अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 176, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] द्वितीयं कोशस्थानम् १५७
का पुनरत्र युक्तिः—दौर्मनस्यं न विपाक इति ? दौर्मनस्यं हि परिकल्प-
विशेषैरुत्पाद्यते च, व्युत्पाद्यते १ च, व्युपशाम्यते च । न चैवं विपाकः । सौमनस्य-
मप्येवं न स्याद् विपाकः । यदि तर्हि दौर्मनस्य विपाकः स्याद्, आनन्तर्यकारिणां
तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् । सौमनस्यमप्येवम् । यदि सौमनस्यं
विपाकः स्यात्, पुण्यकारिणां तन्निमित्त सौमनस्योत्पादात् तत्कर्म विपक्वं स्यात् ।
वीतरागादीनां २ तर्हि दौर्मनस्यासम्भवात् । न चैवं विपाकः । सौमनस्यमप्येषाम-
व्याकृतं कीदृशं विपाकः स्यात् ? यादृशं तादृशमस्तु । सति तु सम्भवे सौम-
नस्यस्यास्ति विपाकावकाश , न दौर्मनस्यस्य । सर्वथाऽप्यसमुदाचारादिति ३
नास्त्येवं दौर्मनस्य विपाक इति वैभाषिकाः ।
तेनाह—का पुनरत्र युक्तिदौर्मनस्यं न विपाक इति । अथ वां अगत्या ह्येत-
देवं गम्येत—क्वचित् संप्रयोगवेदनीयता, क्वचित् विपाकवेदनीयतेति । ब्रूयास्त्वं
सर्वत्रैव तर्हि संप्रयोगवेदनीयतेति ? अत एतदन्तराभिप्रायमभिसमीक्ष्याह—
का पुनरत्र युक्ति — दौर्मनस्य न विपाक इति । दौर्मनस्य हीति । अनिष्टचिन्त-
नादिके परिकल्पविशेषैरुत्पाद्यते च, व्युत्पादनं च, व्युपशाम्यते च । सोमनस्य-
मप्येवमिति । परिकल्पविशेषैरिष्टचिन्तनादिभिरुत्पाद्यते च, व्युपशाम्यते च ।
वीतरागादीना तर्हीति । यस्माद् वीतरागादीना दौर्मनस्यं व्यावर्तते । न हि
चक्षुरादिको विपाकभूतो वीतरागादीना व्यावर्तते, दौर्मनस्यं तु व्यावर्तते । वच-
नाद् दौर्मनस्येन कामवीतरागोऽसमन्वागत इति । सूत्रेऽप्युक्तम्—"अवीतरागस्य
द्विशल्या वेदनोक्ता—कायिकं दुखं प्रतिसंवेदयते, चैतसिकं च दौर्मनस्यम्"
इति । वचनाद् वीतरागस्य च एकशल्या कायिमेव दुखं प्रतिसंवेदयत इति ।
सौमनस्यमप्येषामिति । विस्तर —वीतरागाणामव्याकृतं विपाकरूपं सौमनस्यं
कीदृशं स्यात् ! समापत्तिसंगृहीतं तेषा सौमनस्यं सम्भवति, तच्च कुशलत्वान्न
विपाक , अतो वक्तव्यम् —कीदृशं तेषा सौमनस्यं विपाक इति । यादृशं तादृश-
मस्त्विति । अपरिच्छिद्यमानमपि तदस्त्येवेति दर्शयति—तस्यास्ति विपाका-
वकाशो न दौर्मनस्यस्य । सर्वथाप्यसमुदाचारात् समापत्त्यवस्थायामपि, असमा-
पत्त्यवस्थायामपीति । अतो न विपाक इति सिद्धम् ।
१. —का० पुस्तके नास्ति ।
२. वीतरागाणां—का० ।
३. सर्वथाऽसमु०—का० ।