सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1219, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1219

प्रतिविभावयति¹, चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—रूपाणि
वा नो वा । एवं यावत्, मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभाव-
यति, मनोविज्ञेयः पुद्गलो वक्तव्यः, नो तु वक्तव्यः—धर्मा वा नो वा ।
एवं तर्हि क्षीरादिभिः समानः प्राप्नोति । चक्षुर्विज्ञेयानि चेद्रूपाणि
प्रतीत्य क्षीरं प्रतिविभावयत्युदकं² च³, चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यम्,
नो तु वक्तव्यम्—रूपाणि वा नो वा । एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यम्,
नो तु वक्तव्यम्—स्प्रष्टव्यानि वा नो वा । मा भूत् क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग
इति ?
अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तानि, एवं
स्कन्धाः पुद्गल इति सिद्धम् ।
यच्चोच्यते—चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभाव-
यतीति, कोऽस्य वाक्यस्यार्थः ? किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं
भवतीति ? आहोस्विद् रूपाण्युपलभमानः पुद्गलमुपलभत इति ? यदि रूपाणि
रूपाणि वा नो वेति । अतल्लक्षणत्वात्, अवक्तव्यत्वाच्च । एवं यावद्
धर्मो वा नो वेति ।
क्षीरं प्रतिविभावत्युदकं चेति । उदाहरणद्वयम् । तदेवं वक्तव्यम्—
चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्य क्षीरं प्रतिभावयति, चक्षुर्विज्ञेयं क्षीरं
वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् । तथैतदपि
वक्तव्यम्—चक्षुर्विज्ञेयानि चेद् रूपाणि प्रतीत्योदकं प्रतिविभावयति,
चक्षुर्विज्ञेयमुदकं वक्तव्यम् । नो तु वक्तव्यम्—रूपाणि वा नो वेति सर्वम् ।
मा भूत् क्षीरोदकयोः चतुष्ट्वप्रसङ्ग इति । रूपाणीति यद्युच्येतं, चतुः-
प्रकारं क्षीरम्, उदकं वा प्राप्नोतीत्यर्थः । शब्द आगन्तुकत्वान्नात्राधिकृतः ।
अतो यथा रूपादीन्येव समस्तानि समुदितानि क्षीरमिति उदकमिति वा
प्रज्ञप्यते तथा स्कन्धा एव समस्ताः पुद्गल इति प्रज्ञप्यन्त इति सिद्धम् ।
रूपाणि पुद्गलोपलब्धेः कारणमिति । रूपाण्युपलभमानः पुद्गल-
मुपलभत इति । कोऽनयोः पक्षयोर्विशेषः ? पूर्वस्मिन् पक्षे रूपाणां कारणत्व-
मधिक्रियते; द्वितीये न तु कारणत्वम्, किं तर्हि ? रूपाण्युपादाय पुद्गलो-
पलब्धिरिति । तत्र रूपाणां यदि कारणत्वमिष्यते, स च पुद्गलः तेभ्यो
१. प्रतिभासयति—का० । २. विभावयस्यु०—का० । ३. वा—का० ।