सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

विनिश्चयः ] अष्टमं कोशस्थानम् ११९३
किमिदमुपादायेति ? यद्ययमर्थः—स्कन्धानालम्ब्येति १; तेष्वेव पुद्गल-
प्रज्ञप्तिः प्राप्नोति । यथा रूपादीनालम्ब्य तेष्वेव क्षीरप्रज्ञप्तिः । अथायमर्थः—
स्कन्धान् प्रतीत्येति; स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् ? स एव दोषः;
न स एवं प्रज्ञप्यते । कथं तर्हि ? यथेन्धनमुपादायाग्निः ।
कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते ? न हि विनेन्धनेनाग्निः प्रज्ञप्यते,
न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुम्, नाप्यनन्यः । यदि ह्यन्यः
स्याद्, अनुष्णाग्नीन्धनं स्यात् । अथानन्यः स्यात्, दाह्यमेव दाहकं स्यात् ।
एवं न च विना स्कन्धैः पुद्गलः प्रज्ञप्यते । न चान्यः स्कन्धेभ्यः
शक्यते प्रतिज्ञातुम्; शाश्वतप्रसङ्गात् । नाप्यनन्यः; उच्छेदप्रसङ्गादिति ।
अङ्ग तावद् ब्रूहि—किमिन्धनम्, कोऽग्निरिति ? ततो ज्ञास्यामः--कथ-
मिन्धनमुपादायाग्निः प्रज्ञप्यत इति । किमत्र वक्तव्यम् ! दाह्यमिन्धनम्, दाह-
कोऽग्निः । एतदेवात्र वक्तव्यम्—कि दाह्यम् ? को दाहक इति ? लोके हि
तावदप्रदीप्तं काष्ठादिकमिन्धनमुच्यते, दाह्यं च । प्रदीप्तमग्निर्दाहकश्च ।
यच्च भास्वरं चोष्णं च, भृशं च, तेन हि तदिध्यते दह्यते च; सन्ततिविकारा-
यस्मादनुन्मीलितार्थम् । अव्यञ्जितार्थमित्यर्थः । स्कन्धानालम्ब्येति ।
गृहीत्वेत्यर्थः । यथा रूपादीन् गृहीत्वा अपेक्ष्य क्षीरप्रज्ञप्तिः । न रूपादि-
व्यतिरिक्तं क्षीरमस्तीति । यदि तथा । पुद्गल इति प्रज्ञप्तिः, असत्पुद्गल
प्राप्नोतीत्यर्थः । स्कन्धान् प्रतीत्येति । यदि स्कन्धान् प्रतीत्य प्राप्य इति ।
स एव दोषः । तेष्वेव स्कन्धादिषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्यर्थः । अथ वा—
पुद्गलप्रज्ञप्तेः स्कन्धाः प्रत्ययो न पुद्गलः । पुद्गलस्तु तथैव प्रज्ञप्तिसन्नीति
स एव दोषः ।
यथेन्धनमुपादायाग्निः । प्रज्ञप्यत इति । द्रव्यसन् पुद्गलः । नान्यो नानन्य
इति । स्वमुपादानमुपादाय प्रज्ञप्यमानत्वात् । यो हि भावो नान्यो नानन्य
इति स्वमुपादाय प्रज्ञप्यमानः, स द्रव्यसन्; तद्यथा—अग्निः । इति
वात्सीपुत्रीयाभिप्रायः । अत एव चाह—यदि ह्यन्यः स्यादिति विस्तरेण ।
लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति ।
शाश्वतप्रसङ्गादिति । असंस्कृतत्वात् । उच्छेदप्रसङ्गादिति । स्कन्धवत् ।
अप्रदीप्तं काष्ठादिकमिन्धनमिति विस्तरः । अनेनासिद्धतां दृष्टान्तस्य
दर्शयति । अन्यत्वमेव हि अग्नीन्धनयोरिष्यते । तेन हि तदिध्यते दह्यते
चेति । तेन अग्निना । तदिन्धनम् । इष्यते दीप्यत इत्यर्थः । दह्यते
१. स्कन्धानां लक्ष्यते—का०।

११९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
पादानात्। तच्चोभयमष्टद्रव्यकं तच्चेन्धनं प्रतीत्याग्निरुत्पद्यते। यथा
क्षीरं प्रतीत्य दधि, मधु प्रतीत्य शुक्तम्। तस्मादिन्धनमुपादायेत्युच्यते।
अन्यश्च सः; तस्माद्भिन्नकालत्वात्।
यदि चैवं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते, स तेभ्योऽन्यश्चानित्यश्च
प्राप्नोति। अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदौष्ण्यं तदग्निः, तत्सहजातानि
त्रीणि भूतानीन्धनमिष्यन्ते। तयोरपि सिद्धमन्यत्वम्; लक्षणभेदात्;
उपादायार्थस्तु वक्तव्यः—कथं तदिन्धनमुपादाय सोऽग्निः प्रज्ञप्तः
इति? न हि तत्तस्य कारणम्, नापि तत् प्रज्ञप्तेः। अग्निरेव हि तत्प्रज्ञप्तेः
कारणम्। यद्याश्रयार्थः; उपादायार्थः सहभावोऽर्थो१ वा। स्कन्धा
अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति स्कन्धतः स्पष्टमन्यत्वं२ प्रति-
ज्ञायते। तदभावे च पुद्गलाभावः प्राप्नोति। इन्धनाभाव इवाग्न्यभावः।
भस्मीक्रियते। सन्ततिविकारापादानात्। भस्मतापादानादित्यर्थः। इध्यते
दह्यते चेति पर्यायावित्यपरे। तच्चोभयमष्टद्रव्यकमिति। इन्धनं चाग्नि-
श्चैतदुभयमप्यष्टद्रव्यकम्—चत्वारि महाभूतानि चत्वारि चोपादायरूपाणि
रूपम् यावत् स्प्रष्टव्यमिति; “कामेऽष्टद्रव्यकोऽशब्दः” (अभि० को० २.२३)
इति सिद्धान्तात्।
भिन्नकालत्वादिति। पूर्वमिन्धनम्, पश्चादग्निः। भिन्नकालयो-
श्चान्यत्वं दृष्टं बीजाङ्कुरयोः। अनित्यश्च प्राप्नोतीति। उत्पत्तिमतो
रूपादेरनित्यत्वदर्शनात्। तत्रैव काष्ठादौ प्रदीप्त इति। तदुभयलक्षणे
समुदाये। तयोरपि सिद्धमन्यत्वम्, लक्षणभेदादिति। तयोरपि अग्नीन्धन-
योरेवंलक्षणयोः सिद्धमन्यत्वम्; लक्षणभेदात्। पृथिवीधात्वादीनां
लक्षणान्यत्वात्। भिन्नलक्षणानां ह्यन्यत्वं दृष्टं रूप-वेदनादीनाम्।
उपादायार्थस्तु वक्तव्य इति। अनन्यत्वादित्यभिप्रायः। न हि तत्
तस्य कारणमिति। न हि तदिन्धनं भूतत्रयलक्षणं तस्योष्णलक्षणस्याग्नेः
कारणं युज्यते; सहजातत्वात्। सव्येतरगोविषाणवत्। नापि तत्प्रज्ञप्तेरिति।
अग्नि-तत्प्रज्ञप्तेः। यद्याश्रयार्थ इति। इन्धनमुपादाय = इन्धनमाश्रित्येत्यर्थः।
सहभावोऽर्थो वेति। सहोत्पादार्थः। इन्धनं सहभूत्वेनागृह्णात्यर्थः।
आश्रयसहभूताः प्राप्नुवन्तीति। आश्रयभूताः, सहभूताश्च प्राप्नुवन्तीत्यर्थः।
स्कन्धतः स्पष्टमन्यत्वं प्रतिज्ञायते वात्सीपुत्रीयैः। तदभाव इति।
स्कन्धाभावे।
१. सहभावार्थो—का०। २. विस्पष्टम०—का०।

