सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 181, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 181

१६२ | भाष्यस्फुटार्थासहितेऽभिधर्मकोशे | [ इन्द्रिय-

मनोवित्त्रितयं त्रेधा
कतमद् वित्त्रितयम् ? सुखसौमनस्योपेक्षाः ।
द्विहेया दुर्मनस्कता ।
दौर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् ।
नव भावनया
'हेयानि' इत्यधिकारः । जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावना-
हेयान्येव ।
पञ्च त्वहेयान्यपि
श्रद्धादीनि पञ्च भावनाहेयान्यपि, अहेयान्यपि; सास्रवानास्रवत्वात् ।
न त्रयम् ॥ १३ ॥
त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकम्; अनास्रवत्वात् । नहि निश्शेष
प्रहाणार्हम् ॥ १३ ॥
उक्त प्रकारभेदः ॥
लाभ इदानीं वक्तव्यः—
कतीन्द्रियाणि कस्मिन् धातौ विपाकः प्रथमतॊ लभ्यन्ते ?
कामेष्वादौ विपाकौ^१ द्वे लभ्येते^२


वित्त्रितयं सुखसौमनस्योपेक्षा इति । सुखेन्द्रियं यत् तृतीयध्यानभूमिकं दर्शन-
हेयानुशयसम्प्रयुक्तं तद् दर्शनहेयम् । तत्रैव अतोऽन्यत् सास्रवम्, पञ्चविज्ञानकायिकं
च कामावचरम् । प्रथमध्यानभूमिकं च त्रिविज्ञानकायिकं भावनाप्रहातव्यम् ।
अनास्रवं तु सुखेन्द्रियम् । सौमनस्य दर्शनहेयसम्प्रयुक्तं दर्शनहेयम् । अतोऽन्यत्
सास्रवं भावनाहेयम् । अनास्रवमहेयम् । उपेक्षेन्द्रियं तु, सर्वगमिति सुगमम् ।
"द्विहेया दुर्मनस्कता" इति । दौर्मनस्ययोगाद् दुर्मनस्क, तद्भावो दुर्मन-
स्कता, दौर्मनस्यमित्यर्थः । "यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेश, तद-
भिधाने त्वन्तलो" इति लक्षणात् । तद् दर्शनहेयसम्प्रयुक्तं दर्शनहेयम् । अतो-
ऽन्यद् भावनाहेयम् । नाहेयम्, असमाहितत्वात् ॥ १३ ॥
“कामेष्वादौ विपाको द्वे लभ्येते” इति । "कामप्रधानत्वात् कामधातु कामा
–इति निर्दिश्यते" इति वक्ष्यते । अण्डज-जरायुज-संस्वेदज मत्त्वे कामधात्वादा-
विपाको—का० । २ लभ्यते—का० ।