सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 177, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 177

भाष्यस्फुटार्थसहितेऽभिधर्मकोशे

तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाकः, दुर्गतावकुशलस्य ।
मनइन्द्रियमुभयोरुभयस्य । सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य । दुःखेन्द्रियम
कुशलस्य । सुगतावुभयव्यञ्जनस्याकुशलेन तत्स्थानप्रतिलम्भः । न त्विन्द्रियस्य
कुशलाक्षेपात् ।
गतमेतद् ॥
इदं नु वक्तव्यम्—कतीन्द्रियाणि सविपाकानि ? कत्यविपाकानि ?
यदेतत् दौर्मनस्यमनन्तरोक्तम्
तत्त्वेकं सविपाकं
तदेकं सविपाकमेव । तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः ।
न हि तदव्याकृतमस्ति, नाप्यनास्रवम्, असमाहितत्वात् । अतो नास्त्यविपाकं
दौर्मनस्यम् ॥
दश द्विधा ॥ १० ॥
मनइन्द्रियमुभयोरुभयस्येति । उभयो = सुगतिदुर्गत्योः । उभयस्य=कुशला-
[