अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
निर्देशः ] प्रथमं कोशस्थानम् १२९
कायस्तद्भूमिकं चक्षुः, ऊर्ध्वभूमिक वा चक्षुर्भवति न त्वधरभूमिकम् । यद्भूमिक
चक्षुस्तद्भूमिकम्, अधरभूमिक वा रूपं विषयो भवति ।
ऊर्ध्वं रूपं न चक्षुषः ।
न हि कदाचिदूर्ध्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते ।
विज्ञानं च,
ऊर्ध्वं न चक्षुषो रूपवत् ।
अस्य रूपं तु कायस्योऽभे च सर्वतः ॥ ४६ ॥
अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः—ऊर्ध्वम्, अधः,
स्वभूमौ च । कायस्य चोभे रूपविज्ञाने सर्वतो भवतः ॥ ४६ ॥
“ऊर्ध्वं रूपं न चक्षुषः” इति । नोर्ध्वभूमिकं रूपं चक्षुषो विषयो भवति,
ऊर्ध्वभूमिकस्य रूपस्य सूक्ष्मत्वात् । स्वभूमिकमधरभूमिकं चाभ्यनुज्ञातं भवति ।
“विज्ञानं च”। किम् ? ऊर्ध्वं न चक्षुष इति प्रकृतम्। कामावचरस्य चक्षुषो-
र्ध्वभूमिकस्य प्रथमध्यानभूमिकं चक्षुर्विज्ञानं न भवति । स्वभूमिकमधरभूमिकं
वाभ्यनुज्ञातं भवति । कामावचरस्य चक्षुष स्वभूमिकं कामावचरमेव चक्षु-
र्विज्ञानं भवति । प्रथमध्यानभूमिकस्य चक्षुष, प्रथमध्यानभूमिकमेव चक्षुर्विज्ञानं
भवति, कामावचरं तु चक्षुर्विज्ञानमस्य न भवति । ननु चोक्तम्—अधरभूमि-
कमभ्यनुज्ञातमिति ? सत्यमुक्तमेतत्, किन्तु असत्यात्मीयेऽधरभूमिकमिष्यते,
न सतीति । द्वितीयतृतीयचतुर्थध्यानचक्षुषो ह्यसति आत्मिये प्रथमध्यान-
भूमिकमेवाधरं चक्षुर्विज्ञानं भवति, न तु कामावचरम्, परमहीनत्वात् ।
सम्भवतस्त्वेवमुक्तम्—अधरभूमिकमभ्यनुज्ञातमिति ।
अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्येति । चक्षुर्विज्ञानजाते. । रूपं सर्वतो
विषयः। सम्भवतस्तु योज्यम् । कामावचरस्य चक्षुर्विज्ञानस्य स्वभूमिकमेव रूपम्,
प्रथमध्यानभूमिकस्य तु प्रथमध्यानभूमिकचक्षुराश्रयस्य चक्षुर्विज्ञानस्य स्वभूमि-
कमधरभूमिकमूर्ध्वभूमिकं च रूपं विषय., चतुर्थध्यानभूमिकचक्षुराश्रयस्य तु
चतुर्थध्यानभूमिकं रूपम्, ततश्चाधरभूमिकं सर्व विषय. । एवं यावद् द्वितीय-
ध्यानभूमिकचक्षुराश्रयस्य द्वितीयध्यानभूमिकम्, ततश्चाधरभूमिकं रूपं विषय ।
एवं चक्षुर्विज्ञानजातेरूर्ध्वमध. स्वभूमौ च रूपं विषयो भवति । कायस्य चोभे
रूपविज्ञाने सर्वतो भवत इति । कामावचरस्य कायस्य शरीरस्य स्वभूमिकोर्ध्व-
भूमिके रूपविज्ञाने भवत. । प्रथमध्यानभूमिकस्य कायस्य प्रथमध्यानभूमिकमेव
विज्ञानम् । रूपं तु स्वोध्वाधरभूमिकम्, यथा—स्वाश्रयं चक्षु. । द्वितीयादि-
अभि० को० ९
६३० श्रीमत्स्फुटार्थासहितेऽभिधर्मकोशे [ १.४७-
यथा चेदं चक्षुरुक्तं विस्तरेण वेदितव्यम्,
तथा श्रोत्रं
“न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः ।
विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः ॥”
इति विस्तरेण योज्यम् ।
त्रयाणां तु सर्वमेव स्वभूमिकम् ।
घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव—इत्युत्सर्ग-
विशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते—
कायविज्ञानमधरस्वभूमि,
कायः, कायधातुः, स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति । कायविज्ञानं
तु केषाञ्चित् स्वभूमिकम्, यथा कामधातुप्रथमध्यानेऽपपन्नानाम् । केषाञ्चिदधर-
भूमिकम्, यथा द्वितीयादिध्यानेऽपपन्नानामिति ।
ध्यानभूमिकस्य कायस्य विज्ञानमधरभूमिकमेव । प्रथमध्यानभूमिकमेवेत्यर्थः ।
रूपं तु द्वितीयतृतीयध्यानभूमिकस्य कायस्य स्वोर्ध्वाधरभूमिकम्, यथा—
स्वाश्रयं चक्षुः । चतुर्थध्यानभूमिकस्य कायस्य रूपं स्वाधरभूमिकम्; तत
ऊर्ध्वं रूपाभावात् ॥ ४६ ॥
“तथा श्रोत्रम्” इति । यथा चक्षुरुक्तं तथा श्रोत्रं व्याख्यातव्यम् । कथ-
मिति ? अथ यत्र काये स्थितः श्रोत्रेण शब्दान् शृणोति, किं तानि कायश्रोत्र-
शब्दविज्ञानान्येकभूमिकान्येव भवन्ति ? आहोस्विदन्यभूमिकान्यपि ? आह—
सर्वेषां भेदः । कामधातूपपन्नस्य स्वेन श्रोत्रेण स्वान् शब्दान् शृण्वतः सर्वं
स्वभूमिकं भवतीति विस्तरेणानया दिशा ग्रन्थो वक्तव्यो यावदयं तु नियमः—
न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः ।
विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः ॥
इति विस्तरेण योज्यम् । कथमिति ? न कायस्याधरं श्रोत्रम् । पञ्चभूमिका
हि कायश्रोत्रशब्दाः कामावचरा यावच्चतुर्थध्यानभूमिकाः । द्विभूमिकं श्रोत्र-
विज्ञानम्—कामावचरम्, प्रथमध्यानभूमिकं च । तत्र यद्भूमिकः कायस्तद्-
भूमिकमूर्ध्वभूमिकं वा श्रोत्रं तद्भूमिकोऽधरभूमिको वास्य शब्दो विषयो
भवति । ऊर्ध्वं शब्दो न च श्रुतेः । न हि कदाचिदूर्ध्वभूमिकः शब्दोऽधरभूमिकेन
श्रोत्रेण श्रोतुं शक्यते । विज्ञानं च । ऊर्ध्वं न श्रोत्रस्य शब्दवत् । अस्य शब्दस्तु
निर्देशः ] प्रथम कोशस्थानम् १३१
अनियतं मनः ॥ ४७ ॥
कदाचित् कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति, कदाचिदूर्ध्वाधो-
भूमिकम् । पञ्चभूमिकेऽपि काये¹ सर्वभूमिकानि मनआदीनि भवन्ति उप-
पत्तिकाले² समापत्तिकाले² यथायोगमिति विस्तरेण समापत्तिनिर्देशे
कोशस्थान एतदाख्यायिष्यते । अतिबहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनरा-
ख्यायते, अल्पं च प्रयोजनम्, महांश्च श्रम इति ॥ ४७ ॥
समाप्त आनुषङ्गिकः प्रसङ्ग ॥
इदमिदानीं विचार्यते—अष्टादशानां धातूनां षण्णां च विज्ञानानां कः केन
विज्ञेय. ? आह—
पञ्च बाह्या द्विविज्ञेयाः,'
रूपशब्दगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैर-
कायस्योभे च सर्वत. । अस्येत्यनन्तरोक्तस्य श्रोत्रविज्ञानस्य शब्दः सर्वतो
विषय.—ऊर्ध्वम्, अध., स्वभूमौ च । कायस्य चोभे शब्दविज्ञाने सर्वतो
भवत इति ।
“अनियतं मनः” इति । यथा चक्षु, श्रोत्रं वा नियमितम्—‘न कायस्या-
