवितेन्द्रियं विपाकः प्रथमतः लभ्यते, नान्यत् ॥
उक्तो लाभः ॥
त्याग इदानीं वक्तव्यः-
कस्मिन् धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति ?
निरोधयत्युपरमन्नारूप्ये³ जीवितं मनः ।
चेति, कथमनयो समायोग इति चोदनाभिप्रायः । रूपप्रधानत्वाद् रूपाणी-
पधातुर्निर्दिश्यते । रूपप्रधानत्वादिति रूपाणा स्वच्छत्वात्, भास्वरत्वादित्यर्थः ।
ऽथ वा-न कामगुणप्रधानो धातुः, किं तर्हि ? रूपमात्रप्रधान । नाप्यारूप्य-
धातुवद्रूपप्रधान इति । सूत्रेऽप्युक्तमिति । सूत्रेऽप्येतद् दृष्टम्, न मदुपज्ञमेवैतदिति
दर्शयति । येऽपि ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारूप्याः । तेऽप्यनित्या
अध्रुवा अनाश्वासिका विपरिणामधर्माण इति विस्तरः । अव्यञ्जनैरुपपादुकै-
रिति प्राथमकल्पिकैः । समापत्तितश्च परत्वादिति । यस्मात् पूर्वं रूपसमापत्तिः,
पश्चादारूप्यसमापत्ति, तस्माद् रूपधातोरुत्तर आरूप्यधातुः । उपपत्तितश्च प्रधान-
तरत्वादिति । यस्माच्चोपपत्तितः प्रधानतरो रूपधातोरारूप्यधातु, बहूनि
कल्पसहस्राणि, तत्रातिप्रशान्तो विपाको भवति, अतोऽप्यसावुत्तरः, न तूप-
पत्तिदेशतः । "आरूप्यधातुस्थान" ( अभि० ३.३ ) इति वचनात् ॥ १४ ॥
"निरोधयत्युपरमन्" इति । म्रियमाण आरूप्यधातावेतान्येव त्रीणीन्द्रियाणि
निरोधयति । सापवादं चेदं वेदितव्यम्; "शुभे सर्वत्र पञ्च च" ( अभि० २ १६ )
इति वचनात् ।
१. का० पुस्तके नास्ति । २. ते भिक्षव -का० ।
३. ०ण्युपरमा०-का० ।
२।१५ ] द्वितीयं कोशस्थानम् १६५
उपेक्षां चैव रूपेऽष्टौ
रूपधातौ म्रियमाणोऽष्टौ निरोधयति—तानि च त्रीणि, चक्षुरादीनि
पञ्च । सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते, म्रियन्ते च ।
कामे दश नवाष्ट वा ॥ १५ ॥
कामधातौ म्रियमाण उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति—तानि
चाष्टौ, स्त्रीपुरुषेन्द्रिये च । एकव्यञ्जनो नव । अव्यञ्जनोऽष्टौ ! सकृन्मरण
एष न्यायः ॥ १५ ॥
क्रममृत्योस्तु¹ चत्वारि
क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति—कायजीवितमन उपेक्षे-
न्द्रियाणि । न ह्येषां पृथग्निरोधः ।
एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः ।
यदा तु कुशले चेतसि स्थितो म्रियते, तदा—
शुभे सर्वत्र पञ्च च ।
कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति—श्रद्धा-
दीनि च पञ्चाधिकानि । एषा हि² कुशले चेतस्यवश्यम्भावः ।
“रूपेऽष्टौ' इति । रूपधातावष्टावेतान्येव । सह पञ्चभिश्चक्षुरादिभिर्निरोधयेत्,
सकृत् समग्रेन्द्रियमरणात् । अत एवाह—सर्वे ह्युपादुकाः समग्रेन्द्रिया उपपद्यन्ते,
म्रियन्ते चेति ।
'कामे दश नवाष्ट वा” इति । उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति यदि
समग्रषडिन्द्रियो भवति । एकव्यञ्जनो नव । अव्यञ्जनोऽष्टौ । यदि तु विकलेन्द्रियो
स्त्री पुं वा भवति तदा तदिन्द्रियं परिहार्यम् ॥ १५ ॥
सापवादं चेतत् सर्वकामधातावेव वेदितव्यम् । तदपवादमाह—“क्रम-
मृत्यान्तु चत्वारि” इति । न ह्येषां पृथङ् निरोध इति । न ह्येषां कामधातावन्योन्यं
विहाय निरोधोऽस्तीत्यभिप्रायः ।
“शुभे सर्वत्र पञ्च च” इति । सर्वस्य पूर्वोक्तस्य मरणविधेः “निरोधयत्यु-
पशान्तारूप्ये जीवितं मन” (अभि० २ १५) इत्येवमादेरपवादः । त्रिविधं हि
मरणचित्तं सम्भवति—क्लिष्टम्, अव्याकृतम्, कुशलं च । तत्र क्लिष्टाव्याकृत-
चित्तस्योत्सर्गन्यायेन मरणविधिरुक्तः । कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चा-
१ क्रममृत्यो तु—का० । २. का० पुस्तके नास्ति ।
एवमारूप्येष्वष्टौ निरोधयति, रूपेषु त्रयोदश—इति विस्तरेण
गणनीयम् ॥
इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते—
अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते ?
