सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1216, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1216

विनिश्चयः ] अष्टमं कोशस्थानम् ११९३
किमिदमुपादायेति ? यद्ययमर्थः—स्कन्धानालम्ब्येति १; तेष्वेव पुद्गल-
प्रज्ञप्तिः प्राप्नोति । यथा रूपादीनालम्ब्य तेष्वेव क्षीरप्रज्ञप्तिः । अथायमर्थः—
स्कन्धान् प्रतीत्येति; स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् ? स एव दोषः;
न स एवं प्रज्ञप्यते । कथं तर्हि ? यथेन्धनमुपादायाग्निः ।
कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते ? न हि विनेन्धनेनाग्निः प्रज्ञप्यते,
न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुम्, नाप्यनन्यः । यदि ह्यन्यः
स्याद्, अनुष्णाग्नीन्धनं स्यात् । अथानन्यः स्यात्, दाह्यमेव दाहकं स्यात् ।
एवं न च विना स्कन्धैः पुद्गलः प्रज्ञप्यते । न चान्यः स्कन्धेभ्यः
शक्यते प्रतिज्ञातुम्; शाश्वतप्रसङ्गात् । नाप्यनन्यः; उच्छेदप्रसङ्गादिति ।
अङ्ग तावद् ब्रूहि—किमिन्धनम्, कोऽग्निरिति ? ततो ज्ञास्यामः--कथ-
मिन्धनमुपादायाग्निः प्रज्ञप्यत इति । किमत्र वक्तव्यम् ! दाह्यमिन्धनम्, दाह-
कोऽग्निः । एतदेवात्र वक्तव्यम्—कि दाह्यम् ? को दाहक इति ? लोके हि
तावदप्रदीप्तं काष्ठादिकमिन्धनमुच्यते, दाह्यं च । प्रदीप्तमग्निर्दाहकश्च ।
यच्च भास्वरं चोष्णं च, भृशं च, तेन हि तदिध्यते दह्यते च; सन्ततिविकारा-
यस्मादनुन्मीलितार्थम् । अव्यञ्जितार्थमित्यर्थः । स्कन्धानालम्ब्येति ।
गृहीत्वेत्यर्थः । यथा रूपादीन् गृहीत्वा अपेक्ष्य क्षीरप्रज्ञप्तिः । न रूपादि-
व्यतिरिक्तं क्षीरमस्तीति । यदि तथा । पुद्गल इति प्रज्ञप्तिः, असत्पुद्गल
प्राप्नोतीत्यर्थः । स्कन्धान् प्रतीत्येति । यदि स्कन्धान् प्रतीत्य प्राप्य इति ।
स एव दोषः । तेष्वेव स्कन्धादिषु पुद्गलप्रज्ञप्तिः प्राप्नोतीत्यर्थः । अथ वा—
पुद्गलप्रज्ञप्तेः स्कन्धाः प्रत्ययो न पुद्गलः । पुद्गलस्तु तथैव प्रज्ञप्तिसन्नीति
स एव दोषः ।
यथेन्धनमुपादायाग्निः । प्रज्ञप्यत इति । द्रव्यसन् पुद्गलः । नान्यो नानन्य
इति । स्वमुपादानमुपादाय प्रज्ञप्यमानत्वात् । यो हि भावो नान्यो नानन्य
इति स्वमुपादाय प्रज्ञप्यमानः, स द्रव्यसन्; तद्यथा—अग्निः । इति
वात्सीपुत्रीयाभिप्रायः । अत एव चाह—यदि ह्यन्यः स्यादिति विस्तरेण ।
लोकविरोधं स्वसिद्धान्तविरोधं वा दर्शयति ।
शाश्वतप्रसङ्गादिति । असंस्कृतत्वात् । उच्छेदप्रसङ्गादिति । स्कन्धवत् ।
अप्रदीप्तं काष्ठादिकमिन्धनमिति विस्तरः । अनेनासिद्धतां दृष्टान्तस्य
दर्शयति । अन्यत्वमेव हि अग्नीन्धनयोरिष्यते । तेन हि तदिध्यते दह्यते
चेति । तेन अग्निना । तदिन्धनम् । इष्यते दीप्यत इत्यर्थः । दह्यते
१. स्कन्धानां लक्ष्यते—का०।