धरं चक्षु श्रोत्रं वा’ इत्येवमादिना, नैवं नियमितं मन. । अत एवाह—पञ्च-
भूमिकेऽपि काये सर्वभूमिकानि मनआदीनि भवन्तीति । मनोधर्ममनोविज्ञानानि
सर्वभूमिकानि कामावचराणि यावद्भवाग्रिकाणि । तद्यथा—कामधातूपपन्नो
यदि कामावचरान्मनसोऽनन्तरं कामावचरमेव कामावचरधर्मालम्बनं मनो-
विज्ञानमुत्पादयति, सर्वाणि कामावचराणि । यदि प्रथमध्यानभूमिकाद् याव-
द्भवाग्रभूमिकायुपपत्तिकाले समापत्तिकाले वा सम्भवत, कामावचरं तथैव मनो
विज्ञानमुत्पादयति, मनस्ततस्त्यम्, शेषाणि कामावचराणि । अथ तत्रे
तद्विज्ञानमुत्पादयति धर्मांस्त्वालम्बनं प्रथमध्यानभूमिका यावद्भवाग्रभूमिका,
धर्मास्ततस्त्या. । शेषाणि पूर्ववत् । एवं प्रथमध्यानापपन्नो यावद्भवाग्रोपपन्नो
यथायोगं वक्तव्य. ।
समाप्त आनुषङ्गिकः प्रसङ्ग इति । “चक्षुश्च धर्मधातोरश्च प्रदेशो दृष्टि.” अभि०
को० १.४१ ) इत्येतदाधिकारिकम् । अथ “यत्र काये स्थितश्चक्षुषा रूपाणि
पश्यति” इत्येवमादिरयमानुषङ्गिकः प्रसङ्ग; दर्शनसम्बन्धादागतत्वात् ॥ ४७ ॥
“पञ्च बाह्या द्विविज्ञेयाः” इति । पञ्चग्रहणं धर्मधातुनिराकरणार्थम् ।
बाह्यग्रहणं चक्षुरादिनिरासार्थम् । बाह्या एव पञ्च द्विविज्ञेया इत्यवधारणादन्ये
१. हि काये—का० । २-२. समापत्त्युपपत्तिकाले—का० ।
१३२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ १.४८-
नुभूता मनोविज्ञानेन विज्ञायन्ते । एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया
भवन्ति ।
शेषास्त्रयोदश धातव पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन
विज्ञेया इत्याख्यातं भवति ॥
एषामष्टादशानां धातूनां मध्ये कति नित्याः ? कत्यनित्याः ? न कश्चित्
सकलोऽस्ति नित्यो धातुः, अपि तु—
नित्या धर्मा असंस्कृताः ।
तेन धर्मधात्वेकदेशो नित्यः, शेषा अनित्याः ॥
कतीन्द्रियम्, कति नेन्द्रियम् ?
धर्मार्धं¹ इन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥ ४८ ॥
द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे—चक्षुरिन्द्रियम्, श्रोत्रेन्द्रियम्, घ्राणे-
न्द्रियम्, जिह्वेन्द्रियम्, कायेन्द्रियम्, मनइन्द्रियम्, स्त्रीन्द्रियम्, पुरुषेन्द्रियम्,
जीवितेन्द्रियम्, सुखेन्द्रियम्, दुःखेन्द्रियम्, सौमनस्येन्द्रियम्, दौर्मनस्येन्द्रियम्,
उपेक्षेन्द्रियम्, श्रद्धेन्द्रियम्, वीर्येन्द्रियम्, स्मृतीन्द्रियम्, समाधीन्द्रियम्, प्रज्ञे-
न्द्रियम्, अनाज्ञातमाज्ञास्यामीन्द्रियम्, आज्ञेन्द्रियम्, आज्ञातावीन्द्रियमिति ।
त्रयोदश धातव एकविज्ञानविज्ञेया इति सिद्धम्, पञ्चविज्ञानकायानामविषयत्वात् ।
“नित्या धर्मा असंस्कृताः” इति । असंस्कृता एव नित्या इत्यवधारणम् ।
अध्वमञ्चाराभावान्नित्याः ।
“धर्मार्धं इन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः” इति । धातव इत्यधिकारः ।
द्वाविंशतिरिन्द्रियाण्युक्तानि² सूत्र इति । “अथ जातिश्रोणो ब्राह्मणो येन भगवास्ते-
नोपसंक्रान्तः, उपसंक्रम्य भगवता सार्धं संमुखं संमोदनीं संलक्षनीं विविधां कथां
व्यतिसार्यैकान्ते न्यषीदत् । एकान्तनिषण्णो जातिश्रोणो ब्राह्मणो भगवन्तमिदम-
वोचत्–इन्द्रियाणीन्द्रियाणीति भो गौतम उच्यन्ते, कति भो गौतम इन्द्रियाणि ?
कियता चेन्द्रियाणां संग्रहॊ भवति ? द्वाविंशतिरिमानि ब्राह्मण इन्द्रियाणि ।
कतमानि द्वाविंशति ? चक्षुरिन्द्रियम्, श्रोत्रेन्द्रियम्, घ्राणेन्द्रियम्, जिह्वेन्द्रियम्,
कायेन्द्रियम्, मनइन्द्रियम्, स्त्रीन्द्रियम्, पुरुषेन्द्रियम्, जीवितेन्द्रियम्, सुखेन्द्रि-
यम्, दुःखेन्द्रियम्, सौमनस्येन्द्रियम्, दौर्मनस्येन्द्रियम्, उपेक्षेन्द्रियम्, श्रद्धेन्द्रि-
यम्, वीर्येन्द्रियम्, स्मृतीन्द्रियम्, समाधीन्द्रियम्, प्रज्ञेन्द्रियम्, अनाज्ञातमाज्ञास्या-
१ धर्मार्धम्—का० ।
| निर्देशः ] प्रथमं कोशस्थानम् १३३
आभिधार्मिकास्तु षडायतनव्यवस्थानमाहृत्य जीवितेन्द्रियानन्तरं मन-
इन्द्रियं पठन्ति; सालम्बनत्वात् । तत्र धर्मार्ध जीवितेन्द्रियादीन्येकादशेन्द्रियाणि
त्रयाणां च भाग., धर्मधातुप्रदेशत्वात् । द्वादशानामाध्यात्मिकाना चक्षुरादय.
पञ्च स्वनामोक्ताः, सप्त चित्तधातवो मनइन्द्रियं स्त्रीपुरुषेन्द्रिये कायधातुप्रदेश
इति पश्चाद् वक्ष्यति । शेषा. पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् ॥
अभिधर्मकोशभाष्ये धातुनिर्देशो नाम
प्रथमं कोशस्थान समाप्तमिति
मीन्द्रियम्, आज्ञेन्द्रियम्, आज्ञातावीन्द्रियम्—इतीमानि ब्राह्मण द्वाविंशतिरिन्द्रि-
याणि । इयता इन्द्रियाणामिन्द्रियसंग्रहो भवति । अथ जातिश्रोणो ब्राह्मणो
भगवतो भाषितमभिनन्द्यानुमोद्य भगवतोऽन्तिकात् प्रक्रान्त” ( ) इति ।
धर्मार्ध इति धर्मधात्वेकदेश इत्यर्थ । धर्मार्धमिति नपुंसकनिर्देशेन केचित्
पठन्ति । तेषा पाठे अर्धधर्म इति ममप्रविभाग प्राप्नोति, “अर्धं नपुंसकम्”
( पा० सू० २ २ २) इति लक्षणात्, अर्धपिप्पलीति यथा । अथ नपुंसक-
लिङ्गोऽप्यर्धशब्द एकदेशार्थे वर्तते, तदेवं समास क्रियते—धर्मश्चासावर्धं च
धर्मार्धम्, धर्मे वार्थं धर्मार्धमिति ।
आभिधर्मिकास्तु षडायतनव्यवस्थामनाहृत्येति । चक्षुरायतनं यावत्काया-
यतनं मनआयतनमिति षडायतनमिति षडायतनव्यवस्था युक्तम्पामना-
दृश्य । जीवितेन्द्रियानन्तरं मनइन्द्रियम् पठन्ति, सालम्बनत्वात् । वेदनेन्द्रियादानि
हि सालम्बनानि अनन्तरं पठन्ति । जीवितेन्द्रियादीन्येकादशेति । जीवि-
तेन्द्रियम्, वेदनेन्द्रियाणि पञ्च, श्रद्धादीनि चेति । त्रयाणा च भाग इति ।
आज्ञास्यामीन्द्रियादीना नवद्रव्यात्मकाना मनइन्द्रियं मुक्त्वाव्यान्यष्टौ द्रव्याणि
धर्मधात्वेकदेशः । चक्षुराटयः पञ्च स्वनामोक्ता इति । पञ्च चक्षुरादयो धातव.