नवाप्तिरन्त्यफलयोः
नवभिरिन्द्रियैः प्राप्तिरन्त्यफलयोः । के पुनरन्त्ये ? स्रोतआपत्ति-
फलम्, अर्हत्त्वं च । के मध्ये ? सकृदागामिफलम्, अनागामिफलं च ।
तत्र स्रोतआपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मन उपेक्षेन्द्रियाभ्यां
चेति नवभिः । आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यम्, आज्ञेन्द्रियं च
धिकाः प्रक्षेप्याः । एषां हि श्रद्धादीनां कुशले चेतस्यवश्यम्भावः । तेन यत्र
त्रीण्युक्तानि तत्राष्टौ, यत्राष्टौ तत्र त्रयोदश, यत्र दश तत्र पञ्चदश, यत्र नव तत्र
चतुर्दश, यत्र पुनरष्टौ तत्र त्रयोदश, यत्र चत्वारि तत्र नव—इति विस्तरेण
गणनीयम् । रूपारूप्यधातोर्नास्ति क्रममरणम् ।
इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते इति । इन्द्रियप्रकरणे इह क्रियमाणे
सर्व इन्द्रियधर्मा इन्द्रियावस्थाविशेषाः कारित्रविशेषा वा विचार्यन्ते—इत्येकं
व्याचक्षते । अपरे तु व्याचक्षते—इन्द्रियप्रकरणे इन्द्रियस्कन्धके सर्व इन्द्रियाधर्मा
अवस्थाविशेषाः कारित्राविशेषा वा विचार्यन्ते । तेनेहापि ते विचार्यन्ते; तत्प्रत्या-
सन्नत्वादस्य शास्त्रस्येत्यभिप्रायः ।
“नवाप्तिरन्त्यफलयोः” इति । नवभिरिन्द्रियैराप्तिर्नवाप्तिः । कस्य ? अन्त्य-
फलयोः । अन्ते भवे अन्त्ये, अन्त्ये फले अन्त्यफले, तयोः । के पुनरन्त्ये ? स्रोत-
आपत्तिफलम्, अर्हत्त्वफलं च । यथा दण्डस्य द्वावन्तौ भवतः, एवं पंक्त्यवस्थि-
तानां चतुर्णां फलानां स्रोतआपत्तिफलम्, अर्हत्त्वफलं चान्ते भवतः ।
सकृदागामिफलमनागामिफलं च मध्ये भवतः । तयोरन्त्ययोः फलयोर्नवभि-
रेवेन्द्रियैः प्राप्तिः । कतमैर्नवभिः ? इत्याह श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मन-
उपेक्षेन्द्रियाभ्यां चेति नवभिरिति ।
तत्रेयमभिसमयक्रमः—दुःखे धर्मज्ञानक्षान्तिः, दुःखे धर्मज्ञानम्; दुःखेऽन्वय-
ज्ञानक्षान्तिः, दुःखेऽन्वयज्ञानम्; समुदये धर्मज्ञानक्षान्तिः, समुदये धर्मज्ञानम्;
समुदयेऽन्वयज्ञानक्षान्तिः, समुदयेऽन्वयज्ञानम्; निरोधे धर्मज्ञानक्षान्तिः, निरोधे
धर्मज्ञानम्; निरोधेऽन्वयज्ञानक्षान्तिः, निरोधेऽन्वयज्ञानम्; मार्गे धर्मज्ञानक्षान्तिः,
मार्गे धर्मज्ञानम्; मार्गेऽन्वयज्ञानक्षान्तिः, मार्गेऽन्वयज्ञानम्—इति षोडश क्षणा
मार्गे। उभाभ्यां हि तस्य प्राप्तिर्विसंयोगप्राप्तेरावाहकसंनिश्रयत्वाद् यथा-
अर्हत्त्वमस्य पुनः—श्रद्धादिभिः, आज्ञास्यामीन्द्रियवर्ज्यैर्मनेन्द्रियेण,
सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः।
अभिसमय इत्युच्यन्ते। तत्र दुःखे धर्मज्ञानक्षान्तिर्यानमार्गेऽन्वयज्ञानक्षान्ति-
रिति पञ्चदश क्षणा दर्शनमार्ग, "अदृष्टदृष्टेर्ह्यमार्गस्तत्र पञ्चदश क्षणा."
