अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1222, कुल 1258 में से
संदर्भ में पढ़ेंविनिश्चयः ] अष्टमं कोशस्थानम् ११९६
वत्। यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्या-
लम्बनप्रत्ययः ।
अथ पुद्गलं प्रतीत्योत्पद्यते ? उभयं वा ? इदमुत्सूत्रम् । सूत्रे हि
निर्धारितम्—द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति । “तथा चक्षुर्भीक्षो
हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय । तत् कस्य हेतोः ? यत्किञ्चित्
भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि च” इति । अनित्यश्च पुद्गल
एवं प्राप्नोति; “ये हि हेतवो ये प्रत्यया विज्ञानस्योत्पादाय, तेऽप्यनित्याः”
इति सूत्रे वचनात् ।
अथ पुद्गलो न तस्यालम्बनम्, न तर्हि तेन विज्ञेयः ।
यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते, स श्रोत्रविज्ञान-
विज्ञेयत्वाद् रूपादन्यः प्राप्नोति, शब्दवत् । चक्षुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः
प्राप्नोति रूपवत् । एवमन्येभ्योऽपि योज्यम् । इदं च सूत्रपदं बाधितं
भवति—“यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि
स्वकं१ स्वकं१ गोचरविषयं प्रत्यनुभवन्ति । नान्यदन्यस्य गोचरविषयं
प्रत्यनुभवति । तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्दियं घ्राणेन्द्रियं जिह्वेन्द्रियं
कायेन्द्रियम् । मन एषां पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति,
प्रत्ययभूतत्वात्, शब्दादिवत् । आदिशब्देन गन्धवत्, रसवत्—इत्यादि
योज्यम् । एवं श्रोत्रादिविज्ञानानुपलभ्यमानत्वमस्य वक्तव्यम् । एषा हि
दिक् । अनेन चोपन्यासेन धर्मविशेषविपर्ययप्रतिज्ञादोष उद्भाव्यत इत्यव-
गन्तव्यम् ।
द्वयं प्रतीत्येति । द्वयं प्रतीत्य, न तु त्रयं प्रतीत्येति । अत इद-
मुत्सूत्रमिति ।
चक्षुर्भीक्षो हेतुरिति विस्तरः । हेतुः आसन्नः प्रत्ययः । विप्रकृष्टस्तु
प्रत्यय एव । ‘जनको हेतुः, प्रत्ययस्त्वालम्बनमात्रम्’ इत्यपरे । ‘पर्यायावेतौ’
इत्यपरे ।
रूपादन्यः पुद्गलः इति पक्षप्रसङ्गः । श्रोत्रविज्ञानविज्ञेयत्वाच्छब्द-
वत् । तथा शब्दादन्यः पुद्गल इति पक्षप्रसङ्गः; चक्षुर्विज्ञानविज्ञेयत्वात्
रूपवत् । इत्येवमन्येभ्योऽपि योज्यमिति । रूपशब्दाभ्यामन्यः पुद्गल इति
पक्षप्रसङ्गः; घ्राणविज्ञेयत्वात्, गन्धवत्—इत्येषा दिग् योजनं प्रतीति ।
स्वकं स्वकं गोचरविषयं प्रत्यनुभवन्तीति वचनात् पुद्गलेन प्रत्यनु-
१-१. स्वं स्वं—का० ।