पञ्चेन्द्रियाणि । चक्षुरिन्द्रियं यावत् कायेन्द्रियम् । स्त्रीपुरुषेन्द्रिये च कायेन्द्रियैकदेश
एवेति पञ्च चक्षुरादिधातव. सप्तेन्द्रियाणि भवन्ति । सप्त चित्तधातवो मन-
इन्द्रियमिति । एवं द्वादशाध्यात्मिका धातवोऽष्टाविन्द्रियाणि भवन्तीति ।
द्वादशाध्यात्मिका धातव एव धर्मार्ध एव चेन्द्रियमित्युतवधारणात् । पञ्च धातवो
रूपादयः । तदन्यधर्मधातुप्रदेशं नेन्द्रियमिति सिद्धम् ॥ ४८ ॥
आचार्ययशोमित्रकृता स्फुटार्थायामभिधर्मकोशव्याख्यायां
धातुनिर्देशो नाम प्रथमं कोशस्थानम्
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ।'
तीत्यस्य शब्दस्य इन्द्रियमित्यादेशः ।->इन्दतीत्यस्यYes:इन्दन्तीतीन्द्रियाणीति । तस्मात् इन्दतीत्यस्य शब्दस्य इन्द्रियमित्यादेशः ।`
Let's check line 20:
कथम् ? अवर्णस्य रभावः, तिशब्दस्य चेयादेशः । तेन नैरुक्तेन विधानेनेन्द्रियम्’
Let's check line 21:
इति भवति । तद् यथा—कुञ्जर इति । वैयाकरणैर्हि कुञ्जोऽस्यास्तीति
Let's check line 22:
कुञ्जर इति मत्वर्थीयेन कुञ्जरशब्दो व्युत्पाद्यते । नैरुक्तैस्तु तदनादृत्य “कुञ्जरः
Let's check line 23:
कुञ्जचारित्वात्” ( ) इति नैरुक्तेन न्यायेन साध्यते । तद्वदिहापि
Let's check line 24:
द्रष्टव्यम् । यदि वैयाकरणनयेन ( पा० ५.२.९३ ) ‘इन्द्रियस्य लिङ्गमिन्द्रिय-
Let's check line 25:
`मिति व्युत्पाद्येत, आधिपत्यार्थ इन्द्रियार्थो हीयेत । आधिपत्यार्थश्चेष
१३६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ इन्द्रिय-
न्धबधिरयोरकान्तरूपत्वात् । आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् ।
चक्षुःश्रोत्रविज्ञानयो संसम्प्रयोगयोरुत्पत्तौ । रूपदर्शनशब्दश्रवणयोश्चासाधा-
रणकारणत्वे ।
घ्राणजिह्वाकायानामात्मभावशोभाया पूर्ववत्, आत्मभावपरिकर्षणे तै
कवलीकाराहारपरिभोगात् । घ्राणादिविज्ञानाना ससम्प्रयोगाणामुत्पत्तौ ।
गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पर्शनानां चासाधारणकारणत्व इति ।
द्वयोः किल ।
चतुर्णां,
स्त्री-पुरुष-जीवित-मनइन्द्रियाणां द्वयोरर्थयोः प्रत्येकमधिपत्यम् । स्त्रीपुरुषे-
न्द्रिययोस्तावत् सत्त्वभेदविकल्पयोः । तत्र सत्त्वभेदः—स्त्री, पुरुष इति ।
सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् ।
दृष्ट्वा श्रुत्वा च
निर्देश १ ] द्वितीयं कोशस्थानम् १३७
संक्लेशव्यवदानयोरित्यपरे । तथा हि—तद्वियुक्तविकलान१ षण्ढपण्डको-
भयव्यञ्जनानामसंवरानन्तर्यकुशलमूलसमुच्छेदा न भवन्ति, संवरफलप्राप्ति-
वैराग्याणि चेति ।
संक्लेशव्यवदानयोरित्यपर इति पूर्वाचार्यः, न सत्त्वभेदविकल्पयो., अन्तरेणापि
पुरुषेन्द्रियं रूपावचराणां विकल्पसिद्धे । विकल्पकृतश्च सत्त्वभेद इत्यभिप्राय ।
तद्वियुक्तविकलानामिति । वियुक्ताश्च ते विकलाश्च वियुक्तविकला, ताभ्या
स्त्रीपुरुषेन्द्रियाभ्यां वियुक्तविकला. तद्वियुक्तविकला । के ? षण्ढपण्डकोभय-
व्यञ्जना २ । तद्वियुक्ता षण्ढपण्डका., तेषा स्त्रीपुरुषेन्द्रियाभावात् । षण्ढ-
पण्डकाना गुण क.विशेष. ? षण्ढका स्वभावतो नि.स्त्रीपुरुषेन्द्रिया., पण्डका
उपक्रमेणोपहतेन्द्रियाः । विनये तु पण्डका एव पञ्च पठ्यन्ते—१ प्रकृति-
पण्डक , २ ईर्ष्यापण्डक , ३ पक्षपण्डक., ४ आसेकपण्डक , ५ लूनपण्डक-
श्चेति । तत्र प्रकृतिपण्डक षण्ढ इहाभिप्रेतः । यस्य हि प्रकृत्या व्यञ्जनं नास्ति
स प्रकृतिपण्डक । शेषा इह पण्डका इष्यन्ते । लूनपण्डवो हि तावदिन्द्रिय-
च्छेदादिन्द्रियविकल इति स्फुट एष. । पक्षपण्डकादयस्त्विन्द्रियाकर्मण्यत्वेन
तद्विकला एव । इन्द्रियकर्मण्यत्वकालेऽपि तद्विकला इति व्यवस्थाप्यन्त एव,
तदिन्द्रियकर्मण्यत्वस्य पुरुषसुखविशेषाजनकत्वात्, प्रसवाजनकत्वाच्च । इन्द्रिय-
सद्भावाशङ्कानिवृत्त्यर्थमेव चेह षण्ढपण्डका इति पृथक् पाठ, अन्यथा हि
विनयवदिहाप्यभिधर्मे 'पण्डका' इत्येव पठ्येरन् । उभयव्यञ्जनास्तद्विकला ,
स्थानभ्रंशवैकल्याद्, अल्पसुखहेतुत्ववैकल्याच्च ।
अपरे व्याचक्षते—'तद्वियुक्ता षण्ढा , तद्विकला पण्डका., उपक्रम-
वैकल्यात् । उभयव्यञ्जनाश्च तद्विकला , स्थानभ्रंशवैकल्याद्, अल्पसुखहेतुत्व-
वैकल्याच्च' इति ।
तेषामसंवरादीनि न भवन्ति, "नृणामसंवरो हित्वा षण्ढपण्डद्विधाकृतीन् '
( अभि० ४४४ ) । आनन्तर्यं षण्ढादीना तु नेष्यते, "अल्पोपकारालज्जित्वात्"
अभि. ४.९८), "छिनत्ति स्त्रीपुमान् दृष्टिचरित" ( अभि० ४८१ ) इति
वचनात् । स्त्रीपुरुषाणा तु तानि भवन्ति । अत संक्लेशे आधिपत्यं स्त्रीपुरुषे-
न्द्रिययो । संवरफलप्राप्तिवैराग्याणि चेति । संवरस्त्रिविध.—प्रातिमोक्षसंवर ,
ध्यानसंवर , अनास्रवसंवरश्चेति । तेषामेकोऽपि संवरो न भवति, किमङ्ग सर्व.,
"संवरोऽशेषम्' (४ ४४, इति वचनात् । अत एव च स्रोतआपत्त्यादिफल-
१ तद्विप्रयुक्तविकल्पाना—का० । २. ०षण्ठ०—इति मुद्रित पाठ सर्वत्र ।
३. इत्येव—मुद्रित पाठ ।
१३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
जीवितेन्द्रियस्य निकायसभागसम्बन्धसाधारणयोः ।
मनइन्द्रियस्य पुनर्भवसम्बन्धवशिभावानुवर्त्तनयोः ।
तत्र पुनर्भवसम्बन्धे यथोक्तम्- “गन्धर्वस्य तस्मिन् समये द्वयोश्चित्त-
योरन्यतरान्यतरचित्तं सम्मुखीभूतं भवति— अनुनयसहगतं वा, प्रतिघसहगतं वा”