(अभि० ६.२८) इति वचनात्। तच्चाज्ञास्यामीन्द्रियमित्युच्यते। मार्गेऽन्वय-
ज्ञानं तु षोडशः, स भावनामार्गः। ततः प्रभृति आ वज्रोपमसमाधेर्यावानना-
स्रवो मार्गः, सर्वोऽसौ भावनामार्गः। तच्चाज्ञेन्द्रियमित्युच्यते। क्षयज्ञानात्
प्रभृति सर्वोऽनास्रवो मार्गोऽशैक्षमार्गः। तच्चाज्ञातावीन्द्रियमित्युच्यते। तत्र
स्रोतआपत्तिफलं मार्गेऽन्वयज्ञानक्षान्त्यवस्थायां प्राप्यते। श्रद्धादीनि चात्र
पञ्चेन्द्रियाण्यवश्यं भवन्ति, तस्या अवस्थाया कुशलत्वात्। आज्ञास्यामी-
न्द्रियस्वभावा चासौ मार्गेऽन्वयज्ञानक्षान्तिर्वर्तमाना। मनइन्द्रियं च तत्सम्प्रयुक्तं
भवति। उपेक्षेन्द्रियं चावश्यमनागम्याश्रयत्वात्। अनागम्यस्य चोपेक्षेन्द्रियम-
म्प्रयुक्तत्वात्। मार्गेऽन्वयज्ञानं त्वस्यामवस्थायामाज्ञेन्द्रियस्वभावमुत्पादाभिमुखं
वर्तते, तेन श्रद्धादिभिः पञ्चभिराज्ञास्यामीन्द्रियेणाज्ञेन्द्रियेण मनउपेक्षेन्द्रियाभ्या
चेति तत्फलं नवभिः प्राप्यते।
उभाभ्या हि तस्य प्राप्तिरिति। आनन्तर्यमार्गेणाज्ञास्यामीन्द्रियस्वभावेन विमु-
क्तिमार्गेण चाज्ञेन्द्रियस्वभावेन तस्य प्राप्तिः। विसंयोगप्राप्तेरावाहकसंनिश्रय-
त्वाद् यथाक्रमम्; तस्याः विसंयोगप्राप्तेरानन्तर्यमार्गस्यावाहकत्वात्, जनकत्वात्,
विमुक्तिमार्गस्य च तस्याः संनिश्रयत्वात्। आधारत्वादित्यर्थः। द्वाभ्या चोर-
निष्कासनकपाटपिधानवत्। यथा हि द्वयोर्मनुष्ययोरेकेन चौरो निष्कास्यते,
द्वितीयेनास्य कपाटं पिधीयते, तथानन्तर्यमार्गेण विसंयोगप्राप्तिरावाह्यते,
क्लेशप्राप्तिमादाय निरोधात्। विमुक्तिमार्गेणाधार्यते, विसंयोगप्राप्तिसहो-
त्पादात्।
अर्हत्त्वस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैरिति। वज्रोपमसमाध्यवस्था-
यामर्हत्त्वफलं प्राप्यते। श्रद्धादीनि मनइन्द्रियं च पूर्ववत्। वज्रोपमसमाधि-
कलापस्तस्यामवस्थायामानन्तर्यमार्ग आज्ञेन्द्रियस्वभावो वर्तमानः। सुखसौमन-
स्योपेक्षेन्द्रियाणा चान्यतमत्। यदि तृतीयं ध्यानं निश्रित्यार्हत्त्वं प्राप्यते, सुखेन्द्रियं
तत्र वर्तमानम्। अथ प्रथमं द्वितीयं ध्यानं निश्रित्य, तत्र सौमनस्येन्द्रियम्।
अथानागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनानामन्यतमम्
१६८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
सप्ताष्टनवभिर्द्वयोः ॥ १६ ॥
सकृदागाम्यनागामिफलयोः प्रत्येक सप्ताभिराष्टभिर्नवभिश्चेन्द्रियैः प्राप्तिः ।
कथं कृत्वा ? सकृदागामिफलं तावद् यद्यानुपूर्विकः प्राप्नोति, स च लौकिकेन