विनिश्चयः ] अष्टमं कोशस्थानम् ११६५
यत्तदुक्तम्—यदिन्धनादन्योऽग्निः स्याद्, अनुष्णमिन्धनं स्यादिति !
किमिदमुष्णं नाम ? यदि तावदौष्ण्यम्, अनुष्णमेवेन्धनम्; अन्यभूतस्व-
भावत्वात् । अथ यदौष्ण्यवत्, अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यति;
औष्ण्ययोगादिति । नास्त्यन्यत्वे दोषः । अथ पुनः सर्वमेव तत् प्रदीप्तं
काष्ठादिकमिन्धनं चाग्निश्चेष्यते ।
तदुपादायार्थश्च वक्तव्यः । स्कन्धा एव च पुद्गला इत्यनन्यत्व-
मनिवार्यं प्राप्नोति । तस्मान्न सिध्यत्येतत्—यथेन्धनमुपादायाग्निः प्रज्ञप्यते
एवं स्कन्धानुपादाय पुद्गल इति । यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः,
“पञ्चविधं ज्ञेयमतीतानागतं प्रत्युत्पन्नमसंस्कृतमवक्तव्यम्” ( ) इति
न वक्तव्यं प्राप्नोति । नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् ।
यदा च पुद्गलः प्रज्ञप्यते, किं तावत् स्कन्धानुपलभ्य प्रज्ञप्यते ?
आहोस्वित् पुद्गलम् ? यदि तावत् स्कन्धान्, तेष्वेव पुद्गलप्रज्ञप्तिः
प्राप्नोति; पुद्गलस्यानुपलम्भात् । अथ पुद्गलम् ? कथमस्य स्कन्धानु-
पादाय प्रज्ञप्तिर्भवति । पुद्गल एव हि तस्या उपादानं प्राप्नोति ।
अथ मतम्—सत्सु स्कन्धेषु पुद्गल उपलभ्यते, ततः स्कन्धानुपादा-
यास्य प्रज्ञप्तिरुच्यत इति ? तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूप-
लम्भात् तान्युपादाय प्रज्ञप्तिर्वक्तव्या । रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् ।
इदं तावद् वक्तव्यम्—षष्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः ?
षड्भिरपीत्युच्यते । कथं कृत्वा ? चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य पुद्गलं
अन्यभूतस्वभावत्वादिति । पृथिवीधात्वादिस्वभावत्वात् । अन्यदपीति ।
न केवलमौष्ण्यमुष्णम्, अन्यदपि तत्प्रदीप्ताग्निसम्बन्धं भूम्यादिकमुष्णं
सिद्ध्यति । अतो यथा तस्यान्यत्वे न दोषः, तथास्यापीति । ततश्चावक्तव्य
इति । तत्पक्षलोपः स्यात् । काष्ठादिकमिति । काष्ठतृणगोमयादिकम् ।
अवक्तव्यमिति । पुद्गलः । अनिर्भिन्नत्वान्नपुंसकलिङ्गता । ‘किं ते
'जातम्' इति यथा । न वक्तव्यं प्राप्नोतीति । पञ्चविधं ज्ञेयमिति । कथं
तर्हि वक्तव्यम् ? इत्याह—नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं
वक्तव्यमिति ।
रूपस्यापीति । विस्तरः । रूपस्यापि प्रज्ञप्तिर्वक्तव्या । चक्षुरादिषु
सत्सु तस्योपलम्भात् तानि चक्षुरादीन्युपादाय रूपं प्रज्ञप्यत इति ।
प्रतिविभावयतीति । उपलक्षयति । तदुपादानत्वात् । न तु वक्तव्यो.

प्रतिविभावयति¹, चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—रूपाणि
वा नो वा । एवं यावत्, मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभाव-
यति, मनोविज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—धर्मा वा नो वा ।
एवं तर्हि क्षीरादिभिः समानः प्राप्नोति । चक्षुर्विज्ञेयानि चेद्रूपाणि
प्रतीत्य क्षीरं प्रतिविभावयत्युदकं² च³, चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यम्,
नो तु वक्तव्यम्—रूपाणि वा नो वा । एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यम्,
नो तु वक्तव्यम्—स्प्रष्टव्यानि वा नो वा । मा भूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग
इति ?
अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तानि, एवं
स्कन्धाः पुद्गल इति सिद्धम् ।
यच्चोच्यते—चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभाव-
यतीति, कोऽस्य वाक्यस्यार्थः ? किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं
भवतीति ? आहोस्विद् रूपाण्युपलभमानः पुद्गलमुपलभत इति ? यदि रूपाणि
रूपाणि वा नो वेति । अतल्लक्षणत्वात्, अवक्तव्यत्वाच्च । एवं यावद्
धर्मो वा नो वेति ।
क्षीरं प्रतिविभावत्युदकं चेति । उदाहरणद्वयम् । तदेवं वक्तव्यम्—
चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्य क्षीरं प्रतिभावयति, चक्षुर्विज्ञेयं क्षीरं
वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् । तथैतदपि
वक्तव्यम्—चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्योदकं प्रतिविभावयति,
चक्षुर्विज्ञेयमुदकं वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् ।
मा भूत् क्षीरोदकयोः चतुष्ट्वप्रसङ्ग इति । रूपाणीति यद्युच्येतं, चतुः-
प्रकारं क्षीरम्, उदकं वा प्राप्नोतीत्यर्थः । शब्द आगन्तुकत्वान्नात्राधिकृतः ।
अतो यथा रूपादीन्येव समस्तानि समुदितानि क्षीरमिति उदकमिति वा
प्रज्ञप्यते तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धम् ।
रूपाणि पुद्गलोपलब्धेः कारणमिति । रूपाण्युपलभमानः पुद्गल-
मुपलभत इति । कोऽनयोः पक्षयोर्विशेषः ? पूर्वस्मिन् पक्षे रूपाणां कारणत्व-
मधिक्रियते; द्वितीये न तु कारणत्वम्, किं तर्हि ? रूपाण्युपादाय पुद्गलो-
पलब्धिरिति । तत्र रूपाणां यदि कारणत्वमिष्यते, स च पुद्गलः तेभ्यो
१. प्रतिभासयति—का० । २. विभावयस्यु०—का० । ३. वा—का० ।

विनिश्चयः ] अष्टमं कोशस्थानम् ११५७
पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न वक्तव्यः । इदं तर्हि
रूपमप्यालोकचक्षुर्मनस्कारेभ्योऽन्यन्न वक्तव्यम्; तेषां तदुपलब्धिकारणत्वात् ।
अथ रूपाण्युपलभमानः पुद्गलमुपलभते, किं तयैवोपलब्ध्योपलभते ?
...होस्विदन्यया ? यदि तयैव, रूपाद्भिन्नस्वभावः पुद्गलः प्राप्नोति, रूप
एव वा तत्प्रज्ञप्तिः । इदं च रूपमयं पुद्गल इति१ कथमिदं परिच्छिद्यते२ !
—...वं न परिच्छिद्यते, कथमिदं प्रतिज्ञायते — रूपमप्यस्ति पुद्गलोऽप्यस्तीति !
उपलब्धिवशेन हि तस्यास्तित्वं परिज्ञायते३ । एवं यावद्धर्मेभ्यो वक्तव्यम् ।
अथान्या ? भिन्नकालोपलम्भादन्यो रूपात् प्राप्नोति । नीलादिव
रूपेभ्योऽन्यो न वक्तव्य इति । इदं तर्हि वः प्रसज्यते रूपमपीति
विस्तरः । • यथा रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न
वक्तव्यः । आलोकचक्षुर्मनसिकारा अपि रूपोपलब्धेः कारणं भवन्ति, तदपि रूपं
तेभ्य आलोकादिभ्यो ऽन्यन्न वक्तव्यं भवद्भिः; तेषां तदुपलब्धिकारणत्वात् ।
तेषामालोकादीनां रूपोपलब्धिकारणत्वात् । रूपाद्भिन्नस्वभावः पुद्गलः
प्राप्नोति; तयैवैकोपलब्ध्योपलभ्यमानत्वात्, रूपान्तरवत् ।
रूप एव वा तत्प्रज्ञप्तिः । पुद्गलप्रज्ञप्तिः प्राप्नोतीति वर्तते । कुतः ?
तत एव हेतोः । इदं च रूपमिति विस्तरः । उपलब्धेरेकत्वे रूपपुद्गलयोः
परिच्छेदो न प्राप्नोतीति । अथैवं न परिच्छिद्यते 'इदं रूपम्' 'अयं पुद्गलः'
इति । कथमुभयं प्रतिज्ञायते । रूपमेव हि प्रतिज्ञातव्यं स्यात्, तदुपलब्धिसद्भा-
वात् । एवं यावद् धर्मेभ्यो वक्तव्यमिति । कथम् ? यच्चोच्यते—श्रोत्रविज्ञेयान्
शब्दान् प्रतीत्य पुद्गलं प्रतिविभावयतीति, कोऽस्य वाक्यस्यार्थः ? किं
तावच्छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति, आहोस्विच्छब्दानुपलभमानः
पुद्गलमुपलभते इति ? यदि तावच्छब्दाः पुद्गलोपलब्धेः कारणं भवन्ति,
स च तेभ्योऽन्यो न वक्तव्यः । एवं तर्हि शब्दोऽप्यालोकश्रोत्रमनस्कारे-
भ्योऽन्यो न वक्तव्यः; तेषां तदुपलब्धिकारणत्वात् । अथ शब्दानुपलभमानः
पुद्गलमुपलभते, किं तयैवोपलब्ध्योपलभते, आहोस्विदन्यया ? यदि तयैव,
शब्दादभिन्नस्वभावः पुद्गलः प्राप्नोति । शब्दा एव वा तत्प्रज्ञप्तिः ।
'अयं च शब्दः', 'अयं च पुद्गलः' इति कथमिदं परिच्छिद्यते ! अथैवं
न परिच्छिद्यते, कथमिदं परिज्ञायते—शब्दोऽप्यस्ति, पुद्गलोऽप्यस्ति ।
उपलब्धिवशेन हि तस्यास्तित्वं परिज्ञायते । अनया दिशा यावद् धर्मेभ्यो
योजयितव्यम् ।
१. का० पुस्तके नास्ति । २. गम्यते—का० ।
३. प्रतिज्ञायते—का० ।