( ) इति ।
वशिभावानुवर्त्तने यथोक्तम्— “चित्तेनायं लोको नीयते” ( )
इति विस्तरः ।
यत् पुनः सुखादीन्द्रियपञ्चकम्, यानि चाष्टौ श्रद्धादीनि, तेषां
पञ्चकाष्टानां संक्लेशव्यवदानयोः । ९ ।।
आधिपत्यं यथाक्रमं पञ्चाना सुखादीना संक्लेशे; रागादीनां तऽनुशा-
यित्वात् । श्रद्धादीना व्यवदाने । तैर्हि१ व्यवदायते' । व्यवदानेऽपि सुखा-
प्राप्तिः । कामादिवैराग्यं च तेषा न सम्भवति । स्त्रीपुरुषाणा तु भवतीति,
अतो व्यवदानेऽपि स्त्रीपुरुषेन्द्रिययोराधिपत्यमिति ।
निकायसभागसम्बन्धसन्धारणयोरिति । जीवितेन्द्रियस्य निकायसभागोत्पत्तौ
निकायसभागसम्बन्धे तस्याधिपत्यं व्यवस्थाप्यते, ' निकायसभागसन्धारणे
चाधिपत्यम्, जीवितेन्द्रियवशेन तदूर्ध्वमवस्थानात् । मनइन्द्रियस्य पुनर्भवसम्बन्ध
इति । क्लिष्टेन पुनर्भवसम्बन्धात् । जीवितेन्द्रियादस्य को विशेष ? जीविते-
न्द्रियस्य अन्तराभव एव सम्बन्धनम्, मन इन्द्रियस्य तूपपत्तिभवेऽपि ।
समानकालं च जीवितेन्द्रियं निकायसभागेन तत्सम्बन्धनं करोति, मनइन्द्रियं
तु भिन्नकालमपि पुनर्भवे तत्सम्बन्धनं करोति । वशिभावानुवर्तन इति । चित्तस्य
वशिभावमनुवर्तते लोको धर्मो वा । यथोक्तम्—'चित्तेनायं लोको नीयते' इति
विस्तरः । गाथायामप्युक्तम्—
“चित्तेन नीयते लोकः, चित्तेन परिकृष्यते । –
एकधर्मस्य चित्तस्य सर्वधर्मा वशानुगाः ॥”
( सं० नि० १.२.७ ) इति ।
रागादीनां तदनुशायित्वादिति । तेषु सुखादिषु अनुशयितुं शीलमेषाम्—
आलम्बनतः, सम्प्रयोगतो वा । त इमे तदनुशायिनो रागादयः, तद्भावस्तदनु-
शायित्वम्, तस्मादिति । यथोक्तम्—"सुखाया वेदनाया रागोऽनुशेते, दुःखाया
१-१. तैर्व्यवदायत—का० ।
निर्देश ] द्वितीयं कोशस्थानम् १३०
दीनामाधिपत्यमित्यपरे । "यस्मात् सुखितस्य चित्तं समाधीयते" (
) इत्युक्तं सूत्रे १ ।
दुःखोपनिपच्छ्रद्धाषण्णैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः ।
अपरे पुनराहुः—नैवम्; चक्षुःश्रोत्राभ्यामात्मभावपरिकर्षणं विज्ञाय विषम-
परिहारात् । विज्ञाने तु तयोराधिपत्यम् । नापि विज्ञानादन्यरूपदर्शनं शब्दश्रवणं
वाऽस्ति; यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत । तस्मान्नैवमेषा-
मिन्द्रियत्वम् ॥ १ ॥
द्वेष, अदुःखासुखाया मोहः" ( ) इति । तैर्हि व्यवदायत
इति । तैर्विशुध्यतीत्यर्थः । तदेवं क्लेशविशुद्धावस्था श्रद्धादीनामाधिपत्यमुक्तं
भवति । व्यवदानेऽपि सुखादीनामाधिपत्यमित्यपरे इति । न केवलं संक्लेश सुखा-
दीनामाधिपत्यम्, किं तर्हि ? व्यवदानेऽपि—इति अपिशब्दस्यार्थः । आभिधार्मिकाः
केचिदेवमाहुः । "व्यवदानेऽपि तेषामाधिपत्यमस्ति" ( ) इत्या-
गममानयन्ति । यस्मात् 'सुखितस्य चित्तं समाधीयते' इत्युक्तं सूत्रे । दुःखोपनिप-
च्छ्रद्धा । दुःखमुपनिषदस्याः । सेयं श्रद्धा दुःखोपनिषद्, दुःखहेतुकेत्यर्थः । दुःखे
सति कस्यचिद् धर्मे रत्नत्रये वा श्रद्धा जायते, प्रव्रज्या वाभिलषति । षण्णैष्क-
म्याश्रिताः सौमनस्यादय इति । षण्णैष्क्रम्याश्रितानि सौमनस्यानि, षण्णैष्क्रम्या-
श्रितानि दौर्मनस्यानि, षण्णैष्क्रम्याश्रिता उपेक्षा । नैष्क्रम्यम्—सास्रवः, अना-
स्रवो मार्गः । धातोः संसाराद् वा निष्क्रमणं वैराग्यमित्यपरे । यथोक्तं
सूत्रे—"चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते सौमनस्यं नैष्क्रम्याश्रितम्"
( ) । नैष्क्रम्यालम्बनमित्यर्थः । नैष्क्रम्यानुकूलमिति वा । एवं
"यावन्मनः प्रतीत्य धर्मांश्चोत्पद्यते सौमनस्यं नैष्क्रम्याश्रितम्" ( )
इति । तथा "चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते दौर्मनस्यं नैष्क्रम्याश्रितम्" ।
एवं यावन्मनः । तथा "चक्षुर्विज्ञेयानि रूपाणि प्रतीत्योत्पद्यते उपेक्षा नैष्क्रम्या-
श्रिता ।" एवं यावन्मनः । 'नैष्क्रम्यं प्राप्स्यामि' इति कस्यचित् सौमनस्यम्, 'न
नैष्क्रम्याय मया यत्न क्रियते' इति कस्यचिद् दौर्मनस्यम् । कस्यचित् प्रति-
संख्यायोपेक्षा तेषु रूपादिषु भवति ।
अपरे पुनराहुरिति सौत्रान्तिकाः । विज्ञाय विषमपरिहारादिति । विज्ञानेन
विषमपरिहारः क्रियते, न चक्षुःश्रोत्रेणेत्यभिप्रायः । नापि विज्ञानादन्यद् रूप-
दर्शनं शब्दश्रवणं वास्तीति । न रूपदर्शनं ग्रहणव्यतिरिक्तं विचार्यमाणं लभ्यते ।
१-१. का० पुस्तके नास्ति ।
१४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
कथं तर्हि १
स्वार्थोपलब्ध्याधिपत्यात् सर्वस्य च षडिन्द्रियम् ।
चक्षुरादीनां पञ्चानां स्वस्य स्वस्यार्थस्योपलब्धावाधिपत्यम्। मनसः पुन
सर्वार्थोपलब्धावाधिपत्यम् । अत एतानि षट् प्रत्येकमिन्द्रियम् । ननु चार्थाना-
मप्यत्राधिपत्यम् २ नाधिपत्यम् । अधिकं हि प्रभुत्वम् = आधिपत्यम् । चक्षुषश्चक्षू-
रूपोपलब्धावधिकमैश्वर्यम्, सर्वरूपोपलब्धौ सामान्यकारणत्वात् तत्पटुमन्दता-
द्यनुविधानाच्चोपलब्धेः । न रूपस्य; तद्विपर्ययात् । एवं यावत् मनसो
धर्मेषु योज्यम् ।
स्त्रीत्वपुंस्त्वाधिपत्यात् कायात् स्त्रीपुरुषेन्द्रिये ॥ २ ॥
कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक् व्यवस्थाप्येते; नार्थान्तरभूते ।
कश्चिदसौ कायेन्द्रियभाग उपस्थप्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां प्रतिलभते;
