अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 150, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] प्रथम कोशस्थानम् १३१
अनियतं मनः ॥ ४७ ॥
कदाचित् कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति, कदाचिदूर्ध्वाधो-
भूमिकम् । पञ्चभूमिकेऽपि काये¹ सर्वभूमिकानि मनआदीनि भवन्ति उप-
पत्तिकाले² समापत्तिकाले² यथायोगमिति विस्तरेण समापत्तिनिर्देशे
कोशस्थान एतदाख्यायिष्यते । अतिबहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनरा-
ख्यायते, अल्पं च प्रयोजनम्, महांश्च श्रम इति ॥ ४७ ॥
समाप्त आनुषङ्गिकः प्रसङ्ग ॥
इदमिदानीं विचार्यते—अष्टादशानां धातूनां षण्णां च विज्ञानानां कः केन
विज्ञेय. ? आह—
पञ्च बाह्या द्विविज्ञेयाः,'
रूपशब्दगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैर-
कायस्योभे च सर्वत. । अस्येत्यनन्तरोक्तस्य श्रोत्रविज्ञानस्य शब्दः सर्वतो
विषय.—ऊर्ध्वम्, अध., स्वभूमौ च । कायस्य चोभे शब्दविज्ञाने सर्वतो
भवत इति ।
“अनियतं मनः” इति । यथा चक्षु, श्रोत्रं वा नियमितम्—‘न कायस्या-
धरं चक्षु श्रोत्रं वा’ इत्येवमादिना, नैवं नियमितं मन. । अत एवाह—पञ्च-
भूमिकेऽपि काये सर्वभूमिकानि मनआदीनि भवन्तीति । मनोधर्ममनोविज्ञानानि
सर्वभूमिकानि कामावचराणि यावद्भवाग्रिकाणि । तद्यथा—कामधातूपपन्नो
यदि कामावचरान्मनसोऽनन्तरं कामावचरमेव कामावचरधर्मालम्बनं मनो-
विज्ञानमुत्पादयति, सर्वाणि कामावचराणि । यदि प्रथमध्यानभूमिकाद् याव-
द्भवाग्रभूमिकायुपपत्तिकाले समापत्तिकाले वा सम्भवत, कामावचरं तथैव मनो
विज्ञानमुत्पादयति, मनस्ततस्त्यम्, शेषाणि कामावचराणि । अथ तत्रे
तद्विज्ञानमुत्पादयति धर्मांस्त्वालम्बनं प्रथमध्यानभूमिका यावद्भवाग्रभूमिका,
धर्मास्ततस्त्या. । शेषाणि पूर्ववत् । एवं प्रथमध्यानापपन्नो यावद्भवाग्रोपपन्नो
यथायोगं वक्तव्य. ।
समाप्त आनुषङ्गिकः प्रसङ्ग इति । “चक्षुश्च धर्मधातोरश्च प्रदेशो दृष्टि.” अभि०
को० १.४१ ) इत्येतदाधिकारिकम् । अथ “यत्र काये स्थितश्चक्षुषा रूपाणि
पश्यति” इत्येवमादिरयमानुषङ्गिकः प्रसङ्ग; दर्शनसम्बन्धादागतत्वात् ॥ ४७ ॥
“पञ्च बाह्या द्विविज्ञेयाः” इति । पञ्चग्रहणं धर्मधातुनिराकरणार्थम् ।
बाह्यग्रहणं चक्षुरादिनिरासार्थम् । बाह्या एव पञ्च द्विविज्ञेया इत्यवधारणादन्ये
१. हि काये—का० । २-२. समापत्त्युपपत्तिकाले—का० ।