११९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
पीतम्, क्षणादिव च क्षणान्तरम् । एवं यावद्धर्मेभ्यो वक्तव्यम् ।
अथ रूपपुद्गलवत् तदुपलब्ध्योरप्यन्यान्यत्वमवक्तव्यम् । तेन तर्हि
संस्कृतमप्यवक्तव्यं१ भवतीति सिद्धान्तभेदः ।
यदि चायमस्ति—नो तु वक्तव्यो रूपाणि वा नो वा, किं तर्हि
एतद्२ भगवतोक्तम्—"रूपमनात्मा इति३. यावद्विज्ञानमनात्मा" इति !
येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते, किं तद्रूपाणि प्रतीत्यो-
त्पद्यते ? आहोस्वित् पुद्गलम् ? उभयं वा ?
यदि रूपाणि प्रतीत्योत्पद्यते ? नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादि-
नीलादिव पीतमिति । यदा परिच्छेदेन नीलमुपलभ्यते, न तदा
पीतमुपलभ्यते, पश्चात्तुपलभ्यत इति । अन्योपलब्ध्योपलभ्यते । तच्च
'नीलात् पीतमन्यत्' इति प्रतीतम् । तथा च पुद्गलोऽन्योपलब्ध्योप-
लभ्यत इति । रूपादन्यः प्राप्नोति । एवं क्षणादपि क्षणान्तरमन्यदित्युदा-
हार्यम् । एवं यावद् धर्मेभ्यो वक्तव्यम् इति । कथम् ? अथान्यया भिन्न-
कालोपलम्भात् अन्यः शब्दः प्राप्नोति, यथा भेरीशब्दान्मृदङ्गशब्दः ।
क्षणादिव च क्षणान्तरम् । यथा पूर्वमुक्तम्—नीलादिव पीतम्, क्षणादिव
क्षणान्तरम् इति । भिन्नलक्षणे विषये अभिन्नलक्षणे च भिन्नकालोपलब्ध्या
अन्यत्वं दर्शितमेव । अथान्ययेति विस्तरेण यावद् धर्मेभ्यो योज्यम् !
अथ रूपपुद्गलवदिति४ विस्तारः । यथा रूपपुद्गलयोरन्यान्यत्वम-
वक्तव्यम्, एवं तदुपलब्ध्योरपि अन्यान्यत्वमवक्तव्यमित्येवं यदि ब्रूयात्
तेन तर्हि संस्कृतमप्यवक्तव्यं भवति । तदुपलब्धिलक्षणं संस्कृतमप्येतद-
वक्तव्यमिति । सिद्धान्तभेदः । योऽयं सिद्धान्तः—'पुद्गल एवावक्तव्यः' इति,
अयं भिद्यते । संस्कृतमप्यवक्तव्यमिति कृत्वा ।
यदि चायमिति विस्तारः । यद्येवं रूपाणि नो वेति न वक्तव्यः,
किं तर्हि एतद् भगवतोक्तम्—रूपमनात्मेति । यावद् विज्ञानमनात्मेति ।
एवं हि ब्रुवतो वक्तव्य एव पुद्गलः, नावक्तव्य इति दर्शितं भवति ।
शब्दादिवदिति । न रूपविज्ञानेनोपलभ्यते पुद्गलः; तदनालम्बन-
१. संस्कृतेऽप्य०—का० ।
२. ३. का० पुस्तके नास्ति ।
४. रूपपुद्गलयोरिति—जा० ।

विनिश्चयः ] अष्टमं कोशस्थानम् ११९६
वत्। यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्या-
लम्बनप्रत्ययः ।
अथ पुद्गलं प्रतीत्योत्पद्यते ? उभयं वा ? इदमुत्सूत्रम् । सूत्रे हि
निर्धारितम्—द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति । “तथा चक्षुर्भीक्षो
हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय । तत् कस्य हेतोः ? यत्किञ्चित्
भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि च” इति । अनित्यश्च पुद्गल
एवं प्राप्नोति; “ये हि हेतवो ये प्रत्यया विज्ञानस्योत्पादाय, तेऽप्यनित्याः”
इति सूत्रे वचनात् ।
अथ पुद्गलो न तस्यालम्बनम्, न तर्हि तेन विज्ञेयः ।
यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते, स श्रोत्रविज्ञान-
विज्ञेयत्वाद् रूपादन्यः प्राप्नोति, शब्दवत् । चक्षुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः
प्राप्नोति रूपवत् । एवमन्येभ्योऽपि योज्यम् । इदं च सूत्रपदं बाधितं
भवति—“यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि
स्वकं१ स्वकं१ गोचरविषयं प्रत्यनुभवन्ति । नान्यदन्यस्य गोचरविषयं
प्रत्यनुभवति । तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्दियं घ्राणेन्द्रियं जिह्वेन्द्रियं
कायेन्द्रियम् । मन एषां पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति,
प्रत्ययभूतत्वात्, शब्दादिवत् । आदिशब्देन गन्धवत्, रसवत्—इत्यादि
योज्यम् । एवं श्रोत्रादिविज्ञानानुपलभ्यमानत्वमस्य वक्तव्यम् । एषा हि
दिक् । अनेन चोपन्यासेन धर्मविशेषविपर्ययप्रतिज्ञादोष उद्भाव्यत इत्यव-
गन्तव्यम् ।
द्वयं प्रतीत्येति । द्वयं प्रतीत्य, न तु त्रयं प्रतीत्येति । अत इद-
मुत्सूत्रमिति ।
चक्षुर्भीक्षो हेतुरिति विस्तरः । हेतुः आसन्नः प्रत्ययः । विप्रकृष्टस्तु
प्रत्यय एव । ‘जनको हेतुः, प्रत्ययस्त्वालम्बनमात्रम्’ इत्यपरे । ‘पर्यायावेतौ’
इत्यपरे ।
रूपादन्यः पुद्गलः इति पक्षप्रसङ्गः । श्रोत्रविज्ञानविज्ञेयत्वाच्छब्द-
वत् । तथा शब्दादन्यः पुद्गल इति पक्षप्रसङ्गः; चक्षुर्विज्ञानविज्ञेयत्वात्
रूपवत् । इत्येवमन्येभ्योऽपि योज्यमिति । रूपशब्दाभ्यामन्यः पुद्गल इति
पक्षप्रसङ्गः; घ्राणविज्ञेयत्वात्, गन्धवत्—इत्येषा दिग् योजनं प्रतीति ।
स्वकं स्वकं गोचरविषयं प्रत्यनुभवन्तीति वचनात् पुद्गलेन प्रत्यनु-
१-१. स्वं स्वं—का० ।