मार्गेण, तस्य सप्तभिरिन्द्रियै. प्राप्ति. — पञ्चभिः श्रद्धादिभि., उपेक्षामनइन्द्रियाभ्या
निश्रित्यै, तत्रोपेक्षेन्द्रियं वर्तमानम् । क्षयज्ञानकलापस्त्वस्यामवस्थाया विमुक्ति-
मार्ग आज्ञातावीन्द्रियस्वभाव उत्पादाभिमुखो भवति । तेन श्रद्धादिभि पञ्च-
भिराज्ञेन्द्रियेणाज्ञातावीन्द्रियेण मनइन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणा चान्यत-
मेनेति तत्फलं नवभि. प्राप्यते । आनन्तर्यविमुक्तिमार्गाभ्या तत्राप्तिरिति पूर्ववद्
व्याख्यानम् ।
“सप्ताष्टनवभिर्द्वयोः” । प्राप्तिरिति शेष. । प्रत्येकमिति । विस्तर.—सकृदा-
गामिफलस्य सप्तभिरष्टाभिर्नवभिर्वा प्राप्तिः । एवमनागामिफलस्य । तत्प्रतिपाद-
यन्नाह—सकृदागामिफलं तावद् यद्यानुपूर्विकः प्राप्नोति । स च लौकिकेन मार्गे-
णेति । लौकिको मार्ग शान्ताद्युदाराद्याकार , “शान्ताद्युदाराद्याकारा उत्तराधर-
गोचरा.” ( अभि० ६.५० ) इति वचनात् । तेनोत्तरा भूमि शान्तत. प्रणीततो
नि.सरणतश्चेह योगी पश्यति । अधरामोदारिकतो दुखितत स्थूलभित्तिकतश्च
पश्यति । स चायं चतु.प्रकारो वर्ण्यते—प्रयोगमार्ग., आनन्तर्यमार्ग , विमुक्ति-
मार्गः, विशेषमार्गश्च । तत्र प्रयोगमार्गो यत आनन्तर्यमार्ग उत्पद्यते, स पुनयेन
क्लेशान् प्रजहाति । विमुक्तिमार्गोऽप्यानन्तर्यमार्गादनन्तरमुत्पद्यते क्लेशप्रहाण-
प्राप्तेराधारक. । विशेषमार्गस्तत उच्चं विशिष्टो मार्गः ।
तेन मार्गेण नवप्रकारा. क्लेशा. प्रहेया.—अधिमात्राधिमात्र., अधिमात्र-
मध्य., अधिमात्रमृदु, मध्याधिमात्र , मध्यमध्य., मध्यमुदु., मृद्वधिमात्र.,
मृदुमध्य., मृदुमृदुश्चेति । तद् यदि पृथग्जन. प्रजहाति दर्शनभावनाहेयान् क्ले-
शान् मिश्रीकृत्य, तेन मृदुमध्याधिमात्रादिभेदेन नवधा कृत्वा प्रजहाति, मृदु-
मृदुभ्यामानन्तर्यविमुक्तिमार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति, एवं
यावदधिमात्राधिमात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्या मृदुमृदुक्लेशप्रकारं प्रज-
हाति । आर्यस्तु भावनाहेयानेव क्लेशाँस्तथैव नवधा कृत्वा प्रजहाति, दर्शन-
हेयाना दर्शनमार्गेण पाक्प्रहीणत्वात् ।
लोकोत्तरस्तु भावनामार्गस्तथैव षोडशाकार., अनित्याकारभेदात् । स
चापि तथैव प्रयोगादिमार्गभेदाच्चतुर्भेद. । इहापि मृदुमृदुभ्यामानन्तर्यविमुक्ति-
मार्गाभ्यामधिमात्राधिमात्रं क्लेशप्रकारं प्रजहाति । एवं यावदधिमात्राधि-
मात्राभ्यामानन्तर्यविमुक्तिमार्गाभ्या मृदुमृदुक्लेशप्रकारं प्रजहाति ।
निर्देशः ] द्वितीयं कोशस्थानम् १६९
चेति । अथ लोकोत्तरेण मार्गेण, तस्याष्टाभिरिन्द्रियैः प्राप्तिः । आज्ञेन्द्रियमष्टमं