ग्रहणं च विज्ञानमेवेति नान्यद् भवति । तस्माच्चक्षु श्रोत्रविज्ञानयो. ससम्प्र-
योगयोरुत्पत्तौ यदाधिपत्यमुक्तं तदेव तद् भवति, नान्यत्राधिपत्यमेतदित्यभि-
प्रायः ॥ १ ॥
मनसः पुनः सर्वार्थोपलब्धाविति । 'स्वार्थोपलब्ध्याधिपत्यात्' इत्येव सिद्धे
'मनसः सर्वार्थोपलब्धौ' इति वचनं धर्मधातोस्सर्वधर्मस्वभावत्वात् । व्याख्यातं
चैतत् पुरस्तात् । ननु चार्थानमप्यत्राधिपत्यमिति । "द्वयं प्रतीत्य विज्ञानस्यो-
त्पत्तिः" ( ) इति वचनात् । अधिकं हि प्रभुत्वमाधिपत्यमिति ।
अधिकं प्रभु.=अधिपतिः, तद्भाव आधिपत्यमिति। सर्वरूपोपलब्धौ सामान्य-
कारणत्वादिति । नीलपीतादिसर्वरूपोपलब्धौ एकरूपस्य चक्षुष कारणत्वात् ।
न तु रूपस्यैकरूपस्य नीलपीतादिसर्वरूपोपलब्धौ कारणत्वम् । न हि नीलरूपं
पीतरूपोपलब्धौ कारणं भवति । तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेरिति ।
यस्मादुपलब्धिश्चक्षुरादिपटुमन्दतामनुविधत्ते । तद्यथा-पटुनि चक्षुषि पट्वी
तदुपलब्धि., मन्दे मन्देति । आदिशब्देन अकुशल-कुशल-संवेदना-वेदनानुविधा-
नम् । अकुशले मनसि अकुशलोपलब्धि , कुश` कुशला, सवेदने सवेदना,
अवदेने चावेदनेति । न रूपस्य पटुमन्दताद्यनुविधत्ते उपलब्धिः । तेनाह-
तद्विपर्ययादिति । तस्माच्चक्षुरादीनामधिकमैश्वर्यम्, न रूपादीनाम् ।
"कायात् स्त्रीपुरुषेन्द्रिये" इति । अत्र साधनम्-'कायेन्द्रियस्वभावं स्त्री-
पुरुषेन्द्रियम्, स्प्रष्टव्यविज्ञानजनकत्वात्, अस्त्रीपुरुषेन्द्रियस्वभावकायेन्द्रियवत्,
निर्देशः ] द्वितीयं कोशस्थानम् १४१
यथाक्रमं स्त्रीत्वपुंस्त्वयोराधिपत्यात् । तत्र स्त्रीभावः—स्त्र्याकृतिस्वरचेष्टा-
भिप्रायाः१, एतद्धि स्त्रियाः स्त्रीत्वम् । पुंभावः—पुरुषाकृति. स्वरचेष्टा अभिप्रायाः,
एतद्धि पुंसः पुंस्त्वम् ।
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः ।
जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ ३ ॥
निकायभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् ।
तथा हि—"सुखायां वेदनायां रागोऽनुशेते, दुःखायां प्रतिघः, अदुःखादुःखा-
यामविद्या" ( ) इत्युक्तं सूत्रे । व्यवदाने श्रद्धादीनां
पञ्चानाम् । तथा हि तैः क्लेशाश्च विष्कम्भ्यन्ते२, मार्गश्चावाह्यते , अत एतेऽपि
प्रत्येकमिन्द्रियमिष्टाः ।
आज्ञास्याम्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा ।
उत्तरोत्तरसम्प्राप्तिनिर्वाणाद्याधिपत्यतः ॥ ४ ॥
प्रत्येकमिन्द्रियमित्युपदर्शनार्थं तथाशब्दः । तत्राज्ञास्यामीन्द्रियस्याज्ञे-
न्द्रियस्य प्राप्तावाधिपत्यम् । आज्ञेन्द्रियस्याज्ञातावेन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य
परिनिर्वाणे । न ह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति ।
वैधर्म्येण चक्षुरिन्द्रियवत् । स्त्र्याकृतिस्वरचेष्टाभिप्रायाः इति । स्त्र्यभिप्रायः पुरुषा-
भिप्रायो विपर्ययेण । तदेवं सति सत्त्वविकल्प एव स्त्रीपुरुषेन्द्रिययोराधि-
पत्यम् ॥ २ ॥
निकायभागस्थितौ जीवितेन्द्रियस्याधिपत्यम् । नतु वैभाषिकवत् ।। निकाय-
भागसम्बन्धे तत्र मनस एवाधिपत्यात् । संक्लेशं वेदनानामिति। अत्र वैभाषिकैः
सार्धमैकमत्यम् । तथा हि तैरिति । तथा हि—तैः श्रद्धादिभि क्लेशाश्च विष्क-
म्भ्यन्ते लौकिकमार्गगतैर्मार्गश्चावाह्यते निर्वेधभागीयादिगतेः। तदेवं व्यवदान-
सम्भारे श्रद्धादीनां प्रत्येकमाधिपत्यमुक्तं भवति ॥ ३ ॥
न ह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति । आज्ञातावीन्द्रियं क्षयज्ञानाद्यना-
स्रवमिन्द्रियम् । तदेव च विमुक्तं क्लेशविमुक्त्या, सन्तानविमुक्त्या च । तत्प्राप्तस्य
निरुपधिशेषनिर्वाणं भवति । तस्मादाज्ञातावीन्द्रियस्य निरुपधिशेषनिर्वाण
आधिपत्यं व्यवस्थाप्यते ।
१. स्त्र्याकृति स्वरचेष्टा अभिप्राया.—का० । २. विष्कभ्यन्ते—का० ।
१४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-५ ।
आदिशब्दोऽन्यपर्यायद्योतनार्थः। कतमोऽन्यः पर्यायः? दर्शनहेयक्लेश-
परिहाणं प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम्। भावनाहेयक्लेशप्रहाणं मत्याज्ञेन्द्रियस्य।
दृष्टधर्मसुखविहार प्रत्याज्ञातावीन्द्रियस्य, विमुक्तिप्रीतिसुखप्रतिसंवेदनादिति¹ ॥
आधिपत्यादिन्द्रियत्वेऽविद्यादीनामुपसंख्यानं कर्तव्यम्? अविद्यादीनामपि हि
संस्कारादिष्वाधिपत्यम्, अत एषामपीन्द्रियत्वमुपसंख्यातव्यम्, वागादीनां च,
वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम्; वचनादानविहरणोत्सर्गा-
नन्देष्वाधिपत्यात्? न खलूपसंख्यातव्यम्; यस्मादिहेष्टम्—
चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च।
संभारो व्यवदानं च यावता, तावदिन्द्रियम् ॥ ५ ॥
तत्र चित्ताश्रयः षडिन्द्रियाणि। एतच्च षडायतनं मौलं सत्त्वद्रव्यम्।
तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रियाभ्यां स्थितिर्जीवितेन्द्रियेण, संक्लेशो
दृष्टधर्मसुखविहारं प्रतीति विस्तरः। दृष्टो धर्मः दृष्टधर्म दृष्टजन्मेत्यर्थः,
सुखो विहारः सुखविहारः; दृष्टधर्म सुखविहार दृष्टधर्मसुखविहारः। त प्रत्या-
ज्ञातावीन्द्रियस्याधिपत्य विमुक्तप्रीतिसुखप्रतिसंवेदनादिति। विमुक्तिः = क्लेश-