मनश्चैषां प्रतिशरणम्" इति ।
न वा पुद्गलो विषयः । न चेद् विषयो न हि विज्ञेयः । यद्येवम्,
मनइन्द्रियस्याप्यव्यभिचारः प्राप्नोति । "षडिमानीन्द्रियाणि नानागोचराणि
नानाविषयाणि स्वकं स्वकं गोचरविषयमाकाङ्क्षन्ते" इत्युक्तं षट्प्राणकोपमे ?
न तत्रेन्द्रियमेवेन्द्रियं कृत्वोक्तम् । पञ्चानां दर्शनाद्याकाङ्क्षणासम्भ-
वात्, तद्विज्ञानानां च । अतस्तदाधिपत्याध्याहृतं¹ तु² मनोविज्ञानमिन्द्रियम्²
भवन्तीति उक्तं भवति । मनश्चैषां प्रतिशरणमिति । अनुषङ्गेनेदमुक्तम्,
नेदमुदाहरणम् । तथापि तु मनश्चैषामिन्द्रियाणां प्रतिशरणमिति तद-
पेक्षाणीन्द्रियाणि विज्ञानोत्पत्तौ कारणं भवन्तीत्यर्थः ।
न वा पुद्गलो विषय इति । यदि सूत्रं प्रमाणीक्रियते । ततः किम् ?
इत्याह—न चेद् विषय इति । यदि न कस्यचिद् विज्ञानस्य विषयः ।
न तर्हि विज्ञेयः । ततश्च 'पञ्चविधं ज्ञेयम्' इति स्वसिद्धान्तो बाध्यते ।
यद्येवम् । सूत्रे वचनात् नान्यदन्यस्य गोचरविषयं प्रत्यनुभवतीति
पञ्चानां चक्षुरादीनां प्रमाणीक्रियते स्वविषयाव्यभिचारः । स्वविषया-
व्यभिचारे च न चक्षुर्विज्ञानादिभिर्विज्ञेयः पुद्गलः । तदेवं सति मन-
इन्द्रियस्याप्यव्यभिचारः प्राप्नोति । षडिमानीन्द्रियाणि नानागोचराणीति
विस्तरेण सूत्रे वचनात् । कुक्कुर-पक्षि-शृगाल-शिशुमार-सर्प-मर्कटाः षट्
प्राणकाः केनचिद् बद्धा मध्ये ग्रन्थि कृत्वोत्सृष्टाः । ते स्वकं स्वकं गोचर-
विषयमाकाङ्क्षन्ते । ग्रामाकाश-श्मशानोदकान्त-वल्मीक-वनाकाङ्क्षणात् ।
एवमेव षडिमानीन्द्रियाणि स्वकं स्वकं गोचरविषयमाकाङ्क्षन्ते । इत्येव-
मुपमात्र क्रियते । अथ सत्यपि सूत्रवचने मनइन्द्रियस्य व्यभिचारः, एवं.
चक्षुरादीनामनीन्द्रियाणां व्यभिचारः, व्यभिचारे च चक्षुर्विज्ञानादिभिर्विज्ञेयः
पुद्गलो भविष्यतीति ।
अत्र ब्रूमः— न तत्रेति विस्तरः । तत्र षट्प्राणकोपमे सूत्रे नेन्द्रियमेव
चक्षुरादिकम् इन्द्रियं कृत्वोक्तम् । किं कारणम् ? चक्षुरादीनां पञ्चानाम्
इन्द्रियाणां दर्शनाद्याकाङ्क्षणासम्भवात् । यस्मादेषां दर्शन श्रवणाद्या-
काङ्क्षणं न सम्भवति; रूपस्वभावत्वात् । तद्विज्ञानानां च । चक्षुरादि-
विज्ञानानां च दर्शनाद्याकाङ्क्षाऽसम्भवात् । कस्मादेषां दर्शनश्रवणाद्या-
१-१. ०त्याध्याहृतमत्र—का० ।
२. ० विज्ञानेन्द्रि०—का० ।

:
Vertical line of i-matra, then 'त' with a repha, then 'र्ह'?
Wait, the repha is on 'त', and there is 'र्ह'? Or is it 'तर्हि'?
Wait, look at the letters:
First is a vertical line. Then 'त' with a repha above it: 'र्त'. Then another vertical line with 'ह'?
Wait! In Devanagari, when 'तर्हि' is printed, if a repha accidentally was placed on 'त', it would be 'र्तर्हि'.
Wait, look at the characters:
It's: र्त + ह + ि = र्तर्हि or तर्हि?
Actually, look at the top:
Above the first consonant, there is a repha: ॅ or र्?
It's a repha!
And after that, there is an आ matra, or is it i-matra?
Wait! The word is "किं तर्हि ?" (kim tarhi?).
The typesetter printed:
"कि" at end of L20.
At start of L21: "र्तार्ह ?" - wait, look at 'र्ह':
The letter is 'ह' with a repha on top and an i-matra?
No, the repha is on the 'त': 'र्त', then 'ार्ह' - wait, why 'ार्ह'? That's 'र्ह' with an anusvāra or something?

संन्निपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रूपिणः
स्कन्धाश्चक्षुरिन्द्रियं च रूपम्—एतावन्मनुष्यत्वमुच्यते । अत्रेयं संज्ञा—सत्त्वो
नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति । अत्रेयं
प्रतिज्ञा—अहं चक्षुषा रूपाणि पश्यामीति । अत्रायं व्यवहारः—इत्यपि स
आयुष्मानेवंनामा एवंजन्य¹ एवंगोत्र एवमाहार एवसुखदुःखप्रतिसंवेदी
एवंदीर्घायुरेवंचिरस्थितिक एवमायुःपर्यन्त इति । इति हि भिक्षवः संज्ञामात्रक-
मेवैतद्, व्यवहारमात्रकमेवैतत् । सर्वे इमे धर्मा अनित्याः संस्कृताश्चेति
ताः प्रतीत्यसमुत्पन्नाः” इति ।
नीतार्थं च सूत्रं प्रतिशरणमुक्तं भगवता । तस्मान्न पुनः परीक्ष्यते ।
तथा चोक्तम्— “सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानि” इति ।
यदि चायं पुद्गलो नायतनम्, न सोऽस्तीति सिद्धम् । अथायतनम्, न तर्हि-
वक्तव्यः । तेषामपि चैवं पश्यतः “यावता भिक्षो चक्षुर्यावता रूपाणि,
विस्तरेण, एतावता भिक्षो तथागतः सर्वं च · प्रज्ञापयति च” इति ।
बिम्बिसारसूत्रे चोक्तम्— “आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः
प्रज्ञप्तिमनुपतितः । न त्वत्रात्मा वा आत्मीयं वा दुःखमिदमुत्पद्यमानमुत्पद्यते”
इति विस्तरः ।
शैलयाप्यर्हन्त्या मारमारभ्योक्तम्—
“मन्यसे किं नु सत्त्वेति मारदृष्टिगतं हि ते ।
शून्यः संस्कारपुञ्जोऽयं नहि सत्त्वोऽत्र विद्यते ॥
यथैव ह्यङ्गसम्भाशत् संज्ञा रथ इति स्मृता ।
एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते” ।। इति ।
क्षुद्रकेऽपि चागमे दरिद्रब्राह्मणमधिकृत्योक्तम्—
“शृणु त्वं स्वादरे धर्मं सर्वग्रन्थिप्रमोचनम् ।
यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥
नीतार्थं च सूत्रं प्रतिशरणमुक्तमिति । “चत्वारीमानि भिक्षवः
प्रतिशरणानि । कतमानि चत्वारि ? १. धर्मः प्रतिशरणम्, न पुद्गलः ।
२. अर्थः प्रतिशरणम्, न पुद्गलः । ३ नीतार्थसूत्रं प्रतिशरणम्, न नेयार्थम् ।
४. ज्ञानं प्रतिशरणम्, न विज्ञानम्” ( ) इति ।
प्रज्ञप्तिमनुपतित² इति । यत्रैव प्रज्ञप्तिः कृता--आत्मेति व्यव-
हारार्थम् तामेव । आत्मेत्यभिनिविष्ट इत्यर्थः ।
१. एवंजात्य—का० । २. ०मनूपपतित—जा० ।