भवति ।
अथ भूयोवीतराग प्राप्नोति, तस्य नवभि, येनैव स्रोतआपत्तिफलस्य ।
अनागामिफल यद्यानुपूर्वीकः प्राप्नोति, स च लौकिकेन मार्गेण, तस्य
सप्तभिरिन्द्रियैः प्राप्ति, यथा—सकृदागामिफलस्य । अथ लोकोत्तरेण मार्गेण,
तस्याष्टाभिस्तथैव ।
एष लौकिक-लोकोत्तरमार्गयोर्दिङ्मात्रनिर्देशः । तत्सकृदागामिफलमानुपूर्वी-
केण वा लभ्येत, भूयोवीतरागेण वा । तदानुपूर्वीको यः स्रोतआपत्तिफलं
प्राप्य क्रमात् सकृदागामिफलं प्राप्नोति, कश्चासौ ? य सकलवन्धन एकप्रकारा-
द्युल्लिखितो वा यदि न षष्ठप्रकारोपलिखितो नियाममवक्रामति, षोडशे
चित्तक्षणे स स्रोतआपन्नो भवति । स भावनाहेयस्यैकस्य यावत् षष्ठस्यैव वा
प्रकारस्य प्रहाणाय शमथचरितत्वाल्लौकिकमपि मार्गमुत्पादयति । स षष्ठ-
प्रकारप्रहाणे सकृदागामिफलं प्राप्नोति । तस्य फलस्य सप्तभिरिन्द्रियैः प्राप्तिः
श्रद्धादिभिः पञ्चभिर्मनइन्द्रियेणोपेक्षेन्द्रियेण च सप्तमेनानागम्यनिश्रयत्वात् । अथ
लोकोत्तरेण मार्गेण तस्याष्टाभिरिन्द्रियैः प्राप्तिः । तैरेवाज्ञेन्द्रियेण चाष्टमेन । तान्येव
हि श्रद्धादीनि सप्तेन्द्रियाण्याज्ञेन्द्रियाख्या लभन्ते, अनास्रवत्वात् ।
अथ भूयोवीतराग इति । यो लौकिकेन मार्गेण पृथग्जनावस्थाया षट्प्रकारो-
पलिखितोऽभूत्, स 'भूयोवीतराग' इत्युच्यते, भूयसा प्रकारेण वीतराग इति
कृत्वा । स यदि सकृदागामिफलं प्राप्नोति । कथं स प्राप्नोति इति ? अभि-
समयक्रमेण पूर्वोक्तेन मार्गेऽन्वयज्ञानक्षान्त्यवस्थाया प्राप्नोति । तस्य नवभिर्य-
थैव स्रोतआपत्तिफलस्य । श्रद्धादिभिर्गज्ञातावीन्द्रियवर्ज्यै । मनउपेक्षेन्द्रियाभ्या
चेति पूर्ववद् व्याख्यानम् । अयं हि स्रोतआपत्तिफलमप्राप्यैव षोडशे क्षणे
सकृदागामी भवति । अनागामिफलं यद्यानुपूर्वीकः प्राप्नोतीति । इहानुपूर्वीको यः
स्रोतआपत्तिफलं च प्राप्यानागामिफलं प्राप्नोति, यो वा भूयोवीतरागो भूत्वा
स्रोतआपत्तिफलमलब्ध्वैव सकृदागामिफलमेव च लब्ध्वानागामिफलं प्राप्नोति ।
स च यदि लौकिकेन मार्गेण प्राप्नोति, तस्य सप्तभिरिन्द्रियैः प्राप्ति । यथा सकृदा-
गामिफलस्य, आनुपूर्वीकस्येत्यभिप्रेतम् । श्रद्धादिभिः पञ्चभिर्मनउपेक्षेन्द्रियाभ्या
चेत्यर्थः । अथ लोकोत्तरेण मार्गेण तस्याष्टाभिस्तथैवेति । यथा सकृदागामिफल-
स्यैवाष्टाभिरित्यर्थः । आज्ञेन्द्रियमष्टमं भवतीति ।
१७० भाष्यस्फुटार्थासहिते ऽभिधर्मकोशे [ इन्द्रिय-
अथ वीतरागः प्राप्नोति, तस्य नवभिः प्राप्तिः, यथा—स्रोतआपत्तिफलस्य ।
अय तु विशेषः—सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति, निश्रय-
