सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 148, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 148

निर्देशः ] प्रथमं कोशस्थानम् १२९
कायस्तद्भूमिकं चक्षुः, ऊर्ध्वभूमिक वा चक्षुर्भवति न त्वधरभूमिकम् । यद्भूमिक
चक्षुस्तद्भूमिकम्, अधरभूमिक वा रूपं विषयो भवति ।
ऊर्ध्वं रूपं न चक्षुषः ।
न हि कदाचिदूर्ध्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते ।
विज्ञानं च,
ऊर्ध्वं न चक्षुषो रूपवत् ।
अस्य रूपं तु कायस्योऽभे च सर्वतः ॥ ४६ ॥
अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः—ऊर्ध्वम्, अधः,
स्वभूमौ च । कायस्य चोभे रूपविज्ञाने सर्वतो भवतः ॥ ४६ ॥
“ऊर्ध्वं रूपं न चक्षुषः” इति । नोर्ध्वभूमिकं रूपं चक्षुषो विषयो भवति,
ऊर्ध्वभूमिकस्य रूपस्य सूक्ष्मत्वात् । स्वभूमिकमधरभूमिकं चाभ्यनुज्ञातं भवति ।
“विज्ञानं च”। किम् ? ऊर्ध्वं न चक्षुष इति प्रकृतम्। कामावचरस्य चक्षुषो-
र्ध्वभूमिकस्य प्रथमध्यानभूमिकं चक्षुर्विज्ञानं न भवति । स्वभूमिकमधरभूमिकं
वाभ्यनुज्ञातं भवति । कामावचरस्य चक्षुष स्वभूमिकं कामावचरमेव चक्षु-
र्विज्ञानं भवति । प्रथमध्यानभूमिकस्य चक्षुष, प्रथमध्यानभूमिकमेव चक्षुर्विज्ञानं
भवति, कामावचरं तु चक्षुर्विज्ञानमस्य न भवति । ननु चोक्तम्—अधरभूमि-
कमभ्यनुज्ञातमिति ? सत्यमुक्तमेतत्, किन्तु असत्यात्मीयेऽधरभूमिकमिष्यते,
न सतीति । द्वितीयतृतीयचतुर्थध्यानचक्षुषो ह्यसति आत्मिये प्रथमध्यान-
भूमिकमेवाधरं चक्षुर्विज्ञानं भवति, न तु कामावचरम्, परमहीनत्वात् ।
सम्भवतस्त्वेवमुक्तम्—अधरभूमिकमभ्यनुज्ञातमिति ।
अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्येति । चक्षुर्विज्ञानजाते. । रूपं सर्वतो
विषयः। सम्भवतस्तु योज्यम् । कामावचरस्य चक्षुर्विज्ञानस्य स्वभूमिकमेव रूपम्,
प्रथमध्यानभूमिकस्य तु प्रथमध्यानभूमिकचक्षुराश्रयस्य चक्षुर्विज्ञानस्य स्वभूमि-
कमधरभूमिकमूर्ध्वभूमिकं च रूपं विषय., चतुर्थध्यानभूमिकचक्षुराश्रयस्य तु
चतुर्थध्यानभूमिकं रूपम्, ततश्चाधरभूमिकं सर्व विषय. । एवं यावद् द्वितीय-
ध्यानभूमिकचक्षुराश्रयस्य द्वितीयध्यानभूमिकम्, ततश्चाधरभूमिकं रूपं विषय ।
एवं चक्षुर्विज्ञानजातेरूर्ध्वमध. स्वभूमौ च रूपं विषयो भवति । कायस्य चोभे
रूपविज्ञाने सर्वतो भवत इति । कामावचरस्य कायस्य शरीरस्य स्वभूमिकोर्ध्व-
भूमिके रूपविज्ञाने भवत. । प्रथमध्यानभूमिकस्य कायस्य प्रथमध्यानभूमिकमेव
विज्ञानम् । रूपं तु स्वोध्वाधरभूमिकम्, यथा—स्वाश्रयं चक्षु. । द्वितीयादि-
अभि० को० ९