... wait!
Let's check carefully:
"द्वादशैव भवाङ्गानि स्कन्धाायतनधातव. ।"

Wait, let's check the number of lines total:
1: आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते ।
2: नास्तीह सत्त्व आत्मा च१ धर्मास्त्वेते सहेतुकाः ॥
3: द्वादशैव भवाङ्गानि स्कन्धाायतनधातव. ।
4: विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥
5: शून्यमध्यात्मकं पश्य. शून्यं पश्य बहिर्गतम् ।
6: न विद्यते२ सोऽपि कश्चिद् यो भावयति शून्यताम् ॥ इति ।
7: तथोक्तम्-“पञ्चादीनवा आत्मोपलम्भे-१. आत्मदृष्टिर्भवति
8: यावज्जीवदृष्टिः३, २. निर्विशेषो भवति तीर्थिकैः मार्धम्. ३. उन्मार्ग-
9: प्रतिपन्नो भवति, ४. शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न
10: सन्तिष्ठते नाधिमुच्यते४, ५. आर्यधर्मा अस्य न व्यवदायन्ते” इति ।
11: न वैत एवं ग्रन्थं प्रमाणं कुर्वन्ति । कि कारणम् ? 'नास्माकमयं
1

१२०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते, न च सूत्रं धर्मतां वा बाधते,
सोऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् ।
किञ्च—इदमपि तेषां सूत्रं नास्ति "सर्वधर्मा अनात्मानः" इति !
स्यात् मतम्—नैव हि पुद्गलो धर्म उच्यते, नाप्यन्यो धर्मादिति ।
एवं तर्हि न मनोविज्ञेयः सिध्यति । 'द्वयं प्रतीत्य विज्ञानस्योत्पादः' इत्यव-
धारणात् । इह चैवं विकल्प्यते "अनात्मन्यात्मेति विपर्यासः, न त्वात्मनि ।
किं च पुनः ? "नात्मा स्कन्धायतनधातवः" । यत्तावदुक्तं प्राक्—"नो तु
वक्तव्यं रूपाणि वा नो वा" इति, तत्तावदपोढम्१ ।
उक्तं च सूत्रान्तरे—"ये केचिद् भिक्षवः श्रमणा वा ब्राह्मणा वा
आत्मेति समनुपश्यन्तः समनुपश्यन्ति, सर्वे त इमानेव पञ्चोपादानस्कन्धान्"
इति । तस्मात् सर्व एवानात्मन्यात्मग्राहः । तथोक्तम्—'ये केचिदनेकविधं
पूर्वनिवासं समनुस्मरन्तः समनुस्मार्युः, समनुस्मरन्ति, समनुस्मरिष्यन्ति वा,
पुनः सर्वे त इमानेव पञ्चोपादानस्कन्धान्" इति ।
यद्येवमिदम्, कस्मादाह—"रूपवानहमभूवमतीते२ऽध्वनि" इति ।
णीत्यभिप्रायः । सर्वनिकायान्तरेष्विति । ताम्रपर्णीयनिकायादिषु ।
न च सूत्रं बाधते । न च सूत्रान्तरं बाधते । न च सूत्रान्तरं विरोधयति ।
न धर्मतां बाधते इति । प्रतीत्यसमुत्पादधर्मताम् ।
सर्वधर्मा अनात्मान इति । न चैत आत्मस्वभावाः । न चैतेषु
आत्मा विद्यत इति अनात्मानः सर्वधर्माः ।
द्वयं प्रतीत्येति । चक्षू रूपाणि यावन् मनोधर्मानिति । न पुद्गलो
न धर्मा इति ।
नात्मा स्कन्धायतनधातव इति वचने यत् कश्चित् पूर्वं नो तु वक्तव्यं
रूपाणि वा नो वेत्युक्तम्, अपोढम् अपास्तं तद् भवति; आत्मनोऽन्यत्वात् ।
तस्मात् सर्व एवानात्मन्यात्मग्राह इति । नातोऽन्योऽस्तीति
दर्शयति ।
यद्येवमिति विस्तरः । यदिमानेव पञ्चोपादानस्कन्धान्
१. ०दद्योचम्—का० ।
२. बभूवातीते—जा० ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२०५
एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति । यदि तु रूपवन्तं पुद्गलं
पश्येत्, सत्कायदृष्टिप्रसङ्गः स्यात् । अपाठ एव चात्र¹ शरणं स्यात् ।
तस्मात् प्रज्ञप्तिसत्पुद्गलो राशिधारादिवत्² ।
यद्येवम्, तर्हि न बुद्धः सर्वज्ञः प्राप्नोति, न हि किञ्चिच्चित्तमस्ति
चैत्ता वा यत् सर्वं जानीयाद्; क्षणिकत्वात् । पुद्गलस्तु जानीयात् ? एवं
तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात् नित्यत्वमस्याभ्युपेतं
भवति ? नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद् बुद्धं सर्वज्ञमाचक्ष्महे । किं
तर्हि ? सामर्थ्यात् । याह्य सौ बुद्धाख्या सन्ततिस्तस्या इदमस्ति सामर्थ्यं
यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् । आह चात्र—
“सन्तानेन समर्थत्वाद् यथाग्निः सर्वभुङ्‌मतः ।
तथा सर्वविदेष्टव्योऽसकृत्सर्वस्य वेदनात्” ।।
कथमिदं गम्यते ? अतीतादिवचनात् ।
“ये चाम्यतीताः सम्बुद्धा ये च बुद्धा अनागताः ।
यश्च एतर्हि सम्बुद्धो बहूनां शोकनाशनः” ।। इति ।।
समनुस्मरन्तः समन्वस्माषुः, समनुस्मरन्ति, समनुस्मरिष्यन्ति वा न
पुद्गलम् । कस्मादाह रूपवानहं बभूवातीतेऽध्वनीति । अहमिति वचनात्
पुद्गल उच्यत इति दर्शयति । एवमनेकविधं ये समनुस्मरन्ति त एवं
समनुस्मरन्तीति वाक्याध्याहारः । अपाठ एव चात्र शरणं स्यादिति ।
अहमिति पाठे हि सति सत्कायदृष्टिपरिग्रहप्रसङ्ग स्यादित्यर्थः । विंशति-
कोटिका हि सत्कायदृष्टिः पठ्यते—१. रूपमात्मेति समनुपश्यति, २.
रूपवन्तमात्मानम्, ३. आत्मीयं रूपम्, ४. रूपे आत्मेति । एवं यावद्
विज्ञानं वक्तव्यम् ।
राशिधारादिवच्च । राशिवत्, धारावच्च । आदिशब्देन पानकादि-
ग्रहणम् । एकस्मिन् क्षणे बहूनां राशिः । बहुषु क्षणेषु समवहितानां
धारा । राशिदृष्टान्तेन बहुषु धर्मेषु पुद्गलप्रज्ञप्तिं दर्शयति । धारादृष्टान्तेन
बहुत्वे सति रूपवेदनादीनां स्कन्धानां प्रवाहे पुद्गलप्रज्ञप्तिं दर्शयति ।
कथमिदं गम्यत इति । बुद्धाख्यायाः सन्ततेरिदं सामर्थ्यम् यद्
आभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम्, न पुनः पुद्गलस्येति ।
उच्यते—अतीतादिवचनात् । ये चाम्यतीता इति । विस्तरेणोक्त उपसंहारः ।
तस्मात् स्कन्धसन्तान एव बुद्धाख्या, न पुद्गल इति ।
१. ह्यत्र—का० । २. ०धारावत्—का० ।

