सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 184, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 184

द्वितीयं कोशस्थानम् १६५
उपेक्षां चैव रूपेऽष्टौ
रूपधातौ म्रियमाणोऽष्टौ निरोधयति—तानि च त्रीणि, चक्षुरादीनि
पञ्च। सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते, म्रियन्ते च।
कामे दश नवाष्ट वा ॥ १५ ॥
कामधातौ म्रियमाण उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति—तानि
चाष्टौ, स्त्रीपुरुषेन्द्रिये च। एकव्यञ्जनो नव। अव्यञ्जनोऽष्टौ! सकृन्मरण
एष न्यायः ॥ १५ ॥
क्रममृत्यौस्तु¹ चत्वारि
क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति—कायजीवितमन उपेक्षे-
न्द्रियाणि। न ह्येषां पृथग्निरोधः।
एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः।
यदा तु कुशले चेतसि स्थितो म्रियते, तदा—
शुभे सर्वत्र पञ्च च।
कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति—श्रद्धा-
दीनि च पञ्चाधिकानि। एषा हि² कुशले चेतस्यवश्यम्भावः।
"रूपेऽष्टौ" इति। रूपधातावष्टावेतान्येव। सह पञ्चभिश्चक्षुरादिभिर्निरोधयेत्,
सकृत् समग्रेन्द्रियमरणात्। अत एवाह—सर्वे ह्युपादुकाः समग्रेन्द्रिया उपपद्यन्ते,
म्रियन्ते चेति।
"कामे दश नवाष्ट वा" इति। उभयव्यञ्जनो दशेन्द्रियाणि निरोधयति यदि
समग्रपञ्चेन्द्रियो भवति। एकव्यञ्जनो नव। अव्यञ्जनोऽष्टौ। यदि तु विकलेन्द्रियो
त्रीणि वा भवति तदा तदिन्द्रियं परिहार्यम् ॥ १५ ॥
तापवादं चेतत् सर्वकामधातावेव वेदितव्यम्। तदपवादमाह—"क्रम-
मृत्योस्तु चत्वारि" इति। न ह्येषां पृथङ् निरोध इति। न ह्येषां कामधातावन्योन्यं
विरहय्य निरोधोऽस्तीत्यभिप्रायः।
"शुभे सर्वत्र पञ्च च" इति। सर्वस्य पूर्वोक्तस्य मरणविधेः “निरोधयत्यु-
पशमन्नारूप्ये जीवितं मनः" (अभि० २।१५) इत्येवमादेरपवादः। त्रिविधं हि
मरणचित्तं सम्भवति—क्लिष्टम्, अव्याकृतम्, कुशलं च। तत्र क्लिष्टाव्याकृत-
चित्तस्योत्सर्गन्यायेन मरणविधिमुक्तः। कुशलचित्तस्य तु मरणे श्रद्धादयः पञ्चा-
१. क्रममृत्यौ तु—का०। २. का० पुस्तके नास्ति।