विशेषात् । यदाप्ययमानुपूर्वीको नवमे विमुक्तिमार्गे तीक्ष्णेन्द्रियत्वाद् ध्यानं
प्रविशति लौकिकेन मार्गेण, तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति । तत्र
हि नवमे विमुक्तिमार्गे सोमनस्येन्द्रियमष्टमं भवति । आनन्तर्यमार्गे तूपेक्षेन्द्रियमेव,
नित्यमुभाभ्या च तस्य प्राप्तिः । अथ लोकोत्तरेण प्रविशति, तस्य नवभिरिन्द्रियैः
प्राप्तिः । आज्ञेन्द्रियं नवमं भवति ॥ १६ ॥
अथ वीतराग इति । कामधातुमात्रवीतरागो लौकिकेन मार्गेण नवमे प्रकारे
प्रहीणे । प्रथमादपि वा ध्यानाद् यावदाकिञ्चन्यादपि वा वीतरागो योऽनागा-
मिफलं प्राप्नोति । तस्य नवभिः प्राप्तिः । यथा स्रोतआपत्तिफलस्य । स्रोतआपत्ति-
फलस्य हि दर्शनमार्गेण प्राप्तिः । अस्य च दर्शनमार्गेणैव प्राप्तिरिति तुल्यत्वम् ।
अयं तु विशेषः—सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति निश्रयविशेषा-
दिति । यदि तृतीयं ध्यानं निश्रित्य नियामकवक्रामति, सुखेन्द्रियं तत्र भवति ।
अथ प्रथमद्वितीये ध्याने निश्रित्य, सौमनस्येन्द्रियं तत्र भवति । अथाना-
गम्यध्यानान्तरचतुर्थध्यानानामन्यतमं निश्रित्य, उपेक्षेन्द्रियं तत्र भवतीति ।
यदाप्ययमानुपूर्वीक इति । विस्तर—यदाप्ययमधिगतपूर्वफल आनुपूर्वीकस्तीक्ष्णे-
न्द्रियः । स नवम विमुक्तिमार्गं ध्यान प्रविशति मौलं लौकिकेन मार्गेण, तदापि
अष्टाभिरिन्द्रयैरनागामिफलं प्राप्नोति । तत्र मौलध्यानमगृह्णातो विमुक्तिमार्गो
भवति, तच्च सौमनस्येन्द्रियम् । आनन्तर्यमार्गस्त्वनागम्यसंगृहीत एव ।
यदि न प्रविशति, तत्र चोपेक्षेन्द्रियमेव, नान्यथा । तस्य प्राप्तिरष्टाभि श्रद्धा-
दिभिः पञ्चभिर्मन उपेक्षासौमनस्येन्द्रियैश्चेति । उभाभ्या च तस्य प्राप्तिरिति ।
आनन्तर्यविमुक्तिमार्गाभ्यां चोरनिष्कासनकपाटपिधानवदिति व्याख्यातमेतत् ।
अथ लोकोत्तरेण प्रविशतीति । स एवानुपूर्वीकस्तादृगेन्द्रियो वेदितव्यः, अधि-
कारानुवृत्तेः । तस्य नवाभिरिन्द्रियैः प्राप्तिः । तैरेव तावदुक्तैरिन्द्रियैः । आज्ञेन्द्रियेण
च नवमेन । तान्येव हीन्द्रियाण्यनास्रवत्वादाज्ञेन्द्रियाख्या लभन्ते ।
इदमिह चोद्यते—कस्मादानुपूर्वीक एवमुक्त, न पुनर्वीतरागपूर्वी ? न हि
वीतरागपूर्व्यनागम्यनिश्रयेण दर्शनमार्गमुत्पाद्य षोडशे चित्तक्षणे मौलं प्रथमं
ध्यानं प्रविशति, तत्राधिगतेरनादरात् । आनुपूर्वीको हि मौलध्यानाथी, तस्या-
नधिगतपूर्वत्वात् । तस्मादस्ति सम्भवो यदसौ मौलमव प्रविशति । वीतराग-
पूर्वी तु चतु मत्यदर्शनं प्रति कृतादर., न ध्यानं प्रति । इति न तत्र षोडशे