स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः । यदि
स्कन्धा एव पुद्गलाः, कस्मादिदमाह- "भारं च वो भिक्षवो देशयिष्यामि,
भारादानं च, भारनिक्षेपणं च, भारहारं च" ( ) इति ? कस्मादिदं न
वक्तव्यं स्यात् ? न हि भार एव भारहारो युक्तः । किं कारणम् ? नह्येवं
दृश्यत इति । अवक्तव्योऽपि न युक्तः । किं कारणम् ? न ह्येवं दृश्यते ।
भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च । इत्यर्थमेव च¹ भारहारं निर्दिदेश
भगवान् । "योऽसावायुष्मानेवन्नामा यावदेवंचिरस्थितिक एवमायुःपर्यन्तः"
स एष यथा विज्ञायेत । मान्यथा विज्ञायि- नित्यो वा, अवक्तव्यो वेति ।
स्कन्धा एव च स्कन्धानामुपघाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च
भारं च वो भिक्षवो देशयिष्यामीति विस्तरः । "भारं च वो
भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं च । तच्छृणुत,
साधु च सुष्ठु च मनसिकुरुत, भाषिष्ये । भारः कतमः ? पञ्चोपादान-
स्कन्धाः । भारादानं कतमत् ? तृष्णा पौनर्भविकी, नन्दी-रागसहगता
तत्रतत्राभिनन्दिनी । भारनिक्षेपणं कतमत् ? यदस्या एव तृष्णायाः
पौनर्भविक्या नन्दी-रागसहगताया तत्रतत्राभिनन्दिन्याः अशेषप्रहाणम्,
प्रतिनिसर्गः, व्यन्तीभावः, क्षयः, विरागः, निरोधः, व्युपशमः,
अस्तङ्गमः । भारहारः कतमः ? पुद्गल इति स्याद् वचनीयम् । यो-
ऽसावायुष्मान् एवंनामा एवंजन्य एवंगोत्रः एवमाहार एवंसुखदुःखप्रति-
संवेदी एवंदीर्घायुः एवंचिरस्थितिकः एवमायुःपर्यन्तः" ( ) इति !
भारं हरतीति भारहारः पुद्गल इत्यभिप्रायः । अत्रेदमुदाहरणम्² ।
अत एवाह - नहि भार एव भारहार इति ।
भारादानस्यापि यथोक्तलक्षणस्य स्कन्धासङ्ग्रहप्रसङ्गाच्च । पुद्गलवत्
अस्कन्धसंग्रहप्रसङ्गः । न चैवमिष्यते । तस्माद् भारादानवान् न
स्कन्धेभ्योऽर्थान्तरभूतः पुद्गलः । इत्यर्थमेव चेति विस्तरेण सर्वमुक्त्वा
वक्तव्यं मान्यथेति । यदि द्रव्यसन् स्यात् पुद्गलः, “भारहारः कतमः ?
पुद्गल इति स्याद् वचनीयम्" इत्येतावदेवोक्तं स्यात् तत्र सूत्रे । परेण
स न विभक्तव्यः स्यात्-'योऽसावायुष्मान्' इति विस्तरेण यावत् 'आयुः-
पर्यन्तः' इति । प्रज्ञप्तिसत्पुद्गलप्रतिपत्त्यर्थं ह्येतत् परेण विशेषणमित्य-
भिप्रायः । स एव तु प्रज्ञप्तिसन् कुतो विज्ञायते ! मान्यथा विज्ञायि
नित्यो वाऽवक्तव्यो वा द्रव्यसत्पुद्गल इति । स्कन्धानामिति विस्तरः।
तत्र ये उपघाताय संवर्तन्ते दुःखहेतवः स्कन्धाः ते भार³ इति कृत्वोक्ताः ।
१. का० पुस्तके नास्ति । २. छेदमुदाहरणम्—जा० । ३. भाव—जा० ।

भारहारं च कृत्वोक्ताः । उपघातार्थो हि भार इति ।
अस्त्येव पुद्गलः; यस्मादुक्तम् - "नास्ति सत्त्व उपपादुक इति मिथ्या-
दृष्टिः" । कश्चैवमाह-नास्ति सत्त्व उपपादुक इति । सत्त्वस्तु यथाऽस्ति
तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे । यस्माद् यः परत्रोपपादुकसत्त्वा-
ख्यस्कन्धसन्तानापवादं करोति, तस्यैषा मिथ्यादृष्टिः-'नास्ति सत्त्व उपपादुकः'
इति; स्कन्धानामुपपादुकत्वात् ।
अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किम्प्रहातव्या भवेत् ?
नह्येषा दर्शनभावनाप्रहातव्या युज्यते; पुद्गलस्य सत्येष्वन्तर्भावात् १ । "एकः
पुद्गलो लोक उत्पद्यमान उत्पद्यते" इति वचनात् न स्कन्धा इति चेत् ?
न; समुदायेऽप्येकोपचारादेकतिलैकतण्डुलवत्, एकराश्येकवचनवच्च ।
संस्कृत इति वा पुद्गलो वक्तव्यः, उत्पत्तिमत्त्वाभ्युपगमात् । न स
एवमुत्पद्यते यथा स्कन्धाः, अपूर्वप्रादुर्भावात् । किं तर्हि ? स्कन्धान्तरोपा-
उत्तरे ये पीड्यन्ते ते भारहार इति कृत्वोक्ता इति ।
उपपादुकत्वादिति । उपपादने साधुकारित्वादित्यर्थः । पुद्गलस्य
सत्येष्वनन्तर्भावादिति । यस्माद् यथापरिकल्पितस्य पुद्गलस्य सत्येषु
दुःखादिषु नान्तर्भावः २ । नहि पुद्गलो दुःखम्, यावत् मार्ग इति । अतो न
सत्यदर्शनप्रहातव्यैषा पुद्गलापवादिका मिथ्यादृष्टिः । या हि दृष्टिः
यस्मिन् सत्ये विप्रतिपन्ना, तत्सत्यदर्शनात् तस्याः प्रहाणं भवेत् । तथा
दुःखसमुदयसत्ययोः पुद्गलस्यानन्तर्भावात् नापि भावनाप्रहातव्या ।
भावनाप्रहातव्यो हि क्लेशो भावनाप्रहातव्यमेव वस्तु दुःखं समुदयं वा-
ऽऽलम्बते-इत्येवं तस्याः भावनाप्रहातव्यत्वं युज्यते । न च पुद्गलस्त-
योरन्तर्भूत इत्यतो भावनाप्रहातव्या सा न भवति । अथ वा न कदाचिदपि
दृष्टिर्भावना प्रहातव्येति नासौ भावनाप्रहातव्या ।
एकतिलैकतण्डुलवद् एकराश्येकवचनवच्चेति । यथा अष्टद्रव्यकत्वेऽपि
एकतिल एकतण्डुल इति चोच्यते, तथा एको राशिरेकवचनमिति । तावद्
एकः पुद्गल इति ।
उत्पत्तिमत्त्वाभ्युपगमादिति । उत्पद्यत इति वचनात् उत्पत्तिमत्त्व-
मस्याभ्युपगतं भवति । ततश्च संस्कृत इति वक्तव्यो भवद्भिः ।
स्कन्धान्तरोपादानादिति । नास्य संस्कृतत्वमापद्यत इत्यभिप्रायः ।
१. सत्येष्वन्त०-का० । २. नान्तर्भावः-जा० ।
अभि० को० ४ : १२