प्रहाणम्, प्रीति =सौमनस्यम्, सुखम्=प्रस्रब्धिसुखम्। विमुक्त्या प्रीतिसुखस्य
प्रतिसंवेदनं विमुक्तिप्रीतिसुखप्रतिसंवेदनम्, तस्मादिति; तदुक्तं भवति—
विमुक्तिप्रीतिसुखप्रतिसंवेदनमेव दृष्टधर्मसुखविहार इति ॥ ४ ॥
वाक्पाणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यमिति। साङ्ख्याः चक्षु-
रिन्द्रियादिव्यतिरिक्तानि वागिन्द्रियादीनि कल्पयन्ति - वागिन्द्रियं येन वचनं
क्रियते, पाणीन्द्रियं येन किञ्चिद् द्रव्यमादीयते, पादेन्द्रियं येन विहरणं क्रियते,
चंक्रमणमित्यर्थः, पाय्विन्द्रियं येन पुरीषोत्सर्गं क्रियते, उपस्थेन्द्रियं कायेन्द्रियैक-
देशव्यतिरिक्तं येनानन्दः सुखविशेषः प्राप्यते। न खलूपसंख्यातव्यमविद्यादीना-
मिन्द्रियत्वम्, येनार्थेन भगवता द्वाविंशतिरिन्द्रियाण्युक्तानि, तत्राविद्यादीना-
मयोगात्।
कोऽसावर्थ इत्याह—“चित्ताश्रयस्तद्विकल्पः” इति। विस्तरः—
चित्तस्याश्रयः, तदाश्रयस्य विकल्पः स्थिति संक्लेशः व्यवदानसम्भारो व्यव-
दानं चेति। एतच्च षडायतनं मौलं सत्त्वद्रव्यमिति। तदितरेषां तदाश्रितत्वात्।
तथा हि—षाडेन्द्रियाधिपत्यसम्भूतमिन्द्रियाधिष्ठानम्, षड् वा विषया विज्ञान-
१. ॰सुखसंवेदनादिति—का०।
निर्देश ] द्वितीयं कोशस्थानम् १४१
वेदनाभिः । व्यवदानसम्भरणं पञ्चभिः, व्यवदानं त्रिभिः । अतो नाविद्यादीना-
मिन्द्रियत्वमिष्टम् ।
प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः ।
चतुर्दश तथान्यानि निवृत्तेरिन्द्रियाणि वा ॥ ६ ॥
मतविकल्पार्थो वाशब्दः । अपरे पुनराहुः—प्रवृत्तेराश्रयः षडिन्द्रियाणि ।
उत्पत्तिः स्त्रीपुरुषेन्द्रिये; तत उत्पत्तेः । स्थितिर्जीवितेन्द्रियम्; तेनावस्थानात् ।
उपभोगो वेदनादिभिः । अत एतानि चतुर्दशेन्द्रियाणि । तेनैव प्रकारेण
निवृत्तेरन्यानि । श्रद्धादयो¹ हि निवृत्तेराश्रया । आज्ञास्यामीन्द्रियं प्रभवः,
स्थितिराज्ञेन्द्रियम्, उपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि । अत
एव चैषामेषोऽनुक्रम ।
कायाश्च—तदेतदपि सत्त्वद्रव्यमिष्यते, न तु मौलम् । न ह्यधिष्ठानाद्याधिपत्य-
सम्भूतं षडायतनमिति । व्यवदानसम्भरणं पञ्चभिरिति । श्रद्धादिभिः । व्यवदानं
त्रिभिरिति । अनाज्ञातमाज्ञास्यामीन्द्रियादिभि ॥ ५ ॥
अपर कल्प —"प्रवृत्तेराश्रयोत्पत्ति०" इति । विस्तर.—प्रवृत्तिपक्षं निवृत्ति-
पक्षं चाधिकृत्योच्यते । प्रवृत्ते = संसारस्याश्रयः, उत्पत्तिः, स्थितिः, उपभोगश्च ।
निवृत्तेरपि निर्वाणस्याश्रयः, उत्पत्तिः, स्थितिः, उपभोगश्च । एतावता च पुरुषार्थ-
परिसमाप्तिरिति । निरर्थिका तदन्येन्द्रियप्रज्ञप्तिः, भवतामपि पुरुषार्थपरिसमाप्ति
पठ्यते, तस्य शब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्त इति ? तत्र षडा-
यतनं मूलसत्त्वद्रव्यभूतं ससरतीति प्रवृत्तेराश्रयः । उत्पत्तिः स्त्रीपुरुषेन्द्रिय इति ।
उत्पद्यतेऽस्या इत्युत्पत्ति । कस्माद् ? इत्याह—तत उत्पत्ते । कस्य ? षडायत-
नस्य । मन कायेन्द्रिययोः साक्षात् ताभ्यामुत्पत्तेश्चक्षुरादीनां चतुर्णां क्रमेणोत्पत्तेः ।
स्थितिर्जीवितेन्द्रियेण षडायतनावस्थानात् । उपभोगो वेदनादिभिः । सुखादिभिः ।
श्रद्धादयो हि निवृत्तेराश्रया इति । श्रद्धादीनां प्रतिष्ठाभूतत्वात् । आज्ञास्यामीन्द्रियं
प्रभव इति । आदिभवः, प्रथमतोजनास्रवोत्पत्तेः । स्थितिराज्ञेन्द्रियम्, प्राबन्धिक-
त्वात् । उपभोग आज्ञातावीन्द्रियेणेति, तेन विमुक्तिप्रीतिसुखप्रतिसंवेदनात् । अत
एतावन्त्येवेन्द्रियाणीति । नाविद्यादीनामिन्द्रियत्वमिष्टमित्यर्थः । अत एव चैषा-
मेषोऽनुक्रम इति । चक्षुरिन्द्रियं यावदाज्ञातावीन्द्रियमिति प्रवृत्तिनिवृत्त्योराश्र-
यादिभावात् ।
१ श्रद्धादीनि—का० ।
१४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
वाचस्तु नेन्द्रियत्वम्; वचने शिक्षाविशेषापेक्षत्वात्। पाणिपादस्य चादान-
विहरणादनन्यत्वात्। तदेव हि तदन्यथा अन्यत्र चोत्पन्नमादानं विहरणं
चोच्यते; विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीनाम्।
पायोरपि नेन्द्रियत्वम्; उत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात्। वायुना
च तत्प्रेरणात्।
उपस्थस्यापि नेन्द्रियत्वम्; आनन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत् सौख्यमिति।
कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनवि-
काशक्रियास्विन्द्रियत्वं प्रसज्येत, सर्वस्य वा कारणभूतस्य स्वस्यां क्रियायाम्।
इत्युक्तं वागादीनामिन्द्रियत्वम्॥ ६॥
वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात्। जातमात्रो हि बालको
विनैव शिक्षया चक्षुषा रूपाणि पश्यति, न त्वेवं वचनं करोति। तस्मादि-
न्द्रियधर्मातिक्रान्तत्वान्न वाक् इन्द्रियं भवितुमर्हति। जिह्वेन्द्रियाधिष्ठानस्यैव
त्वेतत् कर्मवचनमिति। पाणिपादस्य चादानविहरणादनन्यत्वादिति। पाणिरेव
हि अन्यथान्यत्र चोत्पन्न आदानमुच्यते। पाद एव चान्यथान्यत्र चोत्पन्नो विहरण-
मिति, कर्माभावात्। स्वात्मनि च वृत्तिविरोधात् न पाणिपादस्येन्द्रियत्वम्।
उरगप्रभृतीनामिति। सर्पादीना पाणिपादं नास्ति, अथ च तेषामादानविहरणं
भवति। (इति) न पाणिपादस्येन्द्रियत्वम्। तेषामप्यस्ति सूक्ष्ममिति चेत्?