चित्तक्षणे मौलं ध्यानं प्रविशतीत्यभिप्राय ॥ १६ ॥
निर्देश ] द्वितीयं कोशस्थानम् १७१
यत्तर्हि अभिधर्म उक्तम्—“कतिभिरिन्द्रियैरर्हत्त्वं प्राप्नोतीत्याह—एका-
दशभिः” ( ) इति, तत् कथं नवभिरित्युच्यते ? नवभिरेव
तत् प्राप्नोति ।
एकादशभिरर्हत्त्वमुक्तं त्वेकस्य सम्भवात् ।
अस्ति सम्भवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्योपेक्षाभिरर्हत्त्वं
प्राप्नुयाद्, अत एकादशभिरित्युक्तम्। न तु खलु सम्भवोऽस्ति सुखादीनामे-
कस्मिन् काले।
कथमनागामिनोऽप्येष प्रसङ्गो न भवति ? न ह्यसौ परिहीणः कदाचित्
सुखेन्द्रियेण प्राप्नोति ।
“नवभिरन्त्यफलयोः” (अभि० २।१६) इत्युक्तम्, तद्विरोधयति—यत्
तर्हि अभिधर्म उक्तम् । ज्ञानप्रस्थाने । “कतिभिरिन्द्रियैरर्हत्त्वं प्राप्नोति ? इत्याह—
एकादशभिः” इति। तत्कथं न विरुध्यते इत्यभिप्रायः ।
“एकस्य सम्भवात्” इति। कस्यचिदेकस्य पुद्गलस्य सम्भवः। न सर्वस्य
सम्भवः। यो हि मृद्विन्द्रिय परिहाय परिहाय सुखसौमनस्योपेक्षाभिः एकादशभिः
निश्चयविशेषात् पार्यायिकीभिरर्हत्त्वं प्राप्नुयात्, तं प्रति एवमुक्तम् । एकादश-
भिरिति । न तु सम्भवोऽस्ति मुखसौमनस्योपेक्षाणा एकस्मिन् काले समवधान-
मित्यर्थः । चित्तचैत्तानामेकैकद्रव्योत्पत्ते । यो हि कश्चिन्मृद्विन्द्रियः पुद्गलोऽनागम्यं
वोपेक्षेन्द्रियनिश्चयं निश्रित्यार्हत्त्वं प्राप्नुयात्, तस्य तत्प्राप्तिरुपेक्षेन्द्रियेण । ततः
पुनरपि परिहीयते । तत प्रथमं द्वितीयं वा ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नु-
यात्, तस्य तत्प्राप्ति सौमनस्येन्द्रियेण । ततः पुनरपि परिहीयते । ततः स
तृतीयं ध्यानं निश्रित्य पुनरर्हत्त्वं प्राप्नुयात्, तस्य तत्प्राप्तिः सुखेन्द्रियेण । इति
प्रत्येकं तत्र पत्याप्ताववश्यं नवैवेन्द्रियाणि व्याप्रीयन्ते—श्रद्धादीनि पञ्च, मन-
आज्ञातातवीन्द्रियाणि सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमदिति । पुनः पुनः
प्राप्तेस्तदेकादशभिरित्युक्तम् ।
कथमनागामिनोऽप्येष प्रसङ्गो न भवतीति। कस्मात् तत्र शास्त्रेऽर्हत्त्वफल-
मेवैकादशभिः प्राप्नोति इत्युक्तम्, न तूक्तम्—अनागामिफलमपीति ? न ह्यसौ
परिहीणः कदाचित् सुखेन्द्रियेण प्राप्नोतीति। असावनागामी तृतीयध्यानादूर्ध्व-
भूमिलाभात् परिहीणो भवति, ऊर्ध्वभूमेरेव परिहीणो भवति, नासावनागामि-
फलात् परिहीण इत्युच्यते। एवं यावद् द्वितीयध्यानात् । यदा तु प्रथमात्
परिहीणो भवति, तदानागामिफलात् परिहीण इत्युच्यते । पञ्चावरभागीय-