१२०८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
दानात् । यथा हि याज्ञिको जातः, वैयाकरणो जात इत्युच्यते; विद्योपादा-
नात् । भिक्षुर्जातः, परिव्राजको जात इति; लिङ्गोपादानात् । वृद्धो जातः,
व्याधितो जात इति; अवस्थान्तरोपादानादिति ? न; प्रतिक्षेपात् ।
सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम्—“इति हि
भिक्षवोऽस्ति कर्म, अस्ति विपाकः, कारकस्तु नोपलभ्यते । य इमांश्च स्कन्धान्नि-
क्षिपति, अन्यांश्च स्कन्धान् प्रतिसन्दधात्यन्यत्र धर्मसंकेतात्” ( ) इति ।
फल्गुसूत्रे चोक्तम्—“उपादत्त इति फल्गुना१ न वदामि” इति ।
तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता, नापि निक्षिप्ता ।
कं च तावद्भवान् याज्ञिकं यावद्व्याधितमधिमुच्यते दृष्टान्तं
करोति ? पुद्गलं यदि ? सोऽसिद्धः । अथ चित्तचैत्ता. ? न; तेषां प्रति-
क्षणमपूर्वोत्पत्तिरेव । अथ शरीरम् ? तस्यापि तथा।
शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते । जीर्णां शरी-
रान्तरमेव व्याधितं च । प्रतिषिद्धो हि सांख्यैयः२ परिणामवादः । तस्माद-
पदृष्टान्ता३ एते ।
यथा हि याज्ञिको जात इति विद्योपादानादुच्यते । न चासौ भूतार्थेन
जातः । तद्वदिति सर्वं योज्यम् ।
कारकस्तु नोपलभ्यत इति विस्तरः । कर्मणः कारको नोपलभ्यते ।
कीदृशोऽसाविति ? आह—य इमांश्च ऐहिकान् स्कन्धान् निक्षिपति
त्यजति । अन्यांश्च पारत्रिकान् स्कन्धान् प्रतिसन्दधाति उपसंगृह्णाति द्रव्य-
सन्नवस्थित इति । अन्यत्र धर्मसंकेतादिति । प्रतीत्यसमुत्पादलक्षणान्तेनाह—
यदुत अस्मिन् सतीति ।
उपादत्त इति फल्गुना न वदामीति । अहं चेदेवं वदेयम्—उपादत्त
इति, अत्र ते कल्पः स्यात् वचनाय—‘को नु, भदन्त, उपादानमुपादत्ते’ इति ।
तस्मान्नास्ति स्कन्धानां कश्चित् उपादाता, नापि निक्षिप्तेति ।
तस्यापि तथेति । प्रतिक्षणमपूर्वोत्पत्तिरेवेत्यर्थः । यदि पुद्गलः सो
ऽसिद्ध इत्येवमादिनोपन्यासेनासिद्धतां दृष्टान्तस्य दर्शयति ।
शरीरविद्यालिङ्गवच्चेति । विद्या च लिङ्गं च विद्यालिङ्गम्, शरीरं
च विद्यालिङ्गं च शरीरविद्यालिङ्गम्, तयोरिव शरीरविद्यालिङ्गवत् ।
१ फल्गु—का० । २. सांख्यीयः—का० । ३. तस्माद्दृष्टान्ता—का० ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२०६
यदि च स्कन्धानामंपूर्वोत्पादो न पुद्गलस्येष्यते सोऽन्यश्च तेभ्यो
नित्यश्च स्फुटं दीपितो भवति। पञ्च स्कन्धा एकः पुद्गल इति ब्रुवता
कथमन्धत्वं नोच्यते । कथं तावद् भूतानि चत्वारि रूपं चैकं³। न च
भूतेभ्योऽन्यद्रूपम् ? पाक्षिक एष दोषः । कतमस्मिन् पक्षे ? भूतमात्रिकपक्षे ।
तथापि तु यथा भूतमात्रं रूपम्, एवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति ।
यदि स्कन्धमात्रं पुद्गलः, कस्माद् भगवता—'स जीवस्तच्छरीरमन्यो
वा' इति न व्याकृतम् ? प्रष्टुराशयापेक्षया । स हि जीवद्रव्यमेकमन्तर्व्यापार-
पुरुषमधिकृत्य पृष्टवान् । स च कस्मिंश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं
वा व्याक्रियताम् । कौर्मस्येव रोम्णोऽन्तः खरता मृदुता वा ।
एष च ग्रन्थः पूर्वकैरेव निर्मोचितः । स्थविरो हि नागसेनः कलिङ्गेन
स्कन्धपुद्गलयोरन्यत्वमापद्यते । यथोपादेयाया विद्याया लिङ्गाच्च
शरीरस्यान्यत्वम्, एवमुपादेयात् स्कन्धात् पुद्गलस्यान्यत्वम्, उपादातृत्वा
दित्यभिप्रायः । जीर्णात्तं शरीरान्तरमेव, व्याधितं चेति प्रतिक्षणमन्यत्व-
मवस्थानादित्यभिप्रायत् । तत्र यदुक्तम्—जीर्णो जातः, व्याधितो जात
इत्यसिद्धो दृष्टान्त इति दर्शयति । अथापि स्यात्—अवस्थितस्य शरीरस्या-
वस्थान्तरनिवृत्ताववस्थान्तरप्रादुर्भाव इति ? तच्च नाप्रतिषिद्धो हि
साङ्ख्यैयः परिणामवादः पूर्वस्मिन् कोशस्थाने । कथम् ? स एव धर्मी न
संविद्यते, यस्यावस्थितस्य धर्मान्तरविकल्पः परिकल्प्येत । तदेव चेदं तथेत्य-
पूर्विका वाचो युक्तिरिति ।
भूतानि चत्वारि, रूपं चैकमिति । "रूपं कतमत् ? चत्वारि
महाभूतानि" ( ) इत्यादि ।
पाक्षिक एष दोष इति । एकस्मि पक्षे अयं दोषवाद इत्यर्थः ।
भूतमात्रिकपक्ष इति । स्थविरबुद्धदेवपक्षे, नास्मत्पक्ष इत्यर्थः । तथापि
'त्विति । भूतमात्रिकपक्षेऽपि भूतेभ्यो रूपं नान्यत् । भूतमात्रिकपक्षेऽपि
भूतेभ्यो रूपवत् स्कन्धेभ्यो नान्यः पुद्गल इत्युपगतं भवतीति स्वसिद्धान्तस्य
परित्यागः² स्यादित्यभिप्रायः ।
कस्माद् भगवता स जीवः तच्छरीरम्, अन्यो वेति न व्याकृतमिति ।
अयमेषामभिप्रायः—यदि स्कन्धेषु पुद्गलोपचारः, कस्माच्छरीरमेव जीव इति
नोक्तमिति ।
पूर्वकैरेवेति । स्थविरनागसेनादिभिः। बहुबोल्लका इति। बहुप्रलापा इति ।
३. त्वेकं—का० । २ ०सिद्धान्तः० —जा० ।

१२१० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ पुद्गल-
राज्ञोपसंक्रम्योक्तः- "पृच्छेयमहं भदन्तम्, बहुबोल्लकाश्र्च श्रमणा भवन्ति,
यदि यदेव पृच्छेयं तदेव व्याकुर्याः" इति । पृच्छेत्युक्तः पृष्टवान्—"किं नु स
जीवस्तच्छरीरम्, अन्यो जीवोऽन्यच्छरीरम्" इति ? "अव्याकृतमेतत्"
इत्यवोचत् स्थविरः । स आह—"ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितः—
नान्यद्व्याकर्तव्यमिति ! किमिदमन्यदेवोक्तम्—अव्याकृतमेतदिति" । स्थविर
आह—"अहमपि महाराजं पृच्छेयम्, बहुबोल्लकाश्र्च राजानो भवन्ति, यदि
यदेव पृच्छेयं तदेव व्याकुर्याः" इति । पृच्छेत्युक्तः पृष्टवान्—"यस्तेऽन्तःपुरे
आम्रवृक्षस्तस्य किमम्लानि फलानि, आहोस्विन्मधुराणि इति ? 'नैव
ममान्तःपुरे कश्चिदाम्रवृक्षोऽस्ति" इत्याह । "ननु मया पूर्वमेव महाराजः
प्रतिज्ञां कारितः—नान्यद्व्याकर्तव्यमिति ! किमिदमन्यदेवोक्तम्—आम्र एव
नास्ति" इति ? स आह—"कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा
व्याकरोमि" इति । "एवमेव महाराज, स एव जीवो नास्ति, कुतोऽस्य
शरीरादन्यतामनन्यतां वा व्याकरोमि" ( ) इति ।
कस्माद् भगवताऽपि नोक्तम्—नास्त्येवेति ? प्रष्टुराशयापेक्षया । स
हि यस्यापि स्कन्धसन्तानस्य जीव इत्याख्या, तस्याप्यभावं प्रतीयादिति
मिथ्यादृष्टि पातितः स्यात्; प्रतीत्यसमुत्पादस्याज्ञानात् । स च तद्देशनाया
अक्षमः ।
इतश्चैतदेवं निश्चीयते । यत् भगवतोक्तम्—"अस्त्यात्मेत्यानन्द !
वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वल्पं स्याद्वचनाय—
सर्वधर्मा अनात्मान इति । नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय
प्रश्नं पृष्टो व्याकुर्याम्, ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या
मात्रया संमोहमापद्येत—अभून् मे आत्मा, स मे एतर्हि नास्तीति ।
अस्त्यात्मेत्यानन्द शाश्वताय परैति । नास्त्यात्मेत्यानन्दोच्छेदाय परैति" इति
विस्तरः ।
इतर आह¹—यदि पुद्गलो नावक्तव्यः, कस्मान्नोक्तो नास्त्येवेति ।
स च तद्देशनाया अक्षम इति । नैरात्म्यदेशनाया अयोग्य इत्यर्थः ।
पूर्वमेवं सम्मूढ इति । सत्कार्यदृष्टिसहगतेन मोहेन । भूयस्या मात्रया
संमोहमापद्येतेति । उच्छेददृष्टिसहगतं दृष्टयन्तरमुत्पादयेदित्यभिप्रायः ।
अत एवाह—अभून्मे आत्मा, स एतर्हि नास्तीति । आह चात्रेति ।
भदन्तकुमारलातः²—
१. इतराह—जा० । २. ०कुमारलाभ इत्यपि पाठः ।