न, साध्यत्वात्।
पायोरपि नेन्द्रियत्वमुत्सर्गे इति। अशुच्युत्सर्गे। गुरुद्रव्यस्य यस्य कस्यचिद्
आकाशे छिद्रे सर्वत्र पात्यमानादन्यथापि पतनात्। गुरुद्रव्यस्य गुरुत्वादेव स्वयं
पतनम्, नेन्द्रियकम्। वायुना च तत्प्रेरणादिति। वायुना तस्य गुरोरशुचिद्रव्यस्य
प्रेरणा। वायोरेव तत्त् कर्म स्यात्, न पाय्विन्द्रियस्य, तदनुपलब्धे।
उपस्थस्यापि नेन्द्रियत्वमानन्द इति। कायेन्द्रियैकदेशस्त्रीपुरुषेन्द्रियव्यतिरिक्त-
कल्पितस्य उपस्थस्य नेन्द्रियत्वमानन्दे। कायेन्द्रियैकदेशभूतस्त्रीपुरुषेन्द्रियकृतं
हि तत् क्लिष्टं सौख्यमिति वाक्यार्थः।
कण्ठदन्ताक्षिवर्त्माङ्गुलिपर्वणामपीति। विस्तर.—यद्यथोक्तात् कारणादे-
तावन्त्येवेन्द्रियाणीति नेष्यते, कण्ठस्याभ्यवहरणे, दन्तस्य चर्वणे, अक्षिवर्त्मन
उन्मेषनिमेषे, पर्वणोऽस्थिसन्धिसङ्कोचविकाशक्रियायामिन्द्रियत्वं प्रसज्येत।
सर्वस्य वा कारणभूतस्येति। विस्तर—सर्वस्य वा कारणभूतस्य बीजादे
स्वस्यां क्रियायां स्वकार्यक्रियायामङ्कुरादिलक्षणायामिन्द्रियत्वं प्रसज्येतेत्यधि-
[नि ] द्वितीयं कोशस्थानम् १४५
तत्र चक्षुरादीना पुरुषेन्द्रियपर्यन्ताना कृतो निर्देशः । जीवितेन्द्रियस्य
विप्रयुक्तत्वाद् विप्रयुक्तेष्वेव ( अ० को० २.४५ ) करिष्यते निर्देशः । श्रद्धा-
दीना चैत्तेषु ( अ० को० २ २४ ) करिष्यते । सुखादीनामाज्ञास्यामीन्द्रिया-
दीना च कर्तव्यः । सोऽयं क्रियते--
दुःखेन्द्रियमसाता या कायिकी वेदना
असातेत्युपघातिका, दुःखेत्यर्थः ।
क्तम् । यदि यस्य यत्र पुरुषकारोऽस्ति, तस्य तत्रेन्द्रियत्वमिष्यते, स च नियमहेतु
पूर्वोक्तो नेष्यते । तस्मादयुक्तं वागादीनामिन्द्रियत्वम् ॥ ६ ॥
तत्र चक्षुरादीनामिति । विस्तर--तत्रेति वाक्योपन्यासे । कृतो निर्देश
इति । "तद्विज्ञानाश्रया रूपप्रसादश्चक्षुरादय" ( अभि० को० १९ ), "कायात्
स्त्रीपुरुषेन्द्रिये" ( अभि० को० २२ ), "विज्ञानं प्रतिविज्ञप्तिः" ( अभि०
को० १ १६ ) इति । जीवितेन्द्रियस्येति । "आयुर्जीवितमाधार ऊष्मविज्ञान-
योर्हि य" ( अभि० को० २ ४५ ) इत्यत्र । श्रद्धादीना चैत्तेष्विति । "श्रद्धा-
प्रमाद प्रश्रब्धि" ( अभि० को० २ २५ ) इत्यत्र प्रदेशे । ननु च वेदनाया
अपि कृतो निर्देशः, चैत्तेष्वपि करिष्यते--"वेदनाऽनुभव" ( अभि०को० १ १४ )
इति, "वेदना चेतना संज्ञा" ( अभि० को० २ २४ ) इति वचनात् ? सत्यम्,
सामान्यं रूपं वेदनाया उक्तम्, वक्ष्यते च, विशेषविभागरूपं त्विह विवक्षितमिति
'सुखादीना कर्तव्यो निर्देशः' इत्याह । आज्ञास्यामीन्द्रियादीना तर्हि न कर्तव्यः,
यस्मान्मनसो लक्षणमुक्तम्, श्रद्धादीना चैत्तेषु करिष्यते, सुखसौमनस्यो-
पेक्षाणामिह क्रियते ? एषामपि कर्तव्य एव, यस्मान्नवद्रव्यस्वभावत्वमेषा
दर्शयितव्यम् । एतस्या चावस्थायामेतानि नव द्रव्याण्यनाज्ञातमाज्ञास्यामी-
न्द्रियाख्या लभन्ते, एतस्यामवस्थायामाज्ञेन्द्रियाख्याम्, एतस्यामाज्ञातावीन्द्रि-
याख्या लभन्ते--इति स एषामवस्थाविशेषो दर्शयितव्य इत्यतः सूक्तमेतत्--
सुखादीनामाज्ञास्यामीन्द्रियादीना च कर्तव्य इति ।
"असाता या कायिकी वेदना" इति । 'असाता' इति सातानिवृत्त्यर्थम् ।
'कायिकी' इति मानसीनिवृत्त्यर्थम् । तत्र काया चक्षुरादय पञ्च, परमाणुस-
ञ्चयात्मकत्वात् । तत्र काये भवा, कायेन वा आश्रयेण सह चरतीति
कायिकी । या उपघातिका पञ्चेन्द्रियाश्रया वेदना, तद् "दुःखेन्द्रियम्"
इत्यवगन्तव्यम् ।
अभि० को० १०
१४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
सुखम् ।
साता
सुखेन्द्रियं कायिकी साता वेदना । शातेत्यनुग्राहिका, सुखेत्यर्थः ।
ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ ७ ॥
तृतीये तु ध्याने सैव साता वेदना चैतसी सुखेन्द्रियम् । नहि तत्र
कायिकी वेदनास्ति, पञ्चविज्ञानकायाभावात् ॥ ७ ॥
अन्यत्र सा सौमनस्य
तृतीयाद् ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैतसिकी
साता वेदना सौमनस्येन्द्रियम् । तृतीये तु ध्याने प्रीतिवीतरागत्वात् सुखेन्द्रिय-
मेव सा, न सौमनस्येन्द्रियम् । प्रीतिर्हि सौमनस्यम् ।
असाता चैतसी पुनः ।
दौर्मनस्यम्, उपेक्षा तु मध्या
“सुखम् साता” इति । अत्र ‘इन्द्रियम्’ इत्यनुवर्तते, ‘कायिकी’ इति च ।
‘साता’ इति ग्रहणमसातानिवृत्त्यर्थम् । तदेतदुक्तं भवति—तत् सुखेन्द्रियम्, या
अनुग्राहिका पञ्चेन्द्रियाश्रया वेदनेति ।
“ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम्” इति । तृतीये तु ध्याने चैतस्यपि
साता वेदना सुखेन्द्रियमिति व्यवस्थाप्यते । कस्मात् चेतस्येव साता तत्र
गृह्यते, न कायिकी ? इत्यत आह—न हि तत्र कायिकी वेदनास्ति; पञ्चविज्ञान-
कायाभावाद् इति ॥ ७ ॥
तृतीये ध्याने कस्मात् सा न सौमनस्येन्द्रियम् ? अत आह—तृतीये तु
ध्याने प्रीतिविरागात् सुखेन्द्रियमेव सा, न सौमनस्येन्द्रियम् । सातत्वाद्धि
सुखमुच्यते, न प्रीति, शमप्रहर्षाकारत्वात् । तथा हि सूत्रे उक्तम्—“प्रीतेर्वि-
रागादुपेक्षको विहरति” इति विस्तरेण यावत् “स्मृतिमान् सुखविहारी तृतीयं
ध्यानमुपसम्पद्य विहरति” ( ) इति । सौमनस्यादन्या
प्रीतिरिति चेद् ? अत आह—प्रीतिर्हि सौमनस्यमिति ।
“असाता चैतसी पुनः दौर्मनस्यम्” इति । उपघातिका चैतसिकी
वेदना दौर्मनस्यम् ।
“उपेक्षा तु मध्या” इति । उपेक्षेन्द्रियं तु या मध्या वेदना (सा) नैव
साता नासातेत्यर्थ ।
निर्देशः ] द्वितीयं कोशस्थानम् १४७
नैवसातानासाता अदुःखसुखा वेदना मध्येत्युच्यते। सोपेक्षेन्द्रियम्।
किं कायिकी चैतसिकी ? इत्याह—
उभयी
किं पुनः कारणम्—इयमभिसमस्यैकमिन्द्रियं क्रियते ?