विनिश्चयः ] अष्टमं कोशस्थानम् १२११
आह चात्र—
"दृष्टिदंष्ट्रावभेदं च भ्रंशं चापेक्ष्य कर्मणाम्।
देशयन्ति जिना धर्मं व्याघ्रीपोतापहारवत्॥
आत्मास्तित्वं ह्युपगतो भिन्नः स्याद् दृष्टिदंष्ट्रया।
भ्रंशं कुशलपोतस्य कुर्यादप्राप्य संवृतिम्"॥ ( ) इति।
पुनराह—
"असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत्।
नास्तीत्यपि च नावोचन्मा भूत् प्राज्ञप्तिकोऽप्यसन्॥
यत्र हि स्कन्धसन्ताने शुभाशुभफलास्तिता।
जीवाख्या तत्र सा न स्यात् जीवनास्तित्वदेशनात्॥
प्रज्ञप्तिमात्रं स्कन्धेषु जीव इत्यपि नावदत्।
अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः॥
तथा ह्यात्मास्ति नास्तीति पृष्टो वात्स्येव नावदत्।
आशयापेक्षया प्रष्टुः सति त्वस्तीति नाह किम्"॥ ( )
दृष्टिदंष्ट्रावभेदं चेति विस्तरः। दृष्टिरेव दंष्ट्रा, तयावभेदम्।
अपेक्ष्य देशयन्ति बुद्धा भगवन्तो धर्मं नैरात्म्यं तत्प्रतिपक्षेण। भ्रंशं च
कर्मणाम् अपेक्ष्य कृतविप्रणाशमपेक्ष्य पुद्गलास्तित्वमिव दर्शयन्तोऽन्यथा
देशयन्ति। व्याघ्रीपोतापहारवत् इति। यथा व्याघ्री नातिनिष्ठुरेण
दन्तग्रहणेन स्वपोतमपहरति नयति—'मास्य दंष्ट्रया शरीरं क्षतं भूत्' इति।
नाप्यतिशिथिलेन दन्तग्रहणेन तमपहरति—'मास्य भ्रंशपातोऽस्मिन् विषये
'भूत्' इति। युक्तेनैव ग्रहणेनापहरतीत्यर्थः। अपहरतीत्यपरे पठन्ति,
स्थानान्तराद् अपहरति अपनयतीत्यर्थः।
तथाऽर्थदर्शने कारणं दर्शयन्नाह—आत्मास्तित्वमिति विस्तरः।
आत्मास्तित्वं प्रतिपन्नश्चेत् कश्चित् दृष्टिदंष्ट्रया सत्कायदृष्टिलक्षणया भिन्नः
स विनेयजनः स्यात्। अप्राप्य संवृतिगतिम्। धर्मसंकेतमजानतः कुशल-
पोतस्य कुशलकर्मणः व्याघ्रोपोतभूतस्य भ्रंशं कुर्यात्—'नास्ति कर्मणः
फलम्' इति।
प्राज्ञप्तिक इति प्रज्ञप्तौ भवः प्राज्ञप्तिकः। संवृतिसन्नपि पुद्गलो
नास्तीति कश्चिद् गृह्णीयादित्यतो नास्तीति नावोचत्।
सति त्वस्तीति नाह किम् इति। यदि भूतार्थेन पुद्गलोऽस्ति,

१२१२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ पुद्गल-
शाश्वतलोकादीनामप्यव्याकरणं प्रष्टुराशयापेक्षया। यदि हि ताव-
दात्मा लोक इष्टः स्यात्, तस्याभावादयुक्तं चतुर्धा व्याकरणम् । अथ सर्व
एव संसारो लोकः, तस्याप्ययुक्तम् । शाश्वते लोके न कस्यचित् परिनिर्वाणं
प्राप्नुयात् । अशाश्वते सर्वेषामुच्छेदः प्राप्नुयात् । उभयथात्वे नियमत
एकेषां परिनिर्वाणं प्राप्नुयात्, एकेषां न । अनुभयथात्वे नैव परिनिर्वाणं
नापरिनिर्वाणं प्राप्नुयात् । अतो मार्गाधीनत्वात्, परिनिर्वाणस्य चतुर्धापि
नियमो न व्याक्रियते निर्ग्रन्थश्रावकचटकवत् ।
अत एवान्तवान् लोक इति चतुष्काव्याकरणम् । तुल्यार्थो ह्येष
चतुष्कः । तथाहि मुक्तिकः परिव्राजक एवं चतुष्कं पृष्ट्वा पुनः पृष्टवान् —
“किं नु सर्वो लोकोऽनेन मार्गेण निर्यास्यति१, आहोस्विदेकदेशो लोक-
स्य” इति ? स्थविर आनन्द आह—“यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं
प्रश्नं पृष्टवान्, त्वमेवैतत्२ पृच्छस्यनेन पर्यायेण” ( ) इति सर्वम् ।
किमिति कृत्वा भगवान् ‘अस्ति पुद्गलः’ इति न ब्रवीति । नहि ‘रूपमस्ति’
इति वचनेन दोषो भवति ; तस्यास्तित्वात् ।
निर्ग्रन्थश्रावकचटकवदिति । निर्ग्रन्थश्रावकेण चटकं जीवन्तं
गृहीत्वा भगवान् पृष्टः— किमयं चटको जीवति न वेति । तस्यायमभिप्रायः—
यदि श्रमणो गौतम आदिशेत्— ‘जीवति’ इति, स तं निपीडनेन मारयित्वा
दर्शयेत् । यदि पुनर्भगवान् एवमादिशेत्— ‘मृतः’ इति, स तं जीवन्तमेव
दर्शयेत्— ‘कथं नामायमज्ञः’ इति लोको जानीयात् इति तस्याभिप्रायः ।
भगवता तु तस्याशयं विदित्वा न व्याकृतम् । त्वच्चित्तप्रतिबद्धमेवैतत्—
‘जीवति वा न वेति च’ इत्येवाभिहितम्, तद्वदेतन्न व्याकृतमिति ।
तुल्यार्थो ह्येष चतुष्क इति । ‘शाश्वतो लोकः, अशाश्वतो लोकः’
इत्यनेन चतुष्केन ‘अन्तवान् लोकः अनन्तवान् लोकः’ इत्ययं चतुष्कस्तु-
ल्यार्थः । यद्येवम्, कथं चतुर्दशाव्याकृतवस्तूनि भवन्ति ? ‘शाश्वतो लोकः’
इत्येकचतुष्कः । ‘अन्तवान्’ इति द्वितीयश्चतुष्कः । ‘भवति तथागतः’ इति
तृतीयश्चतुष्कः । ‘स जीवस्तच्छरीरम्, अन्यो जीवोऽन्यत् शरीरम्’ इति
द्विकः । त्रयश्चतुष्काः, एकश्च द्विक इति चतुर्दशाव्याकृतवस्तूनि । पर्याय-
रूपत्वव्यस्थानेऽपि चतुर्दशत्वं भवतीत्यदोषः । त्वमेवैतत् पृच्छसीति ।
१. निर्याति—का० ।
२. तमेवै०—का० ।