अविकल्पनात् ॥ ८ ॥
चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते, न तु कायिकम्; विषय-
वशादर्हतामप्युत्पत्तेः । अतस्तयोरिन्द्रियत्वेन भेदः । उपेक्षा तु स्वरसेनेवाविकल्प-
यत¹ एवोत्पद्यते कायिकी चैतसिकी ² चेत्येकमिन्द्रियं क्रियते। अन्यथा च कायिकं
सुखमनुगृह्णाति, अन्यथा चैतसिकम्। एवं दुःखमन्यथा कायिकमुपहन्त्यन्यथा
चैतसिकम्। उपेक्षायां नैष³ विकल्पोऽस्ति, अत उपेक्षणं प्रत्यविकल्पनादभेदः।
दृग्भावनाऽशैक्षपथे नव त्रीणि
'उभयी' इति। उभयावयवावस्या⁴ उभयी। कायिकी, चेतसिकीत्यर्थः ।
“अविकल्पनात्” इति। अभिनिरूपणविकल्पाभावादित्यर्थः । प्रायेनेति ग्रहणं
समाधिजविपाकजप्रीतिसुखपरिवर्जनार्थम् । न तु कायिकमिति । न कायिकं
सुखदुःखं विकल्पनादुत्पद्यते, किं कारणम् ? इत्याह—विषयवशादर्हतामप्यु-
त्पत्तेरिति । प्रहीणप्रियाप्रियविकल्पानामप्यर्हतां विषयवशेनैव कायिकसुखदुःखो-
त्पादात्। अतस्तयोरिन्द्रियत्वेन भेद इति । तयोः कायिकचैतसिकयोः सुखयोः,
दुःखयोश्च इन्द्रियत्वेन भेद = पृथक्त्वम्—सुखेन्द्रियम्, सौमनस्येन्द्रियम्;
दुःखेन्द्रियम्, दौर्मनस्येन्द्रियमिति । उपेक्षा तु स्वरसेनेव अनभिसंस्कारेणा-
विकल्पयत एव अनभिरूपयत एवोत्पद्यते कायिकी चैतसिकी वा विपाकजा
नैष्यन्दिनी वा। तस्माद् एकमिन्द्रियं क्रियते इन्द्रियत्वेनाभेद उपेक्षेन्द्रियमिति ।
अन्यथा च कायिकमिति । विस्तर —अन्येनानुभवरूपविशेषेण कायिकमुपहन्ति,
अन्येन चैतसिकमिति। उपेक्षायां नैष विकल्प इति। एष स्वरूपविशेषलक्षणो
विकल्पो नास्ति। अत उपेक्षणं प्रति उपेक्षाक्रिया प्रति अविकल्पनाद् अस्व-
भावविशेषादभेदः॥ ८ ॥
“दृग्भावनाऽशैक्षपथे” इति। दृग्=दर्शनम् । दृशो भावनाया अशैक्षस्य च
पन्था दृग्भावनाशैक्षपथः, तस्मिन्नेव मार्गत्रये यानि मनःसुखसौमनस्योपेक्षा-
१ स्वरसेना विकल्पयत—का०। २ चेत्ये०—का०। ३. त्वेष—का०।
४ उभयावयवावस्था—इति मुद्रित पाठ।
१४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ इन्द्रिय-
मन सुखसौमनस्योपेक्षा, श्रद्धादीनि च पञ्च—तानि नवेन्द्रियाणि त्रिषु
मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते—दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियम्, भावना-
मार्गे आज्ञेन्द्रियम्, अशैक्षमार्गे आज्ञातावीन्द्रियमिति ।
किं कारणम् ? दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः। भावनामार्गे नास्त्यपूर्व-
माज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम्। अशैक्षमार्गे त्वाज्ञातमित्यवगम
आज्ञाताव., सोऽस्यास्तीति आज्ञातावी। आज्ञातमवितुं शीलमस्येति वा;
क्षयानुत्पादज्ञानलाभात्। "दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यम्" ( )
इति तथाभूतस्येन्द्रियमाज्ञातावीन्द्रियम्॥
स्वभावनिर्देशं कृत्वा प्रकारभेदो वक्तव्यः—कति सास्रवाणि, कत्यना-
स्रवाणि इन्द्रियाणीत्येवमादि। तत्र तावद् यदेतदनन्तरोक्तमाज्ञास्यामीन्द्रियादि-
कम्, एतत्—
श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाख्यानि नव द्रव्याणि, तानि दर्शनमार्गे अनाज्ञात-
माज्ञास्यामीन्द्रियम्, भावनामार्गे आज्ञेन्द्रियम्, अशैक्षमार्गे आज्ञातावीन्द्रियमिति
व्यवस्थाप्यन्ते, अन्योन्यमपेक्षमाणानि तानि नव द्रव्याणि तत्तन्नाम लभन्ते।
"नव" इति च कलापान्तरापेक्षयैवमुक्तम्। न त्वेकस्मिन् चित्तकलापे नव
द्रव्याणि भवन्ति, सुखसौमनस्योपेक्षेन्द्रियाणामेकतरस्यैव भावात्। यदि हि स
मार्गोऽनागम्यध्यानान्तरचतुर्थध्यानाकाशविज्ञानाकिञ्चन्यायतनभूमिक, तत्रो-
पेक्षेन्द्रियमेव, न सुखसौमनस्येन्द्रिये। यदि प्रथमद्वितीयध्यानभूमिक., तत्र
सौमनस्येन्द्रियमेव। यदि तृतीयध्यानभूमिक, तत्र सुखेन्द्रियमेव, नान्यदिति।
अनाज्ञातमाज्ञातुं प्रवृत्त इति। अनाज्ञातं सत्यचतुष्टयम्, आज्ञातुम् = वेदितुम्,
प्रवृत्त.=आज्ञास्यामीति प्रारब्ध । तस्येन्द्रियमनाज्ञातमाज्ञास्यामीन्द्रियम् ।
अलुक्समासः (पा० सू० ६.३ १४)। आख्यातप्रतिरूपकश्चायम् 'आज्ञास्यामि'
इति शब्द । भावनामार्गे नास्त्यपूर्वमाज्ञेयम्, तदेव तु सत्यचतुष्टयमाजानाति ।
शेषानुशयप्रहाणार्थं भावनाहेयक्लेशप्रहाणार्थम् । तस्याज्ञस्य' पुद्गलस्येन्द्रियम्
आज्ञेन्द्रियम्। आज्ञमेवेन्द्रियमिति वा। अशैक्षमार्गे त्वाज्ञातमित्यवगम आज्ञा-
ताव इति । अर्थकथनमात्रमेतत् । शब्दविग्रहस्त्वेवं कर्तव्य —आज्ञातमित्याव
आज्ञाताव.। अवतेर्धञि रूपमेतद्-आव इति। सोऽस्यास्तीति मत्वर्थीय आज्ञा-
तावी। आज्ञातमवितुं शीलमस्येति वेति ताच्छीलिको णिनिः। तथाभूतस्ये-
न्द्रियमिति। तथाभूतस्य पुद्गलस्येन्द्रियम्, आज्ञाताविन इत्